कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरवान्ताः

इति चतुःस्वरलान्ताः ।

अनुभावः प्रभावे स्यान्निश्चये भावसूचने ।अपह्नवः पुनः स्नेहेऽपलापे चौरकर्मणि ॥ ३१५ ॥
4.23.315
अनुष्टुप्
अभिषवः क्रतौ मद्यसन्धानस्नानयोरपि ।अदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः ॥ ३१६ ॥
4.23.316
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable)
उपप्लवौ राहूत्पातौ कुशीलवस्तु चारणे ।प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥ ३१७ ॥
4.23.317
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे ।द्रुमभेदे चकोरे च धामार्गवस्तु घोषके ॥ ३१८ ॥
4.23.318
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable); pāda 4, syllable 3 र्ग (wrong syllable)
अपामार्गेऽप्यथ परिप्लवावाकुलचञ्चलौ ।पराभवस्तिरस्कारे नाशे पारशवोऽयसि ॥ ३१९ ॥
4.23.319
अनुष्टुप्
शूद्रायां विप्रतनये तनये च परस्त्रियाः ।पुटग्रीवस्तु गर्गर्यां ताम्रस्य कलशेऽपि च ॥ ३२० ॥
4.23.320
अनुष्टुप्
बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनि ।बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥ ३२१ ॥
4.23.321
अनुष्टुप्
हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे ।सहदेवा बलादण्डोत्पलयोः शारिवौषधे ॥ ३२२ ॥
4.23.322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द्र (wrong syllable)
सहदेवी तु सर्पाक्ष्याम् -
4.23.9