All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
चतुःस्वरकाण्डः · चतुःस्वरदान्ताः
इति चतुःस्वरथान्ताः ।
अष्टापदश्चन्द्रमाल्यां लूतायां शरभे गिरौ ॥ १४० ॥
4.13.140
कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः ।स्यादभिष्यन्द आश्रावनेत्ररोगातिवृद्धिषु ॥ १४१ ॥
4.13.141
अनुष्टुप्
अपवादस्तु निर्देशे निन्दाविस्रम्भयोरपि ।उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि ॥ १४२ ॥
4.13.142
अनुष्टुप्metre not read in every line
एकपदं तु तत्काले स्यादेकपदी तु वर्त्मनि ।कटुकन्दः श्रृङ्गवेरे शोभाञ्जनरसोनयोः ॥ १४३ ॥
4.13.143
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable); pāda 2, syllable 3 कप (syllable split)
कुरुविन्दः पद्मरागे मुकुरव्रीहिभेदयोः ।कुल्माषे हिङ्गुले मुस्ते कोकनदं तु रक्तयोः ॥ १४४ ॥
4.13.144
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)
अम्भोजन्मकुमुदयोश्चतुष्पदं गवादिषु ।स्त्रीणां करमभेदे च रक्तपादो(?) मतङ्गजे ॥ १४५ ॥
4.13.145
अनुष्टुप्metre not read in every line
स्यन्दने च जनपदः स्यात्पुनर्जनदेशयोः ।परिवादस्तु निन्दायां वीणावादनवस्तुनि ॥ १४६ ॥
4.13.146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
प्रियंवदः प्रियवादिनभश्चरविशेषयोः ।पीठमर्दोऽतिधृष्टे स्यान्नाट्योक्त्या नायकप्रिये ॥ १४७ ॥
4.13.147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
गजे च मुचुकुन्दस्तु द्रुभेदे मुनिदैत्ययोः ।मेघनादोऽम्बुदध्वाने वरुणे रावमात्मजे ॥ १४९ ॥
4.13.149
अनुष्टुप्
विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः ।विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा ॥ १५० ॥
4.13.150
metre not recognised
सङ्क्रान्तिर्द्वारका चापि शतह्रदा तु विद्युति ।वज्रेऽपि च समर्यादा मर्यादासहितेऽन्तिके ॥ १५१ ॥
4.13.151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्र (wrong syllable)