All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरदान्ताः
इति द्विस्वरथान्ताः ।
अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥ २१९ ॥
2.16.219
अन्दुः स्यान्निगडे भूषाभेदे ककुदवत् ककुत् ।श्रेष्ठे वृषाङ्गे राट्चिह्ने क्रव्यान्मांसाशिरक्षसोः ॥ २२० ॥
2.16.220
अनुष्टुप्
कन्दोऽब्दे सूरणे सस्यमूले कुन्दोऽच्युते निधौ ।चक्रभूमौ च माघ्ये च क्षोदः पेषणचूर्णयोः ॥ २२१ ॥
2.16.221
अनुष्टुप्
गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे ।छदः पत्रे पतत्त्रे च ग्रन्थिपर्णतमालयोः ॥ २२२ ॥
2.16.222
अनुष्टुप्
छन्दो वशेऽभिप्राये च दृषत् पाषाणमात्रके ।निष्पेषणार्थपट्टेऽपि धीदा कन्यामनीषयोः ॥ २२३ ॥
2.16.223
अनुष्टुप्
नदो वहेऽब्धौ निनदे नन्दा संपद्यलिञ्जरे ।तिथिभेदेऽपि नन्दिस्तु प्रतीहारे पिनाकिनः ॥ २२४ ॥
2.16.224
अनुष्टुप्
आनन्दने च द्यूते च निन्दा कुत्सापवादयोः ।पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः ॥ २२५ ॥
2.16.225
अनुष्टुप्
त्राणे पादे पादचिह्ने व्यवसायापदेशयोः ।पादो मूलोस्त्रतुर्यांशाङ्ध्रिषु प्रत्यन्तपर्वते ॥ २२६ ॥
2.16.226
अनुष्टुप्
भन्दं कल्याणे सौख्ये च भसद्भास्वरमांसयोः ।भेदो विदारणे द्वैधे उपजापविशेषयोः ॥ २२७ ॥
2.16.227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णे (wrong syllable)
मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः ।कस्तूरिकायां क्षेब्ये च मदी कृषकवस्तुनि ॥ २२८ ॥
2.16.228
अनुष्टुप्
मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते ।गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले ॥ २२९ ॥
2.16.229
अनुष्टुप्
मृद्वतीक्ष्णे कोमले च रदो दन्ते विलेखने ।विदा ज्ञानधियोर्बिन्दुविप्रुट्ज्ञात्रो रदक्षते ॥ २३० ॥
2.16.230
अनुष्टुप्
वेदिरङ्गुलिमुद्रायां बुधेऽलंकृतभूतले ।शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥ २३१ ॥
2.16.231
अनुष्टुप्
शरद्वर्षात्यये वर्षे शादः कर्दमशष्पयोः ।संवित्संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे ॥ २३२ ॥
2.16.232
अनुष्टुप्
क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि ।संपदृद्धौ गुणोत्कर्षे हारे स्वादुस्तु सुन्दरे ॥ २३३ ॥
2.16.233
अनुष्टुप्