All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
हेमचन्द्राचार्य · अनेकार्थसङ्ग्रहो नाम कोशः आचार्यश्रीहेमचन्द्रेण विरचितः । · जयकृष्णदास-हरिदासगुप्तः - चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमंदिर के उत्तरफाटक, बनारस सिटी । · 1985 V.S. · श्रीपण्डितघनानन्दपाण्डेयेन पल्लवग्रामवासिना तथा श्रीपण्डितजनार्दनज्योतिर्विदा तारादत्तिना चीनाखनीवासिना च कूर्माचलपर्वतीयाभ्याम् उद्धृत्य संशोध्याऽकारादिसूच्या संवेष्ट्य मुद्रणायाऽर्पितः । श्रीमता पण्डितजगन्नाथशास्त्रिहोशिङ्गमहोदयेन साहित्योपाध्यायेन सम्पादितः
1,980 verses · text only, tagging comes next
चतुःस्वरकाण्डः · चतुःस्वरडान्ताः
इति चतुःस्वरठान्ताः ।
अपोगण्डोऽतिभीरौ स्याच्छिशुके विकलाङ्गके ॥ ७३ ॥
4.8.73
चक्रवाडं गणे चक्रवाडोऽद्रौ चक्रवालवत् ।जलरुण्डः पयोरेणौ जलावर्त्ते भुजङ्गमे ॥ ७४ ॥
4.8.74
अनुष्टुप्
देवताडो घोषकेऽग्रौ राहौ वातखुडा पुनः ।वात्यायां पिच्छिले स्फोटे वामायां वातशोणिते ॥ ७५ ॥
4.8.75
अनुष्टुप्