कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरतान्ताः

इति चतुःस्वरणान्ताः ।

अवदातं तु विमलं मनोज्ञे सितपीतयोः ॥ ९६ ॥
4.11.96
अपवृतोऽपरायत्ते पिहितेऽवसितं गतौ ।बद्धे ज्ञातेऽवसाने चाप्यऽवगीतं विगर्हिते ॥ ९७ ॥
4.11.97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वृ (wrong syllable)
मुहुर्दृष्टेऽपवादे वाऽत्याहितं तु महाभये ।जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे ॥ ९८ ॥
4.11.98
अनुष्टुप्metre not read in every line
न्याये प्राज्ञेऽभिनीतस्तु न्यायेऽमर्षिणि संस्कृते ।अभियुक्तः परिरुद्धे तत्परेऽन्तर्गतं पुनः ॥ ९९ ॥
4.11.99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
मध्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते ।पलाशकलिकोद्भेदे चातिमुक्तः सुनिष्कले ॥ १०० ॥
4.11.100
अनुष्टुप्metre not read in every line
वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते ।त्यक्तनिद्रितयोश्चाऽधिक्षिप्तौ निहितभर्त्सितौ ॥ १०१ ॥
4.11.101
अनुष्टुप्
अपचितिर्व्यये हानौ पूजायां निष्कृतावपि ।अनुमतिः स्यादनुज्ञापूर्णमासीविशेषयोः ॥ १०२ ॥
4.11.102
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable); pāda 3, syllable 3 म (wrong syllable)
अभिशस्तिः पुनर्लोकापवादे प्रार्थितेऽपि च ।उदास्थितश्चरे द्वाःस्थेऽध्यक्षे चोपाहितः पुनः ॥ १०३ ॥
4.11.103
अनुष्टुप्
आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रुते ।मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते ॥ १०४ ॥
4.11.104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 खि (wrong syllable)
उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे ।राहुग्रस्तार्कशशिनोरुपचितः समाहिते ॥ १०५ ॥
4.11.105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 चि (wrong syllable)
ऋद्धे दिग्धेऽथोज्जृम्भितमुत्फुल्ले चेष्टितेऽपि च ।उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि ॥ १०६ ॥
4.11.106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज्जृ (wrong syllable)
उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः ।ऋष्यप्रोक्ता शूकशिम्ब्यां शतावर्यां बलाभिदि ॥ १०७ ॥
4.11.107
अनुष्टुप्
ऐरावतोऽहौ नारङ्गे लकुचे त्रिदशद्विपे ।ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने ॥ १०८ ॥
4.11.108
अनुष्टुप्
ऐरावती सरिद्विद्युद्भिदोः शतह्रदा यथा ।कलधौतं रूप्यहेम्नोः कलधौतः कलध्वनौ ॥ १०९ ॥
4.11.109
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
कुहरितं तु रटिते पिकालापे रतस्वने ।कुमुद्वती कैरविण्यां दयितायां कुशस्य च ॥ ११० ॥
4.11.110
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
कृष्णवृन्ता माषपर्ण्यां पाटलाख्यद्रुमेऽपि च ।गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः ॥ १११ ॥
4.11.111
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 व (wrong syllable)
गृहपतिर्गृही सत्री चन्द्रकान्तं तु कैरवे ।चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि ॥ ११२ ॥
4.11.112
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable); pāda 4, syllable 3 ण्व (wrong syllable)
कदल्यां चित्रगुप्तस्तु कृतान्ते तस्य लेखके ।दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे ॥ ११३ ॥
4.11.113
अनुष्टुप्
दिवाकीर्तिर्नापिते स्यादुलूकेऽन्त्यावसायिनि ।धूमकेतू वह्न्युत्पातौ नन्द्यावर्तो गृहान्तरे ॥ ११४ ॥
4.11.114
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व (wrong syllable)
तगरेऽथ नदीकान्तो निर्गुण्डीनिचुलाब्धिषु ।नदीकान्ता लताजम्ब्वोः काकजङ्घौषधेऽपि च ॥ ११५ ॥
4.11.115
अनुष्टुप्
नागदन्तो हस्तिदन्ते गृहान्निःसृतदारुणि ।नागदन्ती श्रीहस्तिन्यां कुम्भख्यभेषजेऽपि च ॥ ११६ ॥
4.11.116
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 न्ती (syllables merged)
निस्तुषितं वर्जिते स्याद्गतत्वचि लघूकृते ।निराकृतिरस्वाध्याये निराकारनिषेधयोः ॥ ११७ ॥
4.11.117
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 षि (wrong syllable); pāda 3, syllable 5 र (wrong syllable)
प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः ।प्रणिहितं तु सम्प्राप्तनिहितयोः समाहिते ॥ ११८ ॥
4.11.118
metre not recognised
प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च ।प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि ॥ ११९ ॥
4.11.119
अनुष्टुप्
प्रव्रजिता तु मुण्डीर्यां तापस्यां मासिकौषधौ ।प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे ॥ १२० ॥
4.11.120
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 जि (wrong syllable)
वह्नौ त्वष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ।प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे ॥ १२१ ॥
4.11.121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ।प्राप्तवेष्टितयोर्ज्ञाते पल्लवितं सपल्लवे ॥ १२२ ॥
4.11.122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
लाक्षारक्ते तते पञ्चगुप्तश्चार्वाकदर्शने ।कमठे परिवर्तस्तु कूर्मराजे पलायने ॥ १२३ ॥
4.11.123
अनुष्टुप्
युगान्ते विनिमये च परिघातस्तु घातने ।अस्त्रान्तरे पशुपतिः पिनाकिनि हुताशने ॥ १२४ ॥
4.11.124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
पाशुपतः शिवमल्ल्यां पशुपत्यभिदैवते ।पारिजातस्तु मन्दरे पारिभद्रे सुरद्रुमे ॥ १२५ ॥
4.11.125
metre not recognised
पारावतः कलरवे गिरौ मर्कटतिन्दुके ।पारावती तु लवलीफलगोपालगीतयोः ॥ १२६ ॥
4.11.126
अनुष्टुप्
पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे ।पुष्पवन्तौ च चन्द्रार्कावेकोक्त्याऽथ पुरस्कृतम् ॥ १२७ ॥
4.11.127
अनुष्टुप्
पूजिते स्वीकृते सिक्तेऽभिशस्तेऽप्रकृतेऽपि च ।भोगवती च सर्पाणां नगरे सरिदन्तरे ॥ १२८ ॥
4.11.128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
रङ्गमाता जतुचेद्योर्लक्ष्मीपतिर्जनार्दने ।पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे ॥ १२९ ॥
4.11.129
अनुष्टुप्metre not read in every line
योगभेदेऽपयाने च वनस्पतिर्द्रुमात्रके ।विनापुष्पफलिद्रौ च विनिपातस्तु दैवतः ॥ १३० ॥
4.11.130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्प (wrong syllable)
व्यसनं चावपाते च वैजयन्तो गुहे ध्वजे ।इन्द्रालये वैजयन्ती त्वग्निमन्थपताकयोः ॥ १३१ ॥
4.11.131
अनुष्टुप्
जयन्त्यां च शुभ्रदन्ती पुः षदन्तगजस्त्रियाम् ।सुदत्यां च समाघातस्त्वाहवे घातनेऽपि च ॥ १३२ ॥
4.11.132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
समाहितः समाधिस्थे संश्रुतेऽथ समुद्धतः ।अविनीते समुद्गीर्णे समुद्रान्ता दुरालभा ॥ १३३ ॥
4.11.133
अनुष्टुप्
कर्पासिका च सृक्का च सदागतिः सदीश्वरे ।निर्वाणे पवमाने च सरस्वती सरिद्भिदि ॥ १३४ ॥
4.11.134
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable); pāda 4, syllable 3 स्व (wrong syllable)
वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि ।सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजके ॥ १३५ ॥
4.11.135
अनुष्टुप्
सेनापतिर्गुहेऽध्यक्षे हिमारातिः खगेऽनले ।हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाऽभाया ॥ १३६ ॥
4.11.136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 भा (wrong syllable)