कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरशान्ताः

इति द्विस्वरवान्ताः ।

अंशुः सूत्रादिसूक्ष्मांशे किरणे चन्द्रदीधितौ ।आशा ककुभि तृष्णायामाशुस्तु व्रीहिशीघ्रयोः ॥ ५३० ॥
2.28.530
अनुष्टुप्
ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके ।काशस्तृणे रोगभेदे कीशः कपौ दिगम्बरे ॥ ५३१ ॥
2.28.531
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः ।कुशी लोहविकारे स्यात्कुशा वला कुशं जले ॥ ५३२ ॥
2.28.532
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
केशः शिरसिजे पाशपाणौ ह्रीवेरदैत्ययोः ।क्लेशो रागादौ दुःखे च कोशः कोष इवाण्डके ॥ ५३३ ॥
2.28.533
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दौ (wrong syllable)
कुड्मले चषके दिव्येऽर्थचये योनिशिम्बयोः ।जातिकोशेऽसिपिधाने दर्शः सूर्येन्दुसङ्गमे ॥ ५३४ ॥
2.28.534
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि चर्मणि ।दोषे वनमक्षिकायां खण्डने भुजगक्षते ॥ ५३५ ॥
2.28.535
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 न (wrong syllable)
दशा वर्ताववस्थायां दशास्तु वसनाञ्चले ।नाशः पलायने मृत्यौ परिध्वस्तावदर्शने ॥ ५३६ ॥
2.28.536
अनुष्टुप्
निशा हरिद्रायां रात्रौ पशुश्छागे मृगादिषु ।प्रमथेऽपि च पाशस्तु मृगपक्ष्यादिबन्धने ॥ ५३७ ॥
2.28.537
अनुष्टुप्
कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः ।छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः ॥ ५३८ ॥
2.28.538
अनुष्टुप्
मण्डभेदे पलपिण्डे सुपक्वकणिकेऽपि च ।भूस्पृग्वैश्ये मानवे च राशिर्मेषादिपुञ्जयोः ॥ ५३९ ॥
2.28.539
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः ।वशा नार्य्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि ॥ ५४० ॥
2.28.540
अनुष्टुप्
वंशः सङ्घेऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च ।वेशो वेश्यागृहे गेहे नेपथ्ये च शशः पशौ ॥ ५४१ ॥
2.28.541
अनुष्टुप्
बोले लोघ्रे नृभेदे च स्पशो हेरिकयुद्धयोः ।स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि ॥ ५४२ ॥
2.28.542
अनुष्टुप्