कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

परिशिष्टकाण्डः · त्रिस्वराव्ययानि

इति द्विस्वराव्ययानि ।

ननुच प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि ॥ ६१ ॥
7.3.61
अपष्ठु चारौ निर्दोषे किमुत प्रश्नवादयोः ।विकल्पेऽतिशये चापि पुरस्तात्प्रथमेऽग्रतः ॥ ६२ ॥
7.3.62
अनुष्टुप्
पूर्वस्यां च पुरार्थे चाऽभीक्ष्णं शीघ्रप्रकर्षयोः ।पौनःपुन्ये सन्तते चाऽवश्यं निश्चयनित्ययोः ॥ ६३ ॥
7.3.63
अनुष्टुप्
इदानीं साम्प्रतं वाक्यालङ्कारे तद्दिनं पुनः ।दिनमध्ये प्रतिदिने साम्प्रतं तूचितेऽधुना ॥ ६४ ॥
7.3.64
अनुष्टुप्
समयानिकषे चान्तर्निकटे चान्तरा पुनः ।विनार्थे संनिधौ मध्येऽभितोऽभिमुखकात्र्स्नयोः ॥ ६५ ॥
7.3.65
अनुष्टुप्
सभीपोभयतःशीघ्रेष्वग्रतः प्रथमाग्रयोः ।अन्ततोऽवयवोत्प्रेक्षापञ्चम्यर्थषु शासने ॥ ६६ ॥
7.3.66
अनुष्टुप्
पुरतोऽग्राद्ययोः पूर्वेद्युः पूर्वाह्णप्रभातयोः ।अहहेत्यद्भुते खेदे-
7.3.7
अनुष्टुप्metre not read in every line