All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरपान्ताः
इति द्विस्वरनान्ताः ।
कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे ।शास्त्रे न्याये विधौ कूपो गर्तेऽन्धौ गुणवृक्षके ॥ २८८ ॥
2.19.288
अनुष्टुप्
मृन्माने कूपके क्षेपो गर्वे लङ्घननिन्दयोः ।विलम्बेरणहेलासु गोपौ भूपालबल्लवौ ॥ २८९ ॥
2.19.289
अनुष्टुप्
ग्रामौघगोष्ठाधिकृतौ गोपी गोपालसुन्दरी ।शारिवा रक्तिका तल्पमट्टे शय्याकलत्रयोः ॥ २९० ॥
2.19.290
अनुष्टुप्
त्रपा लज्जाकुलटयोस्त्रपु सीसकरङ्गयोः ।तापः संतापे कृच्छ्रे च तापी तु सरिदन्तरे ॥ २९१ ॥
2.19.291
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पे (wrong syllable)
दर्पो मृगमदे गर्वे पुष्पं विकास आर्तवे ।धनदस्य विमाने च कुसुमे नेत्ररुज्यपि ॥ २९२ ॥
2.19.292
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
बाष्प ऊष्माक्षिजलयो रूपं तु श्लोकशब्दयोः ।पाशावाकारे सौन्दर्ये नाणके नाटकादिके ॥ २९३ ॥
2.19.293
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
ग्रन्थावृत्तौ स्वभावे च रेपः क्रूरे विगर्हिते ।रोपौ रोपणेषू रोपं रन्ध्रे लेपस्तु लेपने ॥ २९४ ॥
2.19.294
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णे (wrong syllable)
शापः शपथ आक्रोशे शिष्पं स्रुवे क्रियोचिते ।स्वापो निद्रायां रुग्भेदे शयनाज्ञानमात्रयोः ॥ २९६ ॥
2.19.296
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्रु (wrong syllable); pāda 3, syllable 5 यां (wrong syllable)