कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरसान्ताः

इति त्रिस्वरषान्ताः ।

अलसो द्रुमभेदे स्यात्पदरोगे क्रियाजडे ।अलसा तु हंसपद्यां नगौकोवदगौकसः ॥ ७८७ ॥
3.28.787
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
विहङ्गसिंहसरभा आश्वासः स्यात्तु निर्वृतौ ।आख्यायिका परिच्छेदेऽपीष्वासो धन्वधन्विनोः ॥ ७८८ ॥
3.28.788
अनुष्टुप्
उच्छ्वासः प्राणने श्वासे गद्यबन्धान्तरेऽपि च ।उत्तंसः शेखरे कर्णपूरे चाप्यवतंसवत् ॥ ७८९ ॥
3.28.789
अनुष्टुप्
उदर्चिरुत्प्रभे वह्नौ कनीयाननुजेऽल्पके ।अतियूनि कीकसस्तु कृमौ कीकसमस्थिनि ॥ ७९० ॥
3.28.790
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
तामसः सर्पखलयोस्तामसी स्यान्निशोमयोः ।त्रिस्रोता जान्हवीसिन्धुभिदोरथ दिवौकसौ ॥ ७९१ ॥
3.28.791
अनुष्टुप्
चातकस्त्रिदशश्चापि दीर्घायुर्जीवके द्विके ।मार्कण्डे शाल्मलितरौ नभसस्तु नदीपतौ ॥ ७९२ ॥
3.28.792
अनुष्टुप्
गगने ॠतुभेदे च पनसः कपिरुग्भिदोः ।कण्टके कण्टकिफले प्रचेता वरुणे मुनौ ॥ ७९३ ॥
3.28.793
अनुष्टुप्
हृष्टे पायसः श्रीवासे पायसं परमान्नके ।बीभत्से विकृते क्रूरे रसे पार्थे घृणात्मनि ॥ ७९४ ॥
3.28.794
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सः (wrong syllable)
पुक्कसी कालिकानील्योः पुक्कसः श्वपचेऽधमे ।मानसं स्वान्तसरसोः रभसो वेगहर्षयोः ॥ ७९५ ॥
3.28.795
अनुष्टुप्
राक्षसी कोणपी दंष्ट्रा रोद इव तु रोदसी ।दिवि भुव्युभयोश्चापि लालसो लोलयाञ्चयोः ॥ ७९६ ॥
3.28.796
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द (wrong syllable)
तृष्णातिरेक औत्सुक्ये वरीयान् श्रेष्ठयोगयोः ।अतियूनि च विस्तीर्णे वायसस्त्वगुरौ द्विके ॥ ७९७ ॥
3.28.797
अनुष्टुप्
श्रीवासे वायसी काकोदुम्बरी काकमाच्यपि ।वाहसः स्यादजगरेऽम्बुनिर्याणनिषण्णयोः ॥ ७९८ ॥
3.28.798
अनुष्टुप्
विलासो हावे लीलायां विहायो व्योमपक्षिणोः ।श्रीवासो वृकधूपे स्यात्कमले मधुसूदने ॥ ७९९ ॥
3.28.799
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
श्रेयसी गजपिप्पल्यामभयारास्नयोरपि ।समासः स्यादेकपद्ये संक्षेपे च समर्थने ॥ ८०० ॥
3.28.800
अनुष्टुप्
सप्तार्चिः क्ररनेत्रेऽग्नौ साधीयानतिशोभने ।अतिबाढे साहसं तु दमे दुष्करकर्मणि ॥ ८०१ ॥
3.28.801
अनुष्टुप्
अविमृश्य कृतौ धार्ष्ट्ये सारसं सरसीरुहे ।सारसः पुष्कराख्येन्द्वोः सुमनाः प्राज्ञदेवयोः ॥ ८०२ ॥
3.28.802
अनुष्टुप्
जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि ।सुरसः स्यात् सुमधुरे सुरसा त्वौषधीभिदि ॥ ८०३ ॥
3.28.803
अनुष्टुप्