कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वररान्ताः

इति द्विस्वरयान्ताः ।

अग्रं पुरः प्रथमेऽधिके ।उपर्य्यालम्बने श्रेष्ठे परिमाणे पलस्य च ॥ ३८१ ॥
2.25.381
अनुष्टुप्metre not read in every line
भिक्षाप्रकारे सङ्घाते प्रान्तेऽप्यद्रिस्तु पर्वते ।सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगनेऽम्बुदे ॥ ३८२ ॥
2.25.382
अनुष्टुप्
अस्रः शिरसिजे कोणे स्यादस्रं शोणितेऽश्रुणि ।अस्त्रं चापे प्रहरणेऽप्यह्निः पादद्रुमूलयोः ॥ ३८३ ॥
2.25.383
अनुष्टुप्
अरो जिनेऽरं चक्राङ्गे शीघ्रशीघ्रगयोरपि ।आरो रीरी शनिर्भौम आरा चर्मप्रभेदिनी ॥ ३८४ ॥
2.25.384
अनुष्टुप्
इराम्भोवाक्तुराभूमिष्विन्द्रः शक्रेऽन्तरात्मनि ।आदित्ये योगभेदे स्यादिन्द्रा तु फणिज्झके ॥ ३८५ ॥
2.25.385
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उग्रः क्षत्रियतः शूद्रासूनावुत्कटरुद्रयोः ।उग्रा वचाछिक्किकयोरुस्रा गवोपचित्रयोः ॥ ३८६ ॥
2.25.386
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
उस्रो मयूखे स्यादुष्ट्री मृद्भाण्डे करभस्त्रियाम् ।ऐन्द्रिरिन्द्रसुते काकेऽप्योड्रा जनपदान्तरे ॥ ३८७ ॥
2.25.387
अनुष्टुप्
औड्रो जने जपावृक्षे करः प्रत्यायशुण्डयोः ।रश्मौ वर्षोपले पाणौ क्षरो मेघे क्षरं जले ॥ ३८८ ॥
2.25.388
अनुष्टुप्
कद्रुः कनकपिङ्गे स्यात्कद्रूस्तु नागमातरि ।कारो बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ ॥ ३८९ ॥
2.25.389
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
कारा बन्धनशालायां बन्धे दूत्यां प्रसेवके ।स्याद्धेमकारिकायां च क्षारः काचे रसे गुडे ॥ ३९० ॥
2.25.390
अनुष्टुप्
भस्मनि धूर्तलवणे कारिः शिल्पी क्रियाऽपि च ।कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि ॥ ३९१ ॥
2.25.391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
कीरः शुके जनपदे क्षीरं पानीयदुग्धयोः ।क्षुरो गोक्षुरके कोकिलाख्ये छेदनवस्तुनि ॥ ३९२ ॥
2.25.392
अनुष्टुप्
क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः ।क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च ॥ ३९३ ॥
2.25.393
अनुष्टुप्
चाङ्गेरिकायां हिंस्रायां मक्षिकामात्रवेश्ययोः ।कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले ॥ ३९४ ॥
2.25.394
अनुष्टुप्
क्रूरा नृशंसघोरोष्णकठिनाः कृच्छ्रमंहसि ।कष्टे सान्तपने क्षेत्रं भरतादौ भगाङ्गयोः ॥ ३९५ ॥
2.25.395
अनुष्टुप्
केदारे सिद्धभूपत्न्योः क्रोष्ट्री क्षीरविदारिका ।शृगालिका लाङ्गली च क्षौद्रं तु मधुनीरयोः ॥ ३९६ ॥
2.25.396
अनुष्टुप्
खरो रक्षोऽन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च ।खरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च ॥ ३९७ ॥
2.25.397
अनुष्टुप्
खुरः शफे कोलदले गरस्तूपविषे विषे ।रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः ॥ ३९८ ॥
2.25.398
अनुष्टुप्
गजाग्रदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके ।शैले गिरियके गीर्णावपि गुन्द्रस्तु तेजने ॥ ३९९ ॥
2.25.399
अनुष्टुप्
गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्रमुस्तके ।गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके ॥ ४०० ॥
2.25.400
अनुष्टुप्
अलघौ दुर्जरे चापि गृद्ध्रो गृध्नौ खगान्तरे ।गोत्रं क्षेत्रेऽन्वये छत्रे सम्भाव्यबोधवर्त्मनोः ॥ ४०१ ॥
2.25.401
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व्य (wrong syllable)
वने नाम्नि च गोत्रोऽद्रौ गोत्रा भुवि गवाङ्गणे ।गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ॥ ४०२ ॥
2.25.402
अनुष्टुप्
विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे ।गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् ॥ ४०३ ॥
2.25.403
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रं (wrong syllable)
रजन्यां रोचनीनद्योर्घस्रो वासरहिंस्रयोः ।घोरो हरे दारुणे च चरः स्याज्जङ्गमे स्पशे ॥ ४०४ ॥
2.25.404
अनुष्टुप्
चले द्यूतप्रभेदे च चक्रं प्रहरणे गणे ।कुलालाद्युपकरणे राष्ट्रे सैन्यरथाङ्गयोः ॥ ४०५ ॥
2.25.405
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द्यु (wrong syllable)
जलावर्त्ते छले चक्रः कोके चन्द्रोऽम्बुकाम्ययोः ।स्वर्णे सुधांशौ कर्पुरे कम्पिल्ये मेचकेऽपि च ॥ ४०६ ॥
2.25.406
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
चरुर्हव्यान्ने भाण्डे च चारो बन्धावसर्पयोः ।गतौ पियालवृक्षे च चित्रं खे तिलकेऽद्भुते ॥ ४०७ ॥
2.25.407
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ने (wrong syllable)
आलेख्ये कर्बुरे चित्रा त्वाखुपर्णीसुभद्रयोः ।गोडुम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः ॥ ४०८ ॥
2.25.408
अनुष्टुप्
चीरं वाससि चूडायां गोस्तने सीसपत्रके ।चीरी कच्छाटिकाझिल्ल्योश्चुक्रस्त्वम्लेऽम्लवेतसे ॥ ४०९ ॥
2.25.409
अनुष्टुप्
वृक्षाम्ले चुक्री चाङ्गेर्य्यां चैत्रो मासाद्रिभेदयोः ।चैत्त्रं मृतकचैत्ये च चौरो दस्युसुगन्धयोः ॥ ४१० ॥
2.25.410
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्री (wrong syllable)
छत्त्रं स्यादातपत्राणे छत्त्रा मधुरिकौषधौ ।धान्यके च शिलीन्ध्रे च छिद्रं विवररन्ध्रवत् ॥ ४११ ॥
2.25.411
अनुष्टुप्
गर्ते दोषे जारस्तूपपत्तौ जार्यौषिधीभिदि ।जीरस्त्वजाज्यां खड्गे च टारो लिङ्गतुरङ्गयोः ॥ ४१२ ॥
2.25.412
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
तन्त्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः ।अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे ॥ ४१३ ॥
2.25.413
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्ते (wrong syllable); pāda 3, syllable 4 कु (wrong syllable)
श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके ।इतिकर्तव्यतातन्त्वोस्तन्त्री स्याद्वल्लकीगुणे ॥ ४१४ ॥
2.25.414
अनुष्टुप्
अमृतायां च नद्ध्र्यां च शिरायां वपुषोऽपि च ।तरिर्दशायां बेडायां वस्त्रादीनां च पेटके ॥ ४१५ ॥
2.25.415
अनुष्टुप्
तन्द्री निद्रा प्रमीला च तारो निर्मलमौक्तिके ।मुक्ताशुद्धावुच्चनादे नक्षत्रनेत्रमध्ययोः ॥ ४१६ ॥
2.25.416
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)
तारं रुप्ये तारा बुद्धदेव्यां सुरगुरुस्त्रियाम् ।सुग्रीवपत्न्यां ताम्रं तु शुल्बे शुल्बनिभेऽपि च ॥ ४१७ ॥
2.25.417
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
तीव्रं कटूष्णात्यर्थेषु तीव्रा तु कटुरोहिणी ।गण्डदूर्वासुरी तीरो वङ्गे तीरं पुनस्तटे ॥ ४१८ ॥
2.25.418
अनुष्टुप्
तोत्त्रं वेणुके प्रतोदे दरः स्याद्भयगर्तयोः ।दरी तु कन्दरे दस्रः खरो दस्रौ रवेः सुतौ ॥ ४१९ ॥
2.25.419
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 णु (wrong syllable)
द्वारं निर्गमेऽभ्युपाये धरः कूर्माधिपे गुरौ ।कर्पासतूलेऽथ धरा मेदोभूमिजरायुषु ॥ ४२० ॥
2.25.420
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ग (wrong syllable)
धारो जलधरासारवर्षणे स्यादृणेऽपि च ।धारोत्कर्षे खड्गाद्यग्रे सैन्याग्रे वाजिनां गतौ ॥ ४२१ ॥
2.25.421
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ख (wrong syllable)
जलादिपाते सन्तत्यां धात्री भुव्युपमातरि ।आमलक्यां जनन्यां च धीरो ज्ञे धैर्यसंयुते ॥ ४२२ ॥
2.25.422
अनुष्टुप्
स्वैरे धीरं तु घुसृणे नरोमर्त्येऽच्युतेर्जुने ।नरं तु रामकर्पूरे नक्रं नासाग्रदारुणोः ॥ ४२३ ॥
2.25.423
अनुष्टुप्
नक्रो यादसि नीव्रं तु वलीकवननेमिषु ।चन्द्रे च रेवतीभे च नेत्रं वस्त्रे मथोगुणे ॥ ४२४ ॥
2.25.424
अनुष्टुप्
मूलाक्षिनेतृषु परो दूरान्यश्रेष्ठशत्रुषु ।परन्तु केवले पत्रं यानं पक्षश्छदश्छुरी ॥ ४२५ ॥
2.25.425
अनुष्टुप्
पारं प्रान्ते परतटे पारी पूरपरागयोः ।पात्र्यां कर्पूरिकायां च पादबंधे च हस्तिनः ॥ ४२६ ॥
2.25.426
अनुष्टुप्
पात्त्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि ।योग्यभाजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि ॥ ४२७ ॥
2.25.427
अनुष्टुप्
पुरं शरीरे नगरे गृहपाटलिपुत्रयोः ।पुरस्तु गुग्गुलौ पुण्ड्रः कृमौ दैत्येक्षुभेदयोः ॥ ४२८ ॥
2.25.428
अनुष्टुप्
वासन्त्यां तिलके पुण्डरीके पुण्ड्रास्तु नीवृति ।पुरुः परागे प्रचुरे स्वर्लोकनृपभेदयोः ॥ ४२९ ॥
2.25.429
अनुष्टुप्
पूरः स्यादम्भसां वृद्धौ व्रणसंशुद्धिखाद्ययोः ।पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥ ४३० ॥
2.25.430
अनुष्टुप्
पौरं कत्तृणे पुरजे बभ्रुः पिङ्गाग्निशूलिषु ।मुनौ विशाले नकुले विष्णौ भद्रं तु मङ्गले ॥ ४३१ ॥
2.25.431
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्तृ (wrong syllable)
मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे ।भद्रो रामचरे हस्तिजातौ मेरुकदम्बके ॥ ४३२ ॥
2.25.432
अनुष्टुप्
गवि शम्भौ भद्रा विष्टौ नभःसरिति कट्फले ।कृष्णानन्तारास्नासु च भरोऽतिशयभारयोः ॥ ४३३ ॥
2.25.433
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable); pāda 3, syllable 6 स्ना (wrong syllable)
भरुर्भर्तृकनकयोर्भारो दशशतीद्वये ।पलानां वीवधे चापि भीरुर्योषिति कातरे ॥ ४३४ ॥
2.25.434
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्तृ (wrong syllable)
भूरि स्वर्णे प्रचुरे च मन्त्रो देवादिसाधने ।वेदांशे गुप्तवादे च मरुः पर्वतदेशयोः ॥ ४३५ ॥
2.25.435
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 चु (wrong syllable)
मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां जनक्षये ।मात्त्रं त्ववधृतौ स्वार्थे कार्त्स्न्ये मात्रापरिच्छदे ॥ ४३६ ॥
2.25.436
अनुष्टुप्
अक्षरावयवे द्रव्ये मानेऽल्पे कर्मभूषणे ।काले वृत्ते च मित्रं तु सख्यौ मित्रे दिवाकरे ॥ ४३७ ॥
2.25.437
अनुष्टुप्
यात्रोत्सवे गतौ वृत्तौ राष्ट्रमुत्पातनीवृतोः ।रुरुर्दैत्ये मृगे रेत्रं पीयूषपटवासयोः ॥ ४३८ ॥
2.25.438
अनुष्टुप्
रेतःसूतकयो रोध्रो लोध्रे रोध्रमघागसोः ।रौद्रो भीष्मे रसे तीव्रे रौद्री गौर्यां वरो वृतौ ॥ ४३९ ॥
2.25.439
अनुष्टुप्
विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते ।वरं तु घुसृणे किञ्चिदिष्टे वरी शतावरी ॥ ४४० ॥
2.25.440
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः ।वक्त्रमास्ये छन्दसि च वप्रःप्राकाररोधसोः ॥ ४४१ ॥
2.25.441
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 भे (wrong syllable); pāda 3, syllable 5 छ (wrong syllable)
क्षेत्रे ताते चये रेणौ वज्रं कुलिशहीरयोः ।बालके वज्रा त्वमृता वर्ध्रः सीसवरत्रयोः ॥ ४४२ ॥
2.25.442
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्रा (wrong syllable)
व्यग्रो व्यापृताकुलयोर्वारः सूर्यादिवासरे ।महेश्वरावसरयोर्वृन्दे कुब्जाख्यपादपे ॥ ४४३ ॥
2.25.443
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पृ (wrong syllable)
वारं तु मदिरापात्रे वारि ह्रीबेरनीरयोः ।वारिर्घट्यां सरस्वत्यां गजबन्धनभुव्यपि ॥ ४४४ ॥
2.25.444
अनुष्टुप्
व्याघ्रः करञ्जे शार्दूले रक्तैरण्डतरावपि ।श्रेष्ठे तूत्तरपदस्थः स्याद्व्याघ्री कण्टकारिका ॥ ४४५ ॥
2.25.445
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
वीरो जिने भटे श्रेष्ठे वीरं शृङ्ग्यां नतेऽपि च ।वीरा गम्भारिकारम्भातामलक्येलवालुषु ॥ ४४६ ॥
2.25.446
अनुष्टुप्
मदिराक्षीरकाकोलीगोष्ठोदुम्बरिकासु च ।पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि ॥ ४४७ ॥
2.25.447
अनुष्टुप्
वृत्रो मेघे रिपौ ध्वान्ते दानवे वासवे गिरौ ।वेरं घुसृणवृन्ताकशरीरेषु शरं जले ॥ ४४८ ॥
2.25.448
अनुष्टुप्
शरः पुनर्दधिसारे काण्डतेजनयोरपि ।शक्रोऽर्जुनतराविन्द्रे कुटजे शस्त्रमायुधे ॥ ४४९ ॥
2.25.449
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धि (wrong syllable)
लोहे शस्त्री छुरिकायां शद्रिर्जिष्णौ तडित्वति ।शरुः कोपे शरे वज्रे शारः शबलवातयोः ॥ ४५० ॥
2.25.450
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः ।शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने ॥ ४५१ ॥
2.25.451
अनुष्टुप्
शिग्रुः शोभाञ्जने शाके शीघ्रं चक्राङ्गतूर्णयोः ।उशीरे शुक्रस्तु शुक्ले ज्येष्ठमासेऽग्निकाव्ययोः ॥ ४५२ ॥
2.25.452
अनुष्टुप्
शुक्रं तु रेतोऽक्षिरुजोः शुभ्रं दीप्तेऽभ्रके सिते ।शूरश्चारभटे सूर्य्ये सरौ दध्यग्रसायकौ ॥ ४५३ ॥
2.25.453
अनुष्टुप्
स्वरः शब्देऽचि षड्जादौ सत्रमाच्छादने क्रतौ ।सदादाने वने दम्भे स्वरुः स्याद्यूपखण्डके ॥ ४५४ ॥
2.25.454
अनुष्टुप्
अध्वरे कुलिशे वाणे सारो मज्जास्थिरांशयोः ।बले श्रेष्ठे च सारन्तु द्रविणन्याय्यवारिषु ॥ ४५५ ॥
2.25.455
अनुष्टुप्
स्फारस्तु स्फरकादीनां बुद्वुदे विपुलेऽपि च ।स्थिरो मोक्षे निश्चले च स्थिरा भूःशालपर्ण्यपि ॥ ४५६ ॥
2.25.456
अनुष्टुप्
सिप्रः स्वेदे सिप्रा नद्यां सिरा नाड्यम्बुवाहिनी ।सिरस्तु पिप्पलीमूलं सीरः स्यादंशुमालिनि ॥ ४५७ ॥
2.25.457
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सि (wrong syllable)
लाङ्गलेऽथ सुरो देवे सुरा चषकमद्ययोः ।सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः ॥ ४५८ ॥
2.25.458
अनुष्टुप्
स्वैरो मन्दे स्वतन्त्रे च हरो रासभरुद्रयोः ।वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः ॥ ४५९ ॥
2.25.459
अनुष्टुप्
यमवासवसिंहांशुशशाङ्ककपिवाजिषु ।पिङ्गवर्णे हरिद्वर्णे भेकोपेन्द्रशुकाहिषु ॥ ४६० ॥
2.25.460
अनुष्टुप्
लोकान्तरे च हारस्तु मुक्तादामनि संयुगे ।हिंस्रः स्याद्घातुके हिंस्रा मांसी काकादनी वसा ॥ ४६१ ॥
2.25.461
अनुष्टुप्
हीरो वज्रे हरे सर्पे हीरा पिपीलिकाश्रियोः ।होरा तु लग्ने राश्यर्द्धे शास्त्ररेखाप्रभेदयोः ॥ ४६२ ॥
2.25.462
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)