All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
एकस्वरकाण्डः
को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले ।कं शीर्षेऽप्सु सुखे खं स्वसंविदि व्योमनीन्द्रिये ॥ ५ ॥
1.5
अनुष्टुप्
शून्ये बिन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि ।स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ॥ ६ ॥
1.6
अनुष्टुप्
त्वग्वल्कले चर्मणि च न्यग्निम्ने नीचकार्त्स्नयोः ।रुक् शोभाकिरणेच्छासु वाग्भारत्यां वचस्यपि ॥ ७ ॥
1.7
अनुष्टुप्
जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च ।ज्ञः स्याद्विचक्षणे पद्मासने चान्द्रमसायनौ ॥ ८ ॥
1.8
अनुष्टुप्
सद्विद्यमाने सत्ये प्रशस्तार्चितसाधुषु ।भः शुक्रे भमुडौ भांशौ भूस्तु भूमिरिव क्षितौ ॥ ९ ॥
1.9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 मा (syllables merged)
स्थाने च मः पुनः शंभौ मा लक्ष्म्यां वारणेऽव्ययम् ।किं क्षेपनिन्दयोः प्रश्ने वितर्के ज्या तु मातरि ॥ १० ॥
1.10
अनुष्टुप्
क्ष्मामौर्व्योर्द्युर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि ।रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ॥ ११ ॥
1.11
अनुष्टुप्
द्रूः कामरूपिणि स्वर्णे धूर्यानमुखभारयोः ।पूः शरीरे च नगरे श्रीर्लक्ष्म्यां सरलद्रुमे ॥ १२ ॥
1.12
अनुष्टुप्
वेषोपकरणे वेषरचनायां मतौ गिरि ।शोभात्रिवर्गसंपत्त्योः स्रूः स्रवे निर्झरेऽपि च ॥ १३ ॥
1.13
अनुष्टुप्
वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् ।द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने ॥ १४ ॥
1.14
अनुष्टुप्
दृग्दृष्टौ दर्शनेऽध्यक्षे विट्प्रवेशे नृवैश्ययोः ।तृट् तृष्णावत्तर्षवच्च भवेल्लिप्सापिपासयोः ॥ १५ ॥
1.15
अनुष्टुप्
त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि ।भाः प्रभावे मयूखे च मास्तु मासे निशाकरे ॥ १६ ॥
1.16
अनुष्टुप्