All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरथान्ताः
इति त्रिस्वरतान्ताः ।
अश्वत्थो गर्दभाण्डे स्यात्पिप्पले संस्मृतौ जले ।अश्वत्थेषापौर्णमास्यामतिथिः कुशनन्दने ॥ ३४० ॥
3.14.340
अनुष्टुप्
क्रुध्यागन्ता वव्यथस्तु व्यथाहीने च पन्नगे ।अव्यथा तु हरीतक्यामुपस्थो योनिलिङ्गयोः ॥ ३४१ ॥
3.14.341
अनुष्टुप्
उद्रथस्ताम्रचूडे स्यान्महेन्द्रमहकामुके ।क्षवथुः कासे छिक्कायां कायस्थोऽक्षरजीवकः ॥ ३४३ ॥
3.14.343
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 से (wrong syllable)
परमात्मा च कायस्था हरीतक्यामलक्यपि ।गोग्रन्थिस्तु करीषे स्याद्गोष्ठे गोजिह्विकौषधौ ॥ ३४४ ॥
3.14.344
अनुष्टुप्
दमथो दमने दण्डे निर्ग्रन्थो भिक्षुमूर्खयोः ।श्रमणे च निशीथस्तु रात्रिमात्राऽर्द्धरात्रयोः ॥ ३४५ ॥
3.14.345
अनुष्टुप्
रुदथः कुक्कुटशुनोर्वर्वथः पिककालयोः ।वरूथं स्यात्तनुत्राणे रथगोपनवेश्मनोः ॥ ३४७ ॥
3.14.347
अनुष्टुप्
वयस्थो मध्यमवया वयस्था शाल्मलिद्रुमे ।ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च ॥ ३४८ ॥
3.14.348
अनुष्टुप्
षड्ग्रन्थः करञ्जभेदे षड्ग्रन्था तु वचा शटी ।समर्थः शक्तिसम्पन्ने सम्बद्धार्थे हितेऽपि च ॥ ३५१ ॥
3.14.351
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
सिद्धार्थः सर्षपे शाक्यसिंहेऽन्त्यजिनप्तरि
3.14.13