कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरमान्ताः

इति द्विस्वरभान्ताः ।

उमा गौर्यां हरिद्रायां कीर्तिकान्त्यतसीष्वपि ।ऊर्मिः पीडाजवोत्कण्ठाभङ्गप्रकाशवीचिषु ॥ ३०९ ॥
2.23.309
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
वस्रसंकोचलेखायां क्रमः कल्पाङ्घ्रिशक्तिषु ।परिपाट्यां क्षमः शक्ते हिते युक्ते क्षमावति ॥ ३१० ॥
2.23.310
अनुष्टुप्
क्षमा क्षान्तौ क्षितौ कामं बाढेऽनुमितिरेतसोः ।कामः स्मरेच्छाकाम्येषु क्षुमा स्यान्नीलिकातसी ॥ ३११ ॥
2.23.311
अनुष्टुप्
कृमिः क्रिमिश्च लाक्षायां कीटे क्षेमस्तु मङ्गले ।लब्धसंरक्षणे मोक्षे क्षेमोमा धनहर्यपि ॥ ३१२ ॥
2.23.312
अनुष्टुप्
क्षौमं स्यादतसीवस्त्रे दुकूलेऽट्टालकेऽपि च ।खर्मं क्षौमे पौरुषे च गमोऽध्वद्यूतभेदयोः ॥ ३१३ ॥
2.23.313
अनुष्टुप्
सदृक्पाठेऽप्यथ ग्रामो वृन्दे शब्दादिपूर्वकः ।षड्जादौ संवसथे च गुल्मः सैन्योपरक्षणे ॥ ३१४ ॥
2.23.314
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
रुक्सैन्यघट्टभेदेषु स्तम्बे गुल्मी पटौकसि ।आमलक्येलयोर्वन्यामथ घर्मो निदाघवत् ॥ ३१५ ॥
2.23.315
अनुष्टुप्
स्वेदाम्भस्यातपे ग्रीष्मोण्मणोर्जाल्मस्तु पामरे ।असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः ॥ ३१६ ॥
2.23.316
अनुष्टुप्metre not read in every line
जिह्मस्तु कुटिले मन्दे जिह्मं तगरपादपे ।तोक्मं कर्णमले तोक्मः स्याद्धरिते हरिद्यवे ॥ ३१७ ॥
2.23.317
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
दमः स्यात्कर्दमे दण्डे दमने दमथेऽपि च ।दस्मस्तु हव्यवाहे स्याद् यजमाने मलिम्लुचे ॥ ३१८ ॥
2.23.318
अनुष्टुप्
धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ।सत्सङ्गेऽर्हत्यहिंसादौ न्यायोपनिषदोरपि ॥ ३१९ ॥
2.23.319
अनुष्टुप्
धर्मं दानादिके नेमस्त्वर्धे प्राकारगतयोः ।अवधौ केतवे काले नेमिः कूपत्रिकाप्रधिः ॥ ३२० ॥
2.23.320
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ग (wrong syllable)
तिनिशोऽरिष्टनेमिश्च पद्मो व्यूहे निधावहौ ।संख्याब्जयोः पद्ममिभबिन्दौ ब्राह्मी तु भारती ॥ ३२१ ॥
2.23.321
अनुष्टुप्
शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी ।ब्रह्मशक्तिर्भ्रमस्तु स्याद्भ्रमणे वारिनिर्गमे ॥ ३२२ ॥
2.23.322
अनुष्टुप्
भ्रान्तौ कुन्दाख्ययन्त्रे च भीष्मो घोरे वृकोदरे ।हरेऽम्लवेतसे चाथ भीष्मो गाङ्गेयरुद्रयोः ॥ ३२३ ॥
2.23.323
अनुष्टुप्
राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे ।यमः कालयमजयोरहिंसादिषु पञ्चसु ॥ ३२४ ॥
2.23.324
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
संयमे यमने ध्वाङ्क्षे यामौ प्रहरसंयमौ ।रमः कान्ते रक्ताशोके मन्भथे च रमा श्रियाम् ॥ ३२५ ॥
2.23.325
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
रश्मिर्घृणिप्रग्रहयो रामः श्यामे हलायुधे ।पशुभेदे सिते चारौ राघवे रेणुकासुते ॥ ३२६ ॥
2.23.326
अनुष्टुप्
रामं तु वास्तुके कुष्ठे रामा हिङ्गुलिनीस्त्रियोः ।रुक्मं लोहे सुवर्णे च रुमा स्याल्लवणाकरे ॥ ३२७ ॥
2.23.327
अनुष्टुप्
सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपतप्रियङ्गुषु ।वमिर्वान्तेऽनले वामः कामे सव्ये पयोधरे ॥ ३२८ ॥
2.23.328
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उमानाथे प्रतिकूले चारौ वामा तु योषिति ।वामी शृगाल्यां करभीरासभीवडवासु च ॥ ३२९ ॥
2.23.329
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
शमी द्रुभेदे वल्गुल्यां शिम्ब्यां श्यामोऽम्बुदे शितौ ।हरिते प्रयागवटे कोकिले वृद्धदारके ॥ ३३० ॥
2.23.330
अनुष्टुप्metre not read in every line
श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः ।शारिवावल्गुनीगुन्द्रात्रिवृत्कृष्णाप्रियङ्गुषु ॥ ३३१ ॥
2.23.331
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्ध (wrong syllable)
अप्रसूतस्त्रियां नील्यां श्रामो मण्डपकालयोः ।शुष्ममोजसि सूर्ये च समं साध्वखिलं सद्दक् ॥ ३३२ ॥
2.23.332
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स (wrong syllable)
सीमाघाटे स्थितौ क्षेत्रे सूक्ष्मोऽणौ सूक्ष्ममल्पके ।अध्यात्मे कतके सोमस्त्वौषधीतद्रसेन्दुषु ॥ ३३३ ॥
2.23.333
अनुष्टुप्
दिव्यौषध्यां घनसारे समीरे पितृदैवते ।वसुप्रभेदे सलिले वानरे किन्नरेश्वरे ॥ ३३४ ॥
2.23.334
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
हिमं तुषारे शीते च हिमश्चन्दनपादपे ।होमिः सर्पिषि वह्नौ च स्यादर्य्यः स्वामिवैश्ययोः ॥ ३३५ ॥
2.23.335
अनुष्टुप्