कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरठान्ताः

इति त्रिस्वरटान्ताः ।

अम्बष्ठो विप्रतो वैश्यतनये नीवृदन्तरे ।अम्बष्ठा स्यादम्ललोण्यां पाठायूथिकयोरपि ॥ १७६ ॥
3.9.176
अनुष्टुप्
कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ ।कमठः कच्छपे दैत्यविशेषे मुनिभाजने ॥ १७७ ॥
3.9.177
अनुष्टुप्
कमठः कठिने जीर्णे नर्मठौ षिड्गचूचुकौ ।प्रकोष्ठः कूर्पराधस्ताद्भूपक्षान्तरेऽपि च ॥ १७८ ॥
3.9.178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हस्ते च विस्तृतकरे प्रतिष्ठा गौरवे स्थितौ ।छन्दोजातौ यागसिद्धौ मकुष्ठौ धान्यमन्थरौ ॥ १७९ ॥
3.9.179
अनुष्टुप्
लघिष्ठो भेलकेऽत्यल्पे स्याद्वरिष्ठस्तु तित्तिरौ ।वरिष्ठं मरिचे ताम्रे वरोरुतमयोरपि ॥ १८० ॥
3.9.180
अनुष्टुप्
वैकुण्ठो वासवे विष्णौ श्रीकण्ठः कुरुजाङ्गले ।शङ्करे चाऽथ साधिष्ठोऽत्यर्थे दृढतमेऽपि च ॥ १८१ ॥
3.9.181
अनुष्टुप्