All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरढान्ताः
इति द्विस्वरडान्ताः ।
गूढं रहःसंवृतयोर्दाढा दंष्ट्राभिलाषयोः ॥ १२७ ॥
2.12.127
दृढः शक्ते भृशे स्थूले बाढं भृशप्रतिज्ञयोः ।माढिर्दैन्यं पत्रसिरार्चा मूढस्तन्द्रिते जडे ॥ १२८ ॥
2.12.128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भृ (wrong syllable)
राढा सुह्मेषु शोभायां व्यूढा न्यस्तोरुसंहताः ।वोढा स्याद्भारिके सूते शण्ढषण्ढौ तु सौविदे ॥ १२९ ॥
2.12.129
अनुष्टुप्
वन्ध्यपुंसीड्वरे क्लीबे सोढा मर्षणशक्तयोः ।
2.12.4