कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरठान्ताः

इति द्विस्वरटान्ताः ।

कठो मुनौ स्वर ऋचां भेदे तत्पाठिवेदिनोः ।कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे ॥ १०१ ॥
2.10.101
अनुष्टुप्
काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके ।दिशि दारुहरिद्रायां कालमानप्रभिद्यपि ॥ १०२ ॥
2.10.102
अनुष्टुप्
कुण्ठोऽकर्मण्ये मूर्खे च कुष्ठं भेषजरोगयोः ।कोष्ठो निजे कुसूले च कुक्षेरन्तर्गृहस्य च ॥ १०३ ॥
2.10.103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्ये (wrong syllable)
गोष्ठं गोस्थानके गोष्ठी संलापे परिषद्यपि ।ज्येष्ठः स्यादग्रजे श्रेष्ठे मासभेदातिवृद्धयोः ॥ १०४ ॥
2.10.104
अनुष्टुप्
ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः ।क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते ॥ १०५ ॥
2.10.105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्तौ (wrong syllable)
पृष्ठं पश्चिममात्रे स्याच्छरीरावयवान्तरे ।वण्ठः कुण्ठायुधे खर्वे भृत्याकृतविवाहयोः ॥ १०६ ॥
2.10.106
अनुष्टुप्
शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च ।श्रेष्ठोऽग्र्ये धनदे षष्ठी गौरी षण्णां च पूरणी ॥ १०७ ॥
2.10.107
अनुष्टुप्
हठोऽम्बुपर्ण्यां प्रसभेऽण्डं पेशीकेशमुष्कयोः ।
2.10.8