All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
परिशिष्टकाण्डः · द्विस्वराऽव्ययानि
इत्येकस्वराव्ययानि ।
मनागल्पे च मन्दे चाऽङ्ग सम्बोधनहर्षयोः ॥ २५ ॥
7.2.25
पुनरर्थे चाऽथ किञ्च साकल्यारम्भयोर्मतम् ।तिर्यक् तिरोऽर्थे वक्रे च विहगादौ त्वनव्ययम् ॥ २६ ॥
7.2.26
अनुष्टुप्
हिरुक् मध्ये विनार्थेऽति प्रकर्षे लङ्घने भृशे ।स्तुतावसम्प्रति क्षेपेऽप्यस्तु पीडानिषेधयोः ॥ २७ ॥
7.2.27
अनुष्टुप्
हेतौ प्रकारप्रत्यक्षप्रकाशेष्ववधारणे ।एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः ॥ २९ ॥
7.2.29
अनुष्टुप्
समुच्चये विकल्पे च तावद्यावदिवाऽवधौ ।कार्त्स्न्येऽवधारणे माने प्रतीत्थंभूतभागयोः ॥ ३० ॥
7.2.30
अनुष्टुप्
प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपि ।पश्चात्प्रतीच्यां चरमे बताऽऽमन्त्रणखेदयोः ॥ ३१ ॥
7.2.31
अनुष्टुप्
धृत्याश्चर्यानुकम्पासु यद्वत् प्रश्नवितर्कयोः ।शश्वत् सह पुनर्नित्ये सकृत्सहैकवारयोः ॥ ३२ ॥
7.2.32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्स (wrong syllable)
स्वस्त्याशीःक्षेमपुण्यादौ साक्षात् प्रत्यक्षतुल्ययोः ।हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ ३३ ॥
7.2.33
अनुष्टुप्
अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि ।तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये ॥ ३५ ॥
7.2.35
अनुष्टुप्
यथा निदर्शने द्वौ तूद्देशे निर्देशसाम्ययोः ।हेतूपपत्तौ च वृथा त्वपिधौ स्यादनर्थके ॥ ३६ ॥
7.2.36
अनुष्टुप्
नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे ।वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरपि ॥ ३८ ॥
7.2.38
अनुष्टुप्
नाना विनोभयानेकार्थेषु स्थाने तु कारणे ।युक्ते साम्येऽप्यवस्तेयेऽप कृष्टे वर्जने मुदि ॥ ३९ ॥
7.2.39
अनुष्टुप्
प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च ।उपाऽऽसन्नेऽधिके हीने सादृश्यप्रतियत्नयोः ॥ ४१ ॥
7.2.41
अनुष्टुप्
उद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः ।दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥ ४२ ॥
7.2.42
अनुष्टुप्
अभि वीप्सालक्षणयोरित्थम्भूताभिमुख्ययोः ।स्यादमा संनिधानार्थे सहार्थेऽलं निरर्थके ॥ ४३ ॥
7.2.43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (wrong syllable)
कथं प्रश्ने प्रकारार्थे सम्भ्रमे सम्भवेऽपि च ।कामं प्रकामेऽनुमतावसूयानुगमेऽपि च ॥ ४५ ॥
7.2.45
अनुष्टुप्
किमु संभावनायां च मर्शे जोषं सुखे स्तुतौ ।मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः ॥ ४६ ॥
7.2.46
अनुष्टुप्
सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि ।नूनं तर्के निश्चिते च प्राध्वं नर्मानुकूलयोः ॥ ४७ ॥
7.2.47
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 भ्यु (wrong syllable)
भृशं प्रकर्षेऽत्यर्थे च सामि त्वर्धे जुगुप्सिते ।अयि प्रश्नानुनययोरये क्रोधविषादयोः ॥ ४८ ॥
7.2.48
अनुष्टुप्
सम्भ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः ।ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतावपि ॥ ४९ ॥
7.2.49
अनुष्टुप्
पराभिमुख्ये प्राधान्ये विमोक्षप्रतिलोम्ययोः ।गतिहर्षणहिंसासु भृशार्थे विक्रमेऽपि च ॥ ५० ॥
7.2.50
अनुष्टुप्
मङ्क्षु शीघ्रे भृषे तत्त्वे ऽतो हेतोरपदेशवत् ।निर्देशे पञ्चम्यर्थे चेतो यतश्च विभागवत् ॥ ५६ ॥
7.2.56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्च (wrong syllable)
पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे ।पञ्चम्यर्थे परिप्रश्ने तिरोऽन्तर्धौ तिरश्चि च ॥ ५७ ॥
7.2.57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाशयोः ।पुरोऽग्रे प्रथमे च स्यात् मिथोऽन्योन्यं रहस्यपि ॥ ५८ ॥
7.2.58
अनुष्टुप्
साकल्ये विद्यमाने च हीही विस्मयहास्ययोः ।
7.2.37