All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरजान्ताः
इति द्विस्वरछान्ताः ।
अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे ।अब्जो धन्वन्तरौ चन्द्रे शङ्खेऽब्जं पद्मसंख्ययोः ॥ ६४ ॥
2.7.64
अनुष्टुप्
आजिः क्षणे समक्ष्मायां युध्यूर्जः कार्तिके बले ।कञ्जो वेधसि केशे च कञ्जं पीयूषपद्मयोः ॥ ६५ ॥
2.7.65
अनुष्टुप्
कुञ्जो हनो दन्तिदन्ते निकुञ्जे च कुजो द्रुमे ।आरे नरकदैत्ये च कुब्जो न्युब्जद्रुभेदयोः ॥ ६६ ॥
2.7.66
अनुष्टुप्
खजा दर्वीमथोः खर्जूः खर्जूरीकीटकण्डुषु ।गञ्जो भाण्डागारे रीढाखन्योर्गञ्जा सुरागृहे ॥ ६७ ॥
2.7.67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गा (wrong syllable)
गुञ्जा तु कृष्णलायां स्यात् पटहे मधुरध्वनौ ।द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे ॥ ६८ ॥
2.7.68
अनुष्टुप्
द्विजा भार्गीरेणुकयोर्ध्वजः पूर्वदिशो गृहे ।शिश्ने चिह्ने पताकायां खट्वांगे शौण्डिकेऽपि च ॥ ६९ ॥
2.7.69
अनुष्टुप्
निजो नित्ये स्वकीये च न्युब्जः कुशे स्त्रुचि ।अधोमुखेऽपि च न्युब्जं कर्मरङ्गतरोः फले ॥ ७० ॥
2.7.70
अनुष्टुप्metre not read in every line
प्रजा लोके संततौ च पिंजा तूलहरिद्रयोः ।पिंजो व्यग्रे वधे पिंजं बले बीजं तु रेतसि ॥ ७१ ॥
2.7.71
अनुष्टुप्
स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे ।भुजो बाहौ करे मर्जूः शिद्धौ च रजकेऽपि च ॥ ७२ ॥
2.7.72
अनुष्टुप्
राजी रेखायां पंक्तौ च रुजा त्वामयभङ्गयोः ।लञ्जः पट्टे च कच्छे च लाजः स्यादार्द्रतण्डुले ॥ ७३ ॥
2.7.73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable)
लाजास्तु भृष्टधानाः स्युर्लाजं पुनरुशीरके ।व्रजोऽध्वगोष्ठसंघेषु वणिग्वाणिज्यजीविनि ॥ ७४ ॥
2.7.74
अनुष्टुप्
वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि ।यज्ञान्ने वाजस्तु पक्षे मुनौ निस्वनवेगयोः ॥ ७५ ॥
2.7.75
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
व्याजः शाठ्येऽपदेशे च सज्जौ संनद्धसंभृतौ ।संजौ ब्रह्मशिवौ
2.7.13
अनुष्टुप्metre not read in every line