All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरकान्ताः
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रह एकस्वरकाण्डः प्रथमः ॥ १ ॥
अर्को द्रुभेदे स्फटिके ताम्रे सूर्ये बिडौजसि ।अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ॥ १ ॥
2.1.1
अनुष्टुप्
चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः ।एकोऽन्यः केवलः श्रेष्ठः संख्या कल्कोऽघविष्ठयोः ॥ २ ॥
2.1.2
अनुष्टुप्
दम्भे पापिनि किट्टे च कङ्को ब्राह्मणलिङ्गिनि ।लोहपृष्ठे यमे कर्कः श्वेताश्वे दर्पणे घटे ॥ ३ ॥
2.1.3
अनुष्टुप्
कर्केतनेऽग्नौ राशौ च काकः स्यात्पीठसर्पिणि ।द्वीपमानद्रुभेदेषु शिरोवक्षालने द्विके ॥ ४ ॥
2.1.4
अनुष्टुप्
काकोदुम्बरिकाकाकमाचिकारक्तिकास्वपि ।किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सितेऽपि च ॥ ६ ॥
2.1.6
अनुष्टुप्
टङ्को नीलकपित्थेऽसिकोशे कोपेऽश्मदारणे ।मानान्तरे खनित्रे च जङ्घायां टङ्कणेऽपि च ॥ ८ ॥
2.1.8
अनुष्टुप्
तर्को वितर्के काङ्क्षायामूहकर्मविशेषयोः ।त्रिका कूपस्य नेमौ स्यात्त्रिकं पृष्ठाधरे त्रये ॥ ९ ॥
2.1.9
अनुष्टुप्
तोकं संतानसुतयोर्द्विकः स्यात्काककोकयोः ।न्यङ्कुर्मृगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ॥ १० ॥
2.1.10
अनुष्टुप्
मुनिवल्मीकयोर्निष्कः कर्षे हेमनि तत्पले ।दीनारे साष्टसुवर्णशते वक्षोविभूषणे ॥ ११ ॥
2.1.11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सु (wrong syllable)
पङ्कोऽघे कर्दमे पाकः पचने शिशुदैत्ययोः ।बको रक्षोभिदि श्रीदे शिवमल्लीबकोटयोः ॥ १२ ॥
2.1.12
अनुष्टुप्
भूकश्छिद्रे काले भेको मेघमण्डूकभीरुषु ।मुष्को मोक्षद्रुमे सङ्घे तस्करे मांसलाण्डयोः ॥ १३ ॥
2.1.13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
मूको दैत्यावाग्दीनेषु रङ्कः कृपणमल्लयोः ।राका कच्छ्वां दृष्टरजःकन्यायां सरिदन्तरे ॥ १४ ॥
2.1.14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
पूर्णेन्दुपूर्णिमायां च रेकः शङ्काविरेकयोः ।हीनेऽपि रोकं क्रयणभेदे नावि बिलेचरे ॥ १५ ॥
2.1.15
अनुष्टुप्
रोकोंऽशौ लङ्का तु शाखा शाकिनी कुलटा पुरी ।लोको विश्वे जने वल्कं शकले त्वचि शल्कवत् ॥ १६ ॥
2.1.16
अनुष्टुप्
शको देशे राजभेदे शङ्का स्यात्संशये भये ।शङ्कुः पत्त्रशिराजाले संख्याकीलकशंभुषु ॥ १७ ॥
2.1.17
अनुष्टुप्
यादोऽस्त्रभेदयोर्मेढ्रे शाको द्वीपे नृपे द्रुमे ।शक्तौ हरितके चापि शुको व्यासजकीरयोः ॥ १८ ॥
2.1.18
अनुष्टुप्
रक्षोऽमात्ये शुकं ग्रन्थिपर्णेऽरत्नुशिरीषयोः ।शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके ॥ १९ ॥
2.1.19
अनुष्टुप्
शूकोऽनुक्रोशकिंशार्वोः शोकेऽभिषवशुङ्गयोः ।शूका हृल्लेखे श्लोकस्तु पद्यबन्धे यशस्यपि ॥ २० ॥
2.1.20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 खे (wrong syllable)
शौकं शुकानां समूहे स्त्रीणां च करणान्तरे ।सृका बाणोत्पलवातः स्तोकः स्याच्चातकाल्पयोः ॥ २१ ॥
2.1.21
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ल (wrong syllable)