कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरबान्ताः

इति त्रिस्वरपान्ताः ।

कदम्बः सर्षपे नीपे कदम्बं निकुरम्बके ॥ ४७६ ॥
3.19.476
कलम्बो नालिकाशाके पृषत्के नीपपादपे ।कादम्बः कलहंसेष्वोः नितम्बः कटिरोधसोः ॥ ४७७ ॥
3.19.477
अनुष्टुप्
स्त्रियाः पश्चात्कटौ सानौ प्रलम्बस्तु प्रलम्बनम् ।दैत्यस्तालाङ्कुरः शाखा प्रालम्बस्तु पयोधरे ॥ ४७८ ॥
3.19.478
अनुष्टुप्
त्रपुषे हारभेदे च भूजम्बूस्तु विकङ्कते ।गोधूमाह्वयधान्ये च हेरम्बः शौर्यगर्विते ॥ ४७९ ॥
3.19.479
अनुष्टुप्
महिषे विघ्नराजे वा -
3.19.5