कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरतान्ताः

इति द्विस्वरणान्ताः ।

अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः ।अवयवेऽप्यर्थार्हन् स्यात् पूज्ये तीर्थकरेऽपि च ॥ १५५ ॥
2.14.155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 व (wrong syllable)
अस्तः क्षिप्ते पश्चिमाद्रावर्तिस्त्वटनिपीडयोः ।आप्तो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयोः ॥ १५६ ॥
2.14.156
अनुष्टुप्
ईतिरजन्ये प्रवासे स्यादूतिः स्यूतिरक्षयोः ।ऋतं शिलोञ्छे पानीये पूजिते दीप्तसत्ययोः ॥ १५७ ॥
2.14.157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो ऋतुः ।स्त्रीणां पुष्पे वसन्तादावेतः कर्बुर आगते ॥ १५८ ॥
2.14.158
अनुष्टुप्
क्षत्ता शूद्रात्क्षत्रियायां जाते सारथिवेधसोः ।नियुक्ते दासजे द्वाःस्थे कन्तुः कामकुसूलयोः ॥ १५९ ॥
2.14.159
अनुष्टुप्
कान्तो रम्ये प्रिये ग्राव्णि कान्ता प्रियङ्गुयोषितोः ।कान्तिः शोभाकामनयोः क्षितिर्गेहे भुवि क्षये ॥ १६० ॥
2.14.160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्रि (wrong syllable)
कीर्तिर्यशसि विस्तारे प्रासादे कर्दमेऽपि च ।कृतं पर्याप्तयुगयोर्विहिते हिंसिते फले ॥ १६१ ॥
2.14.161
अनुष्टुप्
कृत्तं छिन्ने वेष्टिते च केतुर्द्युतिपताकयोः ।ग्रहोत्पातारिचिह्नेषु गर्तोऽवटे ककुन्दरे ॥ १६२ ॥
2.14.162
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 व (wrong syllable)
त्रिगर्तांशेऽप्यथ ग्रस्तं जग्धे लुप्तपदोदिते ।गतिर्वहद्व्रणे ज्ञाने यात्रोपायदशाध्वसु ॥ १६३ ॥
2.14.163
अनुष्टुप्
गीतिश्छन्दसि गाने च गीतं शब्दितगानयोः ।गुप्तं गूढे त्राते गुप्तिर्यमे भूगर्तरक्षयोः ॥ १६४ ॥
2.14.164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्रा (wrong syllable)
कारायां घृतमाज्याम्बुदीप्तेष्वथ चिताचिती ।मृतार्थदारुषु चये जगल्लोकेऽङ्गवायुषु ॥ १६५ ॥
2.14.165
अनुष्टुप्
जातं जात्योऽघजनिषु जातिः सामान्यगोत्रयोः ।मालत्यामामलक्यां च चुल्ल्यां काम्पिल्यजन्मनोः ॥ १६६ ॥
2.14.166
अनुष्टुप्
जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः ।ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ ॥ १६७ ॥
2.14.167
अनुष्टुप्
तातोऽनुकम्प्ये पितरि तिक्तस्तु सुरभौ रसे ।तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे ॥ १६८ ॥
2.14.168
अनुष्टुप्
त्रेता युगेऽग्नित्रये च दन्तो दशनसानुनोः ।दन्त्यौषध्यामथ दितिर्दैत्यमातरि खण्डने ॥ १६९ ॥
2.14.169
अनुष्टुप्
दीप्तं निर्भासिते दग्धे द्रुतं शीघ्रविलीनयोः ।द्युतिस्तु शोभादीधित्योर्धाता वेधसि पालके ॥ १७० ॥
2.14.170
अनुष्टुप्
धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः ।महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि ॥ १७१ ॥
2.14.171
अनुष्टुप्
धुतं त्यक्ते कम्पिते च धूतौ कम्पितभर्त्सितौ ।धूर्तं तु खण्डलवणे धूर्तो धत्तूरमायिनोः ॥ १७२ ॥
2.14.172
अनुष्टुप्
धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे ।संतोषाध्वरयोश्चापि नतस्तगरनम्रयोः ॥ १७३ ॥
2.14.173
अनुष्टुप्
नीतिर्नये प्रापणे च पक्तिर्गौरवपाकयोः ।पङ्क्तिछन्दःश्रेण्योः सेनाभित्पद्गयोर्गतौ ॥ १७४ ॥
2.14.174
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 न्दः (syllables merged)
प्राप्तिर्महोदये लाभे पित्सन् पिपतिषन् यथा ।पतनेच्छौ विहङ्गे च पीतो वर्णनिपीतयोः ॥ १७५ ॥
2.14.175
अनुष्टुप्
पीता हरिद्रा पीतिः पानेऽश्वे प्रीतिः स्मरस्त्रियाम् ।प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि ॥ १७६ ॥
2.14.176
अनुष्टुप्
पुस्तके प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके ।पूर्तं पूरितखाताद्योः पृषतवत्पृषन्मृगे ॥ १७७ ॥
2.14.177
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्लु (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
बिन्दौ प्रेतो मृते भूतविशेषे च परेतवत् ।पोतः शिशौ प्रवहणे प्रोतो गुम्फितवाससोः ॥ १७८ ॥
2.14.178
अनुष्टुप्
भक्तमन्ने तत्परे च भर्ता पोष्टरि धारके ।भक्तिः सेवागौणवृत्त्योर्भङ्ग्यां श्रद्धाविभागयोः ॥ १७९ ॥
2.14.179
अनुष्टुप्
भास्वान् दीप्रे रवौ भ्रान्तिर्मिथ्याज्ञानेऽनवस्थितौ ।भित्तिः कुड्ये प्रदेशे च भूतं सत्योपमानयोः ॥ १८० ॥
2.14.180
अनुष्टुप्
प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः ।भूभृन्महीधरे पृथ्वीपतौ भूतिस्तु भस्मनि ॥ १८१ ॥
2.14.181
अनुष्टुप्
मांसपाकविरोषे च संपदुत्पादयोरपि ।भृतिर्मूल्यभरणयोर्मतं तु सम्मतेऽर्चिते ॥ १८२ ॥
2.14.182
अनुष्टुप्metre not read in every line
महद्बृहति धीतत्वे राज्ये मरुत्सुरेऽनिले ।मतिर्बुद्धीच्छयोर्माता गौर्दुर्गा जननी मही ॥ १८३ ॥
2.14.183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
मातरस्तु ब्रह्माण्याद्यया मितिरैयत्यमानयोः ।मुक्ता मौतिकपुंश्चल्योर्मुक्तिर्मोचनमोक्षयोः ॥ १८४ ॥
2.14.184
अनुष्टुप्metre not read in every line
मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि ।मृतं मृत्यौ याचिते च यन्ता सूते निषादिनि ॥ १८५ ॥
2.14.185
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
यतिर्निकारे विरतौ भिक्षौ युतोऽन्विते पृथक् ।युक्तिर्न्याये योजने च रक्तं नील्यादिरञ्जिते ॥ १८६ ॥
2.14.186
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 यु (wrong syllable)
कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे ।रतिः स्मरस्त्रियां रागे रते रीतिस्तु पित्तले ॥ १८७ ॥
2.14.187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नु (wrong syllable)
वैदर्भ्यादौ लोहकिट्टे सीमनि स्रवणे गतौ ।लता ज्योतिष्मतीदूर्वाशाखावल्लीप्रियङ्गुषु ॥ १८८ ॥
2.14.188
अनुष्टुप्
स्पृक्कामाधव्योः कस्तूर्यां लिप्तं भुक्तविलिप्तयोः ।विषाक्ते लूता तु रोगे पिपीलकोर्णनाभयोः ॥ १८९ ॥
2.14.189
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 व्योः (wrong syllable); pāda 4, syllable 3 ल (wrong syllable)
वर्तिर्गात्रानुलेपिन्यां दशायां दीपकस्य च ।दीपे भेषजनिर्माणे नयनाञ्जनलेखयोः ॥ १९० ॥
2.14.190
अनुष्टुप्
व्यक्तो मनीषिस्फुटयोर्वार्त्ता वार्त्ताक्युदन्तयोः ।कृष्यादौ वर्तने वार्त्तं त्वारोग्यारोगफल्गुषु ॥ १९१ ॥
2.14.191
अनुष्टुप्
वृत्तिशालिन्यथ व्याप्तिर्व्यापने लम्भनेऽपि च ।वास्तु स्याद्गृहभूपुर्योर्गृहे सीमसुरङ्गयोः ॥ १९२ ॥
2.14.192
अनुष्टुप्
वित्तं विचारिते ख्याते धने वित्तिस्तु संभवे ।ज्ञाने लाभे विचरे च वीतमङ्कुशकर्मणि ॥ १९३ ॥
2.14.193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
असाराश्वगजे शान्ते वीतिरश्वेऽशने गतौ ।प्रजने धावने दीप्तौ वृत्तं वृत्तौ दृढे मृते ॥ १९४ ॥
2.14.194
अनुष्टुप्
चरित्रे वर्तुले छन्दस्यतीताधीतयोर्वृते ।वृन्तं स्तनमुखे पुष्पबन्धे वृत्तिस्तु वर्तने ॥ १९५ ॥
2.14.195
अनुष्टुप्
कैशिक्यादौ विवरणे वृतिर्वरणवाटयोः ।शक्तिरायुधभेदे स्यादुत्साहादौ बले स्त्रियाम् ॥ १९६ ॥
2.14.196
अनुष्टुप्
शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे ।शास्ता जिने शासके च शान्तिर्भद्रे शमेऽर्हति ॥ १९७ ॥
2.14.197
अनुष्टुप्
शितः शातौ कृशे तीक्ष्णे शितिर्भूर्जे सितेऽसिते ।श्रीमान्मनोज्ञे तिलकपादपे धनवत्यपि ॥ १९८ ॥
2.14.198
अनुष्टुप्
शीतो हिमे च जिह्मे च वानीरबहुवारयोः ।शीतं गुणे शुक्तमम्ले पूतिभूते च कर्कशे ॥ १९९ ॥
2.14.199
अनुष्टुप्
शुक्तिः शङ्खनके शङ्खे कपालखण्डदृग्रुजोः ।नख्यश्चावर्तयोर्मुक्तास्फोटदुर्नामयोरपि ॥ २०० ॥
2.14.200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
श्रुतमाकर्णिते शास्त्रे श्रुतिराम्नायवार्तयोः ।षड्जाद्यारम्भिकायां च कर्णाकर्णनयोरपि ॥ २०१ ॥
2.14.201
अनुष्टुप्
श्वेतं रुप्ये श्वेतो द्वीपे वर्णे शैले कपर्दके ।श्वेता तु शङ्खिनीकाष्ठपाटल्योः स्यात् सती पुनः ॥ २०२ ॥
2.14.202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
कात्यायन्यां च साध्व्यां च सातिर्दानावसानयोः ।सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा ॥ २०३ ॥
2.14.203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
स्थित ऊर्ध्वे सप्रतिज्ञे स्थितिः स्थाने च सीम्नि च ।सीता जनकजागङ्गाभेदयोर्हलपद्धतौ ॥ २०४ ॥
2.14.204
अनुष्टुप्
सुतः पुत्रे नृपे सुप्तिः स्वापे स्पर्शाज्ञतारुजि ।सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु ॥ २०५ ॥
2.14.205
अनुष्टुप्
ब्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि सृतिर्गतौ पथि ।स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे ॥ २०६ ॥
2.14.206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सृ (wrong syllable)
नदीसंक्रमेऽथ हस्तः करे मानोडुभेदयोः ।केशात्कलापे शुण्डायां हरिद्दिशि तृणान्तरे ॥ २०७ ॥
2.14.207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्र (wrong syllable)
वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते ।हेतिर्ज्वालास्त्रसूर्यांशुषु
2.14.54
अनुष्टुप्metre not read in every line