कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरसान्ताः

इति चतुःस्वरषान्ताः ।

अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः ॥ ३३९ ॥
4.26.339
अवघ्वंसस्तु निन्दायां पारित्यागेऽवचूर्णने ।कलहंसो राजहंसे कादम्बे नृपसत्तमे ॥ ३४० ॥
4.26.340
अनुष्टुप्
कुम्भीनसस्त्वहौ कुम्भीनसी लवणमातरि ।घनरसोऽप्सु कर्पूरे सान्द्रे सिद्धरसे द्रवे ॥ ३४१ ॥
4.26.341
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
मोरटे पीलुपर्ण्यां च चन्द्रहासोऽसिमात्रके ।दशग्रीवकृपाणे च तामरसं तु पङ्कजे ॥ ३४२ ॥
4.26.342
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
ताम्रकाञ्चनयोर्दिव्यचक्षुस्त्वन्धे सुलोचने ।सुगन्धभेदे च निःश्रेयसं कल्याणमोक्षयोः ॥ ३४३ ॥
4.26.343
अनुष्टुप्
नीलञ्जसा नदीभेदेऽप्सरोभेदे तडित्यपि ।पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि ॥ ३४४ ॥
4.26.344
अनुष्टुप्
पौर्णमासो यागभेदे पौर्णमासी तु पूर्णिमा ।मलीमसं पुनः पुष्पकासीसे मलिनायसोः ॥ ३४५ ॥
4.26.345
अनुष्टुप्
महारसः पुनरिक्षौ खर्जूरद्रौ कशेरुणि ।मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि ॥ ३४६ ॥
4.26.346
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable); pāda 3, syllable 3 र (wrong syllable)
यमस्वसा तु कालिन्द्यां कपर्दिनः स्त्रियामपि ।राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ३४७ ॥
4.26.347
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्दि (wrong syllable)
रासेरसो रससिद्धिवलौ श्रृङ्गारहासयोः ।षष्ठीजागरके रासे गोष्ठ्यां विश्वावसुः पुनः ॥ ३४८ ॥
4.26.348
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
निशि गन्धर्वभेदे च विभावसुस्तु भास्करे ।हुताशने हारभेदे चन्द्रे श्वःश्रेयसं सुखे ॥ ३४९ ॥
4.26.349
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
परानन्दे च भद्रे च सर्वरसस्तु घूणके ।वाद्यभाण्डे च देशे च षड्रसान्वितवस्तुनि ॥ ३५० ॥
4.26.350
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)