कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरधान्ताः

इति द्विस्वरदान्ताः ।

अन्धोऽन्धकारेऽक्षिवर्जिते ॥ २३४ ॥
2.17.234
अर्धः खण्डेऽर्धं समांशेऽथाब्धिः सरसि सागरे ।आधिर्मनोर्त्तौ व्यसनेऽधिष्ठाने बन्धकाशयोः ॥ २३५ ॥
2.17.235
अनुष्टुप्
ऋद्धं समृद्धे सिद्धान्ने गन्धः संबन्धलेशयोः ।गन्धकामोदगर्वेषु गाधः स्यात्स्ताघलिप्सयोः ॥ २३६ ॥
2.17.236
अनुष्टुप्
गोधा प्राणिविशेषे स्याज्ज्याघातस्य च वारणे ।दिग्धो लिप्ते विषाक्तेषौ प्रवृद्धस्नेहयोरपि ॥ २३७ ॥
2.17.237
अनुष्टुप्
दुग्धं क्षीरे पूरिते च दोग्धा गोपालवत्सयोः ।अर्थोपजीवककवौ बन्ध आधौ च बन्धने ॥ २३८ ॥
2.17.238
अनुष्टुप्
बन्धुर्भ्रातृबान्धवयोर्बाधा दुःखनिषेधयोः ।बुधः सौम्ये कवौ बुद्धः पण्डिते बुधिते जिने ॥ २३९ ॥
2.17.239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तृ (wrong syllable)
बोधिर्बौद्धसमाधौ चार्हद्धर्माप्तौ च पिप्पले ।मधुश्चैत्रर्तुदैत्येषु जीवाशाकमधूकयोः ॥ २४० ॥
2.17.240
अनुष्टुप्
मधु क्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च ।मिद्धं चिन्ताभिसंक्षेपे निद्रालसतयोरपि ॥ २४१ ॥
2.17.241
अनुष्टुप्
मुग्धो मूढे रम्ये मेधः क्रतौ मेधा तु शेमुषी ।राधो वैशाखमासे स्याद् राधा विद्युद्विशाखयोः ॥ २४२ ॥
2.17.242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
विष्णुक्रान्तामलक्योः गोपीवेध्यविशेषयोः ।लुब्ध आकाङ्क्षिणि व्याधे वधो हिंसकहिंसयोः ॥ २४३ ॥
2.17.243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वधूः पत्न्यां स्नुषानार्योः स्पृक्काशारिवयोरपि ।नवपरिणीतायां च व्याधो मृगयुदुष्टयोः ॥ २४४ ॥
2.17.244
अनुष्टुप्metre not read in every line
विद्धं सदृग्वेधितयोः क्षिप्ते विधर्द्धिमूल्ययोः ।प्रकारे भान्नविधिशु विधिर्ब्रह्मविधानयोः ॥ २४५ ॥
2.17.245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः ।विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च ॥ २४६ ॥
2.17.246
अनुष्टुप्
वृद्धः प्राज्ञे स्थविरे च वृद्धं शैलेयरूढयोः ।वृद्धिः कलान्तरे हर्षे वर्धने भेषजान्तरे ॥ २४७ ॥
2.17.247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
श्रद्धास्तिक्येऽभिलाषे च श्राद्धं श्रद्धासमन्विते ।हव्यकव्यविधाने च शुद्धः केवलपूतयोः ॥ २४८ ॥
2.17.248
अनुष्टुप्
स्कन्धः प्रकाण्डे कायेंऽसे विज्ञानादिषु पञ्चसु ।नृपे समूहे व्यूहे च सन्धा स्थितिप्रतिज्ञयोः ॥ २४९ ॥
2.17.249
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थि (wrong syllable)
सन्धिर्योनौ सुरगायां नाट्याऽश्लेषभेदयोः ।साधुर्जैनमुनौ वार्धुषिके सज्जनरम्ययोः ॥ २५० ॥
2.17.250
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सिद्धो व्याड्यादिके देवयोनौ निष्पन्नमुक्तयोः ।नित्ये प्रसिद्धे सिद्धिस्तु मोक्षे निष्पत्तियोगयोः ॥ २५१ ॥
2.17.251
अनुष्टुप्
सिन्धुर्नद्यां गजमदेऽब्धौ देशनदभेदयोः ।सुधा गङ्गेष्टिकास्नुह्योर्मूर्वालेपामृतेषु च ॥ २५२ ॥
2.17.252
अनुष्टुप्