कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

परिशिष्टकाण्डः · एकस्वराव्ययानि

इति षट्स्वरयान्ताः ।

इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे षट्स्वरादिकाण्डः षष्ठः ।

परिशिष्टः काण्डः

अथाऽव्ययानि वक्ष्यानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् ।अ स्यादभावे स्वल्पार्थे विष्णावेष त्वनव्ययम् ॥ १ ॥
7.1.1
अनुष्टुप्metre not read in every line
आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि ।आं स्याद्वाक्येऽवस्मरणे स्यादा वेधस्यनव्ययम् ॥ २ ॥
7.1.2
अनुष्टुप्
आ स्यादवधृतिस्मृत्योराः सन्तापप्रकोपयोः ।इ स्यात्खेदे प्रकोपोक्तौ कामदेवे त्वनव्ययम् ॥ ३ ॥
7.1.3
अनुष्टुप्
ई दुःखभावने क्रोध ईर्लक्ष्म्यां तु च नाव्ययम् ।उ सम्बुद्धौ रुषोक्तौ च शिववाची त्वनव्ययम् ॥ ४ ॥
7.1.4
अनुष्टुप्
उत् प्राधान्ये प्रकाशे च प्रबल्यास्वस्थ्यक्तिषु ।विभागे बन्धने मोक्षे भावे लाभोर्ध्वकर्म्मणोः ॥ ५ ॥
7.1.5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उं प्रश्नेऽङ्गीकृतौ रोषेऽप्यूं प्रश्वे रोषवाचि च ।ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम् ॥ ६ ॥
7.1.6
अनुष्टुप्
ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम् ।ॠ वाक्यकुत्सयोर्दैत्यजनन्यामप्यनव्ययम् ॥ ७ ॥
7.1.7
अनुष्टुप्
लृ कुत्सायां विस्मये च लॄशब्दोऽपि तदर्थकः ।देवमातरि वाराह्यां क्रमात्तावप्यनव्ययौ ॥ ८ ॥
7.1.8
अनुष्टुप्
एऐशब्दौ तु हेहैव स्मृत्यामन्त्रणहूतिषु ।क्रमाच्चतुर्भुजे शम्भावेऐशब्दावनव्ययौ ॥ ९ ॥
7.1.9
अनुष्टुप्
ओमित्यनुमतौ प्रोक्तं प्रणवे चाप्युपक्रमे ।ओऔशब्दौ तु होहौव सम्बुद्ध्याह्वानयोर्मतौ ॥ १० ॥
7.1.10
अनुष्टुप्
विधातरि क्रमाद्विष्णावोऔशब्दावनव्ययौ ।कु पापीयसि निन्दायामीषदर्थे निवारणे ॥ ११ ॥
7.1.11
अनुष्टुप्
कं सुखे वारिशिरसोः किं प्रश्रे कुत्सनेऽपि च ।चाऽन्योन्यार्थसमाहारान्वाचयेषु समुच्चये ॥ १२ ॥
7.1.12
अनुष्टुप्
हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः ।पादपूरणेऽवधृतौ तु विशेषेऽवधारणे ॥ १३ ॥
7.1.13
अनुष्टुप्metre not read in every line
समुच्चये पादपूर्तौ धिक् निर्भर्त्सनिन्दयोः ।नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि ॥ १४ ॥
7.1.14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (syllables merged)
संनिधानोपरमयोः संशयाश्रयराशिषु ।मोक्षेऽन्तर्भावेऽधोभावे बन्धने कौशलेऽपि च ॥ १५ ॥
7.1.15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वेऽ (wrong syllable)
नु प्रश्नेऽनुनयेऽतीतार्थे विकल्पवितर्कयोः ।नञीषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः ॥ १६ ॥
7.1.16
अनुष्टुप्
व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ।निर्निश्चये क्रान्ताद्यर्थे निःशेषप्रतिषेधयोः ॥ १७ ॥
7.1.17
अनुष्टुप्
प्राक् पूर्वस्मिन् प्रभाते दिग्देशकालेष्वनन्तरे ।अतीतेऽग्रेऽप्यथ प्र स्याद्गताद्यर्थप्रर्षयोः ॥ १८ ॥
7.1.18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वा समुच्चय एवार्थ उपमानविकल्पयोः ।वितर्के पादपूर्तौ च विश्रम्भातीतयोरपि ॥ १९ ॥
7.1.19
अनुष्टुप्
वि श्रेष्ठेऽतीते नानार्थे पक्षिवाचि त्वनव्ययम् ।वै पादपूरणे हैतौ सम्बुद्ध्यनुनयेऽपि च ॥ २० ॥
7.1.20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable)
शं कल्याणे सुखेऽथ स्वित्परिप्रश्नवितर्कयोः ।सं सङ्गार्थे प्रकृष्टार्थे शोभनार्थसमार्थयोः ॥ २१ ॥
7.1.21
अनुष्टुप्
सु पूजायां भृशार्थानुमतिकृच्छ्रसमृद्धिषु ।स्माऽतीते पादपूर्तौ ह सम्बुद्धौ पादपूरणे ॥ २२ ॥
7.1.22
अनुष्टुप्
हा शुग्दुःखविषादेषु हि हेताववधारणे ।विशेषे पादपूर्तौ च ही विस्मयविषादयोः ॥ २३ ॥
7.1.23
अनुष्टुप्
दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च ।हुं वितर्के परिप्रश्ने हुं लज्जायां निवारणे ॥ २४ ॥
7.1.24
अनुष्टुप्
भयादौ भर्त्सने कोपेऽप्यनिच्छायां च कुत्सने ।
7.1.25