कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

लिङ्गसङ्ग्रहः · परलिङ्गाधिकारः?

॥ [इति] स्वतस्त्रिलिङ्गाः ॥

परलिङ्गाः स्वप्रधानद्वंद्वस्तत्पुरुषोऽपि च ॥ ९१ ॥
4.8.91 · p. 118
चतुर्थ्यर्थार्थशब्दान्तास्तद्धितार्थेऽपि यो द्विगुः ।प्राप्तापन्नप्रादिकालंपूर्वकाः केवलाः पुनः ॥ ९२ ॥
4.8.92 · p. 118
अनुष्टुप्
संख्याश्च सर्वनामानस्तथैव च तदन्तकाः ।अदिङ्नाम्नां बहुव्रीही रक्ताद्यर्थे च तद्धिताः ॥ ९३ ॥
4.8.93 · p. 118
अनुष्टुप्
[236a]कर्तर्यनाम्नि च कृतः कृत्याः कर्तरि कर्मणि ।इत्यादिका गुणद्रव्यक्रियासंबन्धसंभवाः ॥ ९४ ॥
4.8.94 · p. 118
अनुष्टुप्
उपाधयो भेद्यगता अनारोपे स्त्रियां विना ।अजहल्लिङ्गवचनाः प्रमाणाद्या विशेषणैः ॥ ९५ ॥
4.8.95 · p. 118
अनुष्टुप्
लिङ्गं संख्यां प्रकृतेर्बाधन्ते स्वार्थिकाः क्वापि ।नातिक्रामन्ति निजं स्वीयं लिङ्गं हरीतकीप्रमुखाः ॥ ९६ ॥
4.8.96 · p. 118
उद्गीतिः
न खलु खलतिकादिर्मुञ्चति स्वस्य संख्यांप्रकृतिरिह बहुत्वं प्राक्पदस्था जहाति ।भवति चरमलिङ्गं क्लीबभिन्नैः सहोक्तौयदि तदुदितभेदः स्याद्विभाषैकसंख्या ॥ ९७ ॥
4.8.97 · p. 118
मालिनी
सितः पटः सिता शाटी सितं वासः सितं यथा ।स्त्रीपुंसयोरेकशेषे पुंलिङ्गं समुदीरितम् ॥ ९९ ॥
4.8.99 · p. 118
अनुष्टुप्
स्त्रीक्लीबयोः क्लीबमथो नरस्यक्लीबस्य च क्लीबमुशन्ति सन्तः ।त्यदादिकानामपि तद्वदेवद्वंद्वं तथा तत्पुरुषं विहाय ॥ २०० ॥
4.8.200 · p. 118
उपजातिः
ग्राम्याणां तु पशूनांनैकशफानामयूनां च ।स्त्रीलिङ्गं गाव इमाअजा इमा इत्युदाहा[236b]र्यम् ॥ १ ॥
4.8.1 · p. 119
metre not recognised
बहुवचनमन्यतरस्यांयुष्मद उक्तं हि पूज्येषु ।अविशेषणस्य तद्व-दस्मद ऐक्येऽपि निर्दिष्टम् ॥ २ ॥
4.8.2 · p. 119
metre not recognised
प्रोष्ठपदफल्गुनीनांनक्षत्रे जातिसंज्ञायाम् ।भद्वंद्वे तिष्यपुन-र्वस्वोर्भूम्नि द्विसंख्या स्यात् ॥ ३ ॥
4.8.3 · p. 119
metre not recognised
धातोर्मन्योपपदान्मध्यमपुरुषः परीहासे ।मन्यादुत्तमपुरुषो वचनमेकं च निर्दिष्टम् ॥ ४ ॥
4.8.4 · p. 119
metre not recognised
षट्संख्यकानामपि युष्मदस्मदो-स्तिङव्ययानां न च लिङ्गमीरितम् ।मिथो विरोधे परभाषितं य-च्छेषं तु शिष्टव्यवहारतो वदेत् ॥ ३०५ ॥
4.8.305 · p. 119
upajati mixed