All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः
॥ इति श्रीविश्वनाथकृते कोषकल्पतरौ सामान्यस्कन्धश्चतुर्थः ॥
यथाप्रसिद्धि प्रथमोदितानांश्लेषादिकेष्वर्थविभासनाय ।नाम्नामनेकार्थगणं वितन्मःकान्तादिवर्गैः क्रमिकान्तबन्धैः ॥ १ ॥
6.1 · p. 135
उपजातिः
नानार्थकं यद्यपि शब्दजातंयस्मिन्समन्वेति सदन्वयेन ।तद्योगिनां चेतसि भासमान-मानन्दरूपं पुरुषं भजामि ॥ २ ॥
6.2 · p. 135
इन्द्रवज्रा