कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

पूर्णाहुतिः

॥ इत्यूष्मान्तवर्गः ॥

After this portion Ms. reads the following lines:--

विद्यागर्भविदर्भदेशतिलके देवालये पत्तनेश्रौत्रार्हन्त्यसमर्हणीयचरणक्षोणीसुरग्रामणीः ।आत्रेयः सुपवित्रचित्रचरितान्तर्वाणिचूडामणिः[स]द्विद्यानिरवद्यवैद्यकुलजो नारायणोऽभूद्बुधः ॥ ६७ ॥
7.67 · p. 389
शार्दूलविक्रीडितम्
वाग्वीथीभिरुपस्कृतावनितलो यः सोमपीथी चिरा-दायुर्वेदमहोदधेस्तरिजुषां वायुः किलावामगः ।धाम्ना यस्य गुदांगदान्त( ? )पटुना नाम्ना पुराम्नायवि-द्गर्वं स[94b]र्वजनीनमाशु जहितो दस्रौ सदस्रौ न किम् ॥ ६८ ॥
7.68 · p. 389
शार्दूलविक्रीडितम्metre not read in every line
वैदर्भीभृत[ग]द्यपद्यकवितामाद्यद्रमाम्भोनिधे-रुद्यन्तीं मुहुराशयत्सुखसुधां भूम्ना बुधान्यो भुवि ।श्रीनारायणपण्डितस्य तनयस्तस्य प्रशस्ताभिधःसद्वैद्यो भुवि विश्वनाथ उदभूत्सेवासनाथः पितुः ॥ ६९ ॥
7.69 · p. 390
शार्दूलविक्रीडितम्
संसारावर्तसारं सविनयमजयं भागुरीं शाश्वतं चव्याडिं गौडं महेशं सरभसमरुणं मेदिनीं नन्दिनं च ।दुर्गं हैमं च वाचस्पतिममरमुणादिं च गोवर्धनीयंरुद्रं चन्द्रं च मालां मतिजलधिकृतां चारु हारावलीं च ॥ ७० ॥
7.70 · p. 390
स्रग्धरा
शब्दार्णवं चोत्पलिनीं सुभूतिंहलायुधं विक्रमभूपतिं च ।कोषानशेषानुदयद्विशेषी-च्छेषास्य( ? )सारस्वतपूरपूतान् ॥ ७१ ॥
7.71 · p. 390
उपजातिः
विभाव्य भूयः सुकविप्रयोगां-स्तेभ्यः समुच्चीय च चारुशब्दान् ।सत्कोषकल्पद्रुम एष भूमौकृतः कृतिप्रीतिकृतेऽस्ति तेन ॥ २७२ ॥
7.272 · p. 390
उपजातिः
कवीनां नवीनाभिधालालसा[95a]नांसुभूरिप्रबन्धेक्षणे चालसानाम् ।असौ पूरयद्भूतले भानुकामं ।मही चाभुना स्वः समास्तु प्रकामम् ॥ २७३ ॥
7.273 · p. 390
भुजङ्गप्रयातम्metre not read in every line
श्रीविश्वनाथरचिते कोषकल्पतराविह ।कान्तादिभिः सप्तवर्गैर्नानार्थस्कन्ध ईरितः ॥ ७२४ ॥
7.724 · p. 390
अनुष्टुप्