All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
उपक्रमः
अथ
वाङ्मयार्णवः
उपक्रमः
सूर्याचन्द्रावतंसा जलधरमलिना कालिकाविश्रुता यानिस्तन्द्रां विष्णुमूर्तिं शरदि निजगदुर्यां शशाङ्कार्कनेत्राम् ।रौद्री यस्याश्च मूर्तिः शिशिरकरकलामात्रविश्रान्ततायावैराजी सत्समष्टिर्जयति भवमयी सा शिवा च स्वभूश्च ॥ १ ॥
1.1 · p. 1
स्रग्धरा
या शिल्पशास्त्रादिपयोमहार्हं सन्दुह्यते योजितबुद्धिवत्सैः ।वैज्ञानिकैर्विश्वहिताय भूयः सा भारती कामदुघा ममास्तु ॥ २ ॥
1.2 · p. 1
इन्द्रवज्रा
गोविन्ददेवीश्रीदेवनारायणसमाख्ययोः ।पित्रोः स्मरन्गुरोश्चैव श्रीगङ्गाधरशास्त्रिणः ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
आ ऋषेरा च विपुलाल्लोकात्साम्प्रतिकादपि ।निर्मथ्य वाङ्मयाब्धिं श्रीविश्वविद्यां समारभे ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्
नानार्था अर्थपर्याया ये दृष्टा लोकवेदयोः ।वर्णक्रमेण ते सर्वे पद्यैर्दृब्धा न कुत्रचित् ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
उपयुक्तोदाहरणैः पद्यकोषा न भूषिताः ।विस्तीर्णा अतिमूल्याश्च नव्यकोषा न सुस्मराः ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
वर्णानुक्रमविन्यस्तैर्लोकवेदोभयोद्धृतैः ।पद्यबद्धैः सपर्यायैर्नानार्थैर्घटितो महान् ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्
विशेषशास्त्रायुर्वेदप्रभृतीनां पदैर्युतः ।सोपयुक्तोदाहृतिभिष्टिप्पणैः समलङ्कृतः ॥ ८ ॥
1.8 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
सचित्रः प्रचुरार्वाच्यवैज्ञानिकपदोच्चयः ।परिशिष्टैश्च बहुभिः कोष एष परिष्कृतः ॥ ९ ॥
1.9 · p. 1
अनुष्टुप्