कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

प (7/7)

वाच्यवन्निपुणे तर्के प्रोहो हस्त्यङ्घ्रिपर्वणोः ।प्लक्षोऽश्वत्थे द्वीपभेदे पर्कटीगर्दभाण्डयोः ॥ ३७८७ ॥
37.3787 · p. 281
अनुष्टुप्
प्लवस्तु प्लवने मेघे जलपूरे तथोडुपे ।द्वयोस्तु मर्कटे भेके चण्डाले शकटाबिले ॥ ३७८८ ॥
37.3788 · p. 281
अनुष्टुप्
त्रिश्वेतवाहलान्तेषु हंससारसकादिषु ।खगेषु सुश्रुतोक्तेषु कैवर्त्तीमुस्तके प्लवम् ॥ ३७८९ ॥
37.3789 · p. 281
अनुष्टुप्
प्लवगो द्वे कपौ भेके ना तु सूर्यस्य सारथौ ।प्लवङ्गमः प्लवङ्गश्च प्लवकः प्लवगस्तथा ॥ ३७९० ॥
37.3790 · p. 281
अनुष्टुप्
प्लवङ्कश्च द्वयोरुक्ता भेकवानरयोरिमे ।प्लवनं तु प्लुतीभावोन्मज्जनक्रमणेषु नप् ॥ ३७९१ ॥
37.3791 · p. 281
अनुष्टुप्

प्लावी-फली

प्लावी तु पक्षिणि तथा मृगे स्त्रीपुंसयोर्मतः ।प्लुक्षिरग्नौ कुसूले च पुँल्लिङ्गः परिकीर्त्तितः ॥ ३७९२ ॥
37.3792 · p. 282
अनुष्टुप्
प्लुतं तु प्लवने चाश्वगतिभेदे नपुंसकम् ।अथ त्रि तद्वत्यश्वे च सिक्ते वर्णे त्रिमात्रके ॥ ३७९३ ॥
37.3793 · p. 282
अनुष्टुप्