कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

श (4/4)

श्रवणं क्ली शृणोत्यर्थे श्रोत्रे पुंसि तु विष्णुभे ।तद्युक्ते कालमात्रेऽथ द्वयोः प्राण्यन्तरे भवेत् ॥ ६१५९ ॥
46.6159 · p. 456
अनुष्टुप्
श्रवणा तु स्त्रियां रात्रिविशेषे पूर्णिमान्तरे ।श्रवो यशःश्रोत्रबलधनाऽन्नेषु नपुंसकम् ॥ ६१६० ॥
46.6160 · p. 456
अनुष्टुप्
श्रविष्ठा वसुभेऽपि स्त्री तद्युक्ते कालमात्रके ।अथ श्रविष्ठो जातेऽत्र वाच्यवत्परिकीर्त्तितः ॥ ६१६१ ॥
46.6161 · p. 456
अनुष्टुप्
श्राणा स्त्रियां यवाग्वां स्यात्क्षीरात्तु हविषस्तथा ।अन्यत्र पक्वे श्राणस्त्रिष्वथ पाके नपुंसकम् ॥ ६१६२ ॥
46.6162 · p. 456
अनुष्टुप्
श्राद्धः श्रद्धावति त्रि स्यात्स्त्रीत्वे श्राद्धेऽति तत्र च ।श्राद्धं तु भोजनायां स्यात्पितृणां क्लीबलिङ्गकम् ॥ ६१६३ ॥
46.6163 · p. 456
अनुष्टुप्
श्रावकः श्रावयितरि श्रोतरि त्रिर्गुणे तु ना ।कण्ठजे गायकानां यो दूरतः श्रावयेद्ध्वनिम् ॥ ६१६४ ॥
46.6164 · p. 456
अनुष्टुप्
स्त्रीपुंसयोस्तु जैनानां श्रावकः स्यादुपासके ।श्रावणी पूर्णिमायां स्त्री श्रवणर्क्षयुजि स्मृता ॥ ६१६५ ॥
46.6165 · p. 456
अनुष्टुप्
मुण्ड्यौषधे च दध्यालीनाम्नि वल्ल्यन्तरेऽपि च ।श्रावणो ना श्रावणिके मासि त्रिषु तु यौगिके ॥ ६१६६ ॥
46.6166 · p. 456
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रा (wrong syllable)
श्रीरिन्दिरायां [सम्पत्तौ लवङ्गे च स्त्रियाम्मता] ।श्रीकण्ठस्तु शिवे पुंसि तथैव कुरुजाङ्गले ॥ ६१६७ ॥
46.6167 · p. 456
अनुष्टुप्
श्रीगर्भस्तु श्रियो गर्भे खड्गेऽपि परिकीर्त्तितः ।श्रीघनं दधनि क्लीबं बुद्धे तु श्रीघनः पुमान् ॥ ६१६८ ॥
46.6168 · p. 456
अनुष्टुप्
श्रीपर्णं त्वग्निमन्थेऽपि कमलेऽपि नपुंसकम् ।श्रीपर्णी तु स्त्रियां वृक्षे काष्मर्ये कट्फलेऽपि च ॥ ६१६९ ॥
46.6169 · p. 456
अनुष्टुप्

श्रीपुष्पं-श्लैष्मघ्नी

श्रीपुष्पं तु श्रियःपुष्पे सितपद्मेऽपि कीर्त्तितम् ।श्रीफल्यामलकीनील्योर्बिल्वे तु श्रीफलः पुमान् ॥ ६१७० ॥
46.6170 · p. 457
अनुष्टुप्
श्रीमांस्तु पुंसि गोविन्दे कुबेरगृहकेतुषु ।इट्चराख्यबलीवर्दे कदम्बतिलकाख्ययोः ॥ ६१७१ ॥
46.6171 · p. 457
अनुष्टुप्
वृक्षयोर्गुग्गुलौ द्वे तु शुके लक्ष्मीवति त्रिषु ।श्रीवत्सः श्रीपतौ तस्य लाञ्छनेऽपि पुमान्मतः ॥ ६१७२ ॥
46.6172 · p. 457
अनुष्टुप्
श्रीवत्साङ्को वासुदेवे वृके त्वेष द्वयोर्मतः ।श्रीवासः श्रीपिष्टनाम्नि निर्यासे केशवेऽपि च ॥ ६१७३ ॥
46.6173 · p. 457
अनुष्टुप्
श्रीह्रदस्तु प्रपायां च पुँल्लिङ्गोऽपि श्रियो ह्रदे ।श्रुतं नपुंसकं शास्त्रे श्रवणाख्ये च कर्मणि ॥ ६१७४ ॥
46.6174 · p. 457
अनुष्टुप्
आकर्णितेऽत्यवधृतेऽपि श्रुतं वाच्यवन्मतम् ।श्रुतकर्मा यौगिकेऽपि पुमांस्तु स्याच्छनैश्चरे ॥ ६१७५ ॥
46.6175 · p. 457
अनुष्टुप्
श्रुतिस्तु वेदे श्रवणक्रियायां च श्रोत्र एव च ।गीतिधर्मविशेषे च शब्दे चाप्यभिधायके ॥ ६१७६ ॥
46.6176 · p. 457
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
श्रूषं बले सुखे श्रूषा शाकभित्कासमर्दयोः ।श्रेणिः पङ्क्तौ च धारायामष्टादशगणान्तरे ॥ ६१७७ ॥
46.6177 · p. 457
अनुष्टुप्
अक्ली समानजातीयशिल्पिनां संहतावपि ।श्रेयः सामान्तरे क्लीबं होइये मानुकोद्भवे ॥ ६१७८ ॥
46.6178 · p. 457
अनुष्टुप्
मोक्षे धर्मे शुभेऽथ त्रिस्तद्युतेऽतिप्रशस्यके ।स्त्र्यर्थे नपोः श्रेयसीति स्त्रियां तु श्रेयसी तथा ॥ ६१७९ ॥
46.6179 · p. 457
अनुष्टुप्
पाठायां हस्तिपिप्पल्यां हरीतक्यां च कीर्त्तिता ।श्रेष्ठं ताम्रे मतं क्लीबं स्यात्प्रशस्यतमे त्रिषु ॥ ६१८० ॥
46.6180 · p. 457
अनुष्टुप्
श्रोणिः कट्यामुपस्थे च स्त्रीलिङ्गे परिकीर्त्तिता ।श्रोत्रकान्ता वृद्धिसंज्ञभेषजे यौगिकेऽपि च ॥ ६१८१ ॥
46.6181 · p. 457
अनुष्टुप्
श्लक्ष्णं तु मसृणेऽल्पेऽपि सुन्दरेऽप्यभिधेयवत् ।श्लिकुर्नना विषादे ना ज्योतिषेऽपि मृगास्थनि ॥ ६१८२ ॥
46.6182 · p. 457
अनुष्टुप्
अथ श्लेष्मघना भल्ल्यां केतक्यां च स्त्रियां मता ।पिण्यामल्ल्योः स्त्रियां श्लेष्मघ्नी त्रिस्तु श्लेष्महन्तरि ॥ ६१८३ ॥
46.6183 · p. 457
अनुष्टुप्

श्लेष्मा-श्वेतसुरसा

श्लेष्मा कफे चर्मणश्च विकारे दृढकाह्वये ।रथस्य शीघ्रवहनसाधने चापि वस्तुनि ॥ ६१८४ ॥
46.6184 · p. 458
अनुष्टुप्
गोधूमे श्लेष्मलस्त्रिस्तु श्लेष्मे तच्छ्लेष्मकारिणोः ।श्लोको यशसि पये च तथा वाचि पुमान्मतः ॥ ६१८५ ॥
46.6185 · p. 458
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
श्वदंष्ट्रा गोक्षुराऽभिख्यस्तम्बे यन्त्रान्तरेऽपि च ।परिखायां बहिर्भूमौ राज्ञां दन्तान्तरे शुनाम् ॥ ६१८६ ॥
46.6186 · p. 458
अनुष्टुप्
श्वपचोऽनन्यपूर्वायां किरात्यां निष्ठ्यतः सुते ।विप्राचण्डालजे च द्वे त्रि शुनः पक्तरि स्मृतः ॥ ६१८७ ॥
46.6187 · p. 458
अनुष्टुप्
श्वपाकोऽम्बष्ठतो विप्र्यां क्षत्तुश्चोग्रस्त्रियां सुते ।उग्रात्क्षत्रस्त्रियां चापि शुनः पाके तु ना मतः ॥ ६१८८ ॥
46.6188 · p. 458
अनुष्टुप्
श्वयो बले गदे शोषे पुँल्लिङ्गः परिकीर्त्तितः ।श्वयी त्रिः श्वयथौ चन्द्रे चापि पुँल्लिङ्गः इष्यते ॥ ६१८९ ॥
46.6189 · p. 458
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ङ्गः (wrong syllable)
श्ववृत्तिस्तु शुनां वृत्तौ सेवायां च प्रकीर्त्तिता ।श्वशुरो जनके पत्युर्जायायाश्च पुमान्मतः ॥ ६१९० ॥
46.6190 · p. 458
अनुष्टुप्
स्त्रियां तु श्वशुरा ब्राह्म्यामियं सम्परिकीर्त्तिता ।श्वशुर्यो देवरे चन्द्रे ना द्वयोः श्यालके मतः ॥ ६१९१ ॥
46.6191 · p. 458
अनुष्टुप्
श्वश्रूः श्वशुरपत्न्यां च पितृष्वसरि च स्त्रियाम् ।श्वसनं क्ली मतं श्वासे ना वायौ मदनद्रुमे ॥ ६१९२ ॥
46.6192 · p. 458
अनुष्टुप्
श्वात्रं नपुंसकं क्षिप्रे धनेऽपि परिकीर्त्तितम् ।श्वालः स्यादाशुगत्यां ना कुक्कुरे तु द्वयोर्मतः ॥ ६१९३ ॥
46.6193 · p. 458
अनुष्टुप्
श्वेतस्तु ऋषिभेदेऽपि शुक्लवर्णे पुमान्मतः ।कुलशैलान्तरे मेरोरुत्तरान्नीलपर्वतात् ॥ ६१९४ ॥
46.6194 · p. 458
अनुष्टुप्
उत्तरे च त्रिषु श्वेतः शुक्लवर्णान्विते मतः ।क्लीबं तु दध्नि रजतेऽप्यथ श्वेता सुराऽन्तरे ॥ ६१९५ ॥
46.6195 · p. 458
अनुष्टुप्
पैष्टिकीसंज्ञके स्त्री स्याल्लतान्तरनदीभिदोः ।भवेत्सुगन्धौ तुलसीसंज्ञके च कठिञ्जरे ॥ ६१९६ ॥
46.6196 · p. 458
अनुष्टुप्
सितशेफालिकायां तु स्याच्छ्वेतसुरसा स्त्रियाम् ॥ ६१९६-१/२ ॥
46.399 · p. 458