कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ज (1/2)

जः-जठरः

जो ना मृत्युञ्जये ताते जन्मन्यपि जनार्दने ।जवे भोगे विषे दीप्तौ पिशाचे देवरे स्त्रियाम् ॥ २१९७ ॥
24.2197 · p. 163
अनुष्टुप्
अपि मध्यगुरौ जा तु जातो त्रिस्तूत्तरस्थितः ।जाते जेतरि भुक्ते च रंहस्विनि तथा मतः ॥ २१९८ ॥
24.2198 · p. 163
अनुष्टुप्
जकुटो मलये पुंसि शुनके तु द्वयोर्मतः ।जगच्च जगती चेति लोके स्त्रीक्लीबयोर्मतम् ॥ २१९९ ॥
24.2199 · p. 163
अनुष्टुप्
छन्दःसु स्त्री जगत्यष्टाचत्वारिंशत्स्वरादिषु ।सुरभौ च पृथिव्यां च जने त्वेतद्दूयोर्भवेत् ॥ २२०० ॥
24.2200 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 द्दू (wrong syllable)
वायौ तु ना त्रिषु त्वेष त्रसे च स्याच्चराचरे ।जगलम्मेदके पिष्टमद्येथ कितवे त्रिषु ॥ २२०१ ॥
24.2201 · p. 163
अनुष्टुप्
जघनं स्त्रीकटेः पूर्वभागेऽपि कटिमात्रके ।कस्यापि वस्तुनः पश्चाद्भागेऽपि च नपुंसकम् ॥ २२०२ ॥
24.2202 · p. 163
अनुष्टुप्
पनसे ना स्त्रियां काकोदुम्बर्याञ्जघनेफला ।जघन्यं गर्ह्यगहनजघनस्थाऽन्तिमे त्रिषु ॥ २२०३ ॥
24.2203 · p. 163
अनुष्टुप्
नपुंसकं तु विज्ञेयं जघन्यं रक्तचन्दने ।जघन्यजो द्वयोः शूद्रे त्रि तु नीचेऽनुजेऽपि च ॥ २२०४ ॥
24.2204 · p. 163
अनुष्टुप्
जङ्गलं त्वस्त्रियां मांसेऽथ स्थाने निर्जने त्रिषु ।जङ्घनन्तु स्त्रियाः श्रोणिपुरोभागे कटावपि ॥ २२०५ ॥
24.2205 · p. 163
अनुष्टुप्
जटा स्त्रीकेशसंदर्भभेदे मांसाख्यभेषजे ।तरोः शिफायां च जटी त्वेषा प्लक्षे स्त्रियां तथा ॥ २२०६ ॥
24.2206 · p. 163
अनुष्टुप्
द्रोणाख्यपरिमाणस्य चत्वारिंशत्यथ त्रिषु ।जटी जटावति भवेत्संहतेऽपि तथा मतः ॥ २२०७ ॥
24.2207 · p. 163
अनुष्टुप्
जटायुः पुंसि सम्पातेः कनीयसि च गुग्गुलौ ।जटिला तु वचा मांसी पिप्पलीषु स्त्रियां मता ॥ २२०८ ॥
24.2208 · p. 163
अनुष्टुप्
ह्रीबेरे जटिलं क्लीबं जटावति तु वाच्यवत् ।जठरः कठिने जीर्णे त्रिषु कुक्षौ तु न स्त्रियाम् ॥ २२०९ ॥
24.2209 · p. 163
अनुष्टुप्

जडः-जन्यः

जडस्तु स्तब्धनिर्बुद्ध्योः शीतेऽनालोच्यकारिणि ।जडा स्त्रियां शूकशिम्ब्यां पङ्कगन्धिजले जडम् ॥ २२१० ॥
24.2210 · p. 164
अनुष्टुप्
जडस्त्वेष गुणे शीते पुँल्लिङ्गः परिकीर्त्तितः ।जतुका जिनपत्रायां तथैव स्थावरान्तरे ॥ २२११ ॥
24.2211 · p. 164
अनुष्टुप्
चक्रवर्त्तिन्याख्यकेऽथ जतुकं हिङ्गुलाक्षयोः ।गवथौ स्याज्जतुफला पुंसि तूदुम्बरद्रुमे ॥ २२१२ ॥
24.2212 · p. 164
अनुष्टुप्
जत्र्वंससन्धाववसाने क्ली ना धर्ममेधयोः ।जनः स्याज्जनतायां च जनने मनुजेऽपि च ॥ २२१३ ॥
24.2213 · p. 164
अनुष्टुप्
राजन्यबन्धावप्राज्ञे प्रतिवेशविवाहयोः ।महर्लोकात्परे लोकेऽथ स्याद्दमनके जनम् ॥ २२१४ ॥
24.2214 · p. 164
अनुष्टुप्
जनको जन्मदे त्रिर्ना ताते सीतपितर्यपि ।जनक्षयस्तु संग्रामे जनस्यापि क्षये पुमान् ॥ २२१५ ॥
24.2215 · p. 164
अनुष्टुप्
जननी करुणामात्रोर्जननं वंशजन्मनोः ।भवेज्जनपदो जानपदोऽपि जनदेशयोः ॥ २२१६ ॥
24.2216 · p. 164
अनुष्टुप्
जनयित्री जनयिता पित्रोर्द्वे जन्मदे त्रिषु ।जनिर्ना जायतौ स्त्री तु पत्न्यां जन्मवरस्त्रियोः ॥ २२१७ ॥
24.2217 · p. 164
अनुष्टुप्
जनित्रं सामभेदेऽथ जनित्री मातरि स्त्रियाम् ।जनित्वं तु कुले द्यावापृथिव्योरोदसोरपि ॥ २२१८ ॥
24.2218 · p. 164
अनुष्टुप्
जनिमा पुंसि पित्रोः स्यादुत्पत्तौ तनयेऽपि च ।प्राणिद्यूतेप्यथ जनी स्नुषातिबलयोरपि ॥ २२१९ ॥
24.2219 · p. 164
अनुष्टुप्
उत्पत्तौ जतुकृद्वल्ल्यां सीमन्तिन्यां च कीर्त्तिता ।जन्तुर्नरे पुमान्प्राणिमात्रेऽपि परिकीर्त्तितः ॥ २२२० ॥
24.2220 · p. 164
अनुष्टुप्
अथ जन्तुरथः क्षुद्रमृगे कोद्रङ्गनामके ।योगे तु तस्य लिङ्गादि तर्कणीयं यथायथम् ॥ २२२१ ॥
24.2221 · p. 164
अनुष्टुप्
जन्मोत्पत्तौ च तोये च नान्तं क्लीबमुदीरितम् ।जन्योऽपवादे न स्त्री स्यात्क्ली युद्धजनितव्ययोः ॥ २२२२ ॥
24.2222 · p. 164
अनुष्टुप्
हट्टे चाथोत्पादनीये जनितर्यपि वाच्यवत् ।तथा वरस्य स्निग्धेषु नवोढाज्ञातिभृत्ययोः ॥ २२२३ ॥
24.2223 · p. 164
अनुष्टुप्

जन्या-जया

विगीतेऽपि द्वयोस्त्वेष मातृवाहककीटके ।जन्या मातृवयस्यायां जन्यस्तु जनके पुमान् ॥ २२२४ ॥
24.2224 · p. 165
अनुष्टुप्
जन्युर्द्वयोरपत्ये च जन्तौ चाऽथ पुमानयम् ।जन्युरग्नौ च पितरि प्रादुर्भावे प्रजापतौ ॥ २२२५ ॥
24.2225 · p. 165
अनुष्टुप्
रक्तपुष्पे जपा-शब्द उपांशूच्चारणे जपः ।जपापुष्पं कुङ्कुमे स्याज्जपायाः कुसुमेऽपि च ॥ २२२६ ॥
24.2226 · p. 165
अनुष्टुप्
जप्रः स्त्रीपुंसयोर्भेके विप्रे च परिकीर्त्तितः ।जम्बालः शैवले पङ्के न स्त्रियामयमिष्यते ॥ २२२७ ॥
24.2227 · p. 165
अनुष्टुप्
जम्बीरो जम्भलद्रौ च स्तम्बे मरुवकाऽभिधे ।जम्बुर्द्रुमद्वीपभिदोः स्त्रियां मरुसरित्यपि ॥ २२२८ ॥
24.2228 · p. 165
अनुष्टुप्
जम्बुको वरुणे ना त्रिर्नीचे द्वे तु सृगालके ।जम्बूर्जम्बूटवृक्षे स्त्री तत्फले जम्बु नप्स्त्रियोः ॥ २२२९ ॥
24.2229 · p. 165
अनुष्टुप्
चतुष्पाज्जातिभेदे तु जम्बूः स्त्रीपुंसियोर्मता ।जम्बूकः फेरवे नीचे पश्चिमाशापतावपि ॥ २२३० ॥
24.2230 · p. 165
अनुष्टुप्
जम्बूलस्तु पुमाञ्जम्बूविटपे क्रकचच्छदे ।जम्भस्तु दंष्ट्रापार्श्वस्थदन्ते ना भुक्तिपादयोः ॥ २२३१ ॥
24.2231 · p. 165
अनुष्टुप्
दैत्यभेदे च जम्बीरतरौ क्लीबन्तु तत्फले ।विदारणे तु वक्त्रस्य जम्भा स्त्री परिकीर्त्तिता ॥ २२३२ ॥
24.2232 · p. 165
अनुष्टुप्
जम्भलो यक्ष्मभेदे च बुद्धदेवान्तरेऽपि ना ।तथा जम्बीरवृक्षेऽपि क्ली तु तत्प्रसवे मतम् ॥ २२३३ ॥
24.2233 · p. 165
अनुष्टुप्
जयस्तु पीतमुद्गे ना नान्दीवृक्षे पुरन्दरे ।जयन्ते भारते जित्यां होमभेदे युधिष्ठिरे ॥ २२३४ ॥
24.2234 · p. 165
अनुष्टुप्
जयनं विजयेऽश्वादिसंनाहेऽप्यश्वचर्मणि ।जयन्तो जेतरि त्रिर्ना भीमे शक्रसुते शिवे ॥ २२३५ ॥
24.2235 · p. 165
अनुष्टुप्
जयन्ती तिथिभिद्गौरीतर्कारीन्द्रसुतासु च ।जया तु गौरीतत्सख्योः स्त्रियां देव्यन्तरेष्वपि ॥ २२३६ ॥
24.2236 · p. 165
अनुष्टुप्
अर्हच्छासनदेवीनामेकस्यां च प्रकीर्त्तिता ।जयस्य हेतुभूतायां विद्यायामपि कुत्रचित् ॥ २२३७ ॥
24.2237 · p. 165
अनुष्टुप्

जरठः-जलसूचिः

तृतीयायान्तथाष्टम्यान्त्रयोदश्यान्तिथिष्वपि ।शमीद्रुमे हरीतक्यामग्निमन्थाख्यपादपे ॥ २२३८ ॥
24.2238 · p. 166
अनुष्टुप्
वचायां जीरके चापि तर्कार्याञ्च जया मता ।जरठः कर्कशे पाण्डौ कठिनेऽप्यभिधेयवत् ॥ २२३९ ॥
24.2239 · p. 166
अनुष्टुप्
जरन्तो महिषे द्वे स्यात्स्थविरे त्वभिधेयवत् ।जराय्वारण्यके सामभेदे गर्भाशये तु ना ॥ २२४० ॥
24.2240 · p. 166
अनुष्टुप्
जरूथोऽग्नौ शरीरे च मासे संवत्सरेऽपि ना ।जर्जरस्त्वस्त्रियां शक्रध्वजे वाय्वन्तरे तु ना ॥ २२४१ ॥
24.2241 · p. 166
अनुष्टुप्
दण्डिकासंज्ञके चैव शैवले द्वे तु कोकिले ।अथ जीर्णे च भिन्ने च जर्जरं वाच्यवन्मतम् ॥ २२४२ ॥
24.2242 · p. 166
अनुष्टुप्
जर्जरीकं बहुच्छिद्रे जराग्रस्तेऽपि वाच्यवत् ।जर्णो नेन्दौ द्रुमे कर्वे खगे तु द्वे त्रि जीर्णके ॥ २२४३ ॥
24.2243 · p. 166
अनुष्टुप्
जण्डश्चन्द्रे च वृक्षे च पुँल्लिङ्गः परिकीर्त्तितः ।जर्त्तः प्रजननाख्येऽङ्गे चाभीरे योनिरोम्णि च ॥ २२४४ ॥
24.2244 · p. 166
अनुष्टुप्
जर्त्तिलो मुनिभेदे चाप्यरण्यजतिले पुमान् ।जलं गोकलने नीरे ह्रीबेरेऽथान्यवज्जडे ॥ २२४५ ॥
24.2245 · p. 166
अनुष्टुप्
अथो जलकरङ्कोऽब्जे नारिकेलफलेऽपि च ।शङ्खे जललतायाञ्च वारिवाहे च कीर्त्तितः ॥ २२४६ ॥
24.2246 · p. 166
अनुष्टुप्
जलकूपी कूपगर्त्ते पुष्करिण्यान्तथा स्त्रियाम् ।जलगुल्मो जलावर्त्ते कच्छपे जलचत्वरे ॥ २२४७ ॥
24.2247 · p. 166
अनुष्टुप्
जलजं कमले ना तु शङ्खे द्वे मत्स्यकूर्मयोः ।जलतापिक इल्लीसे काके चीऋषयोश्च ना ॥ २२४८ ॥
24.2248 · p. 166
अनुष्टुप्
जलदो मुस्तके मेघे जलदा विद्युति स्त्रियाम् ।जलप्रियो वराहे स्याद्योगार्थे त्वर्थवन्मतः ॥ २२४९ ॥
24.2249 · p. 166
अनुष्टुप्
जलबिल्वः कर्कटे स्यात्पञ्चाङ्गे जलचत्वरे ।जलरुण्डो जलावर्त्तपयोरेणौ भुजङ्गमे ॥ २२५० ॥
24.2250 · p. 166
अनुष्टुप्
जलसूचिः कङ्कत्रोटिमत्स्ये शृङ्गाटकेपि च ।शिशुमारे च पुँल्लिङ्गो जलौकायां तु योषिति ॥ २२५१ ॥
24.2251 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)

जलाञ्जलं-जानुः

जलाञ्जलं स्वतो वारिनिर्गमे शैवलेऽपि च ।जलाटनो लोहपृष्ठे जलौकायां जलाटनी ॥ २२५२ ॥
24.2252 · p. 167
अनुष्टुप्
जलात्मा महिषे द्वे स्याद्वाच्यवत्तु जडात्मनि ।जलाशयमुशीरे क्ली जलाधारे तु पुंस्ययम् ॥ २२५३ ॥
24.2253 · p. 167
अनुष्टुप्
जडाऽभिप्रायके त्वेतदभिधेयवदिष्यते ।जलेशः पुंसि वरुणे जम्भले च महोदधौ ॥ २२५४ ॥
24.2254 · p. 167
अनुष्टुप्
जवा स्यादोड्रपुष्पेऽथ जवो वेगे त्रि तद्वति ।जवनो वेगयुक्ते त्रिर्गतौ तु जवनम्मतम् ॥ २२५५ ॥
24.2255 · p. 167
अनुष्टुप्
गतिहेतौ च वेगेऽपि वायौ तु जवनः पुमान् ।जवी वेगवति त्रि स्याद्द्वे तु वातप्रमीमृगे ॥ २२५६ ॥
24.2256 · p. 167
अनुष्टुप्
जसुरिस्त्वरणौ पत्रे वह्नावपि पुमान्मतः ।जहकः पुंसि कालेऽथ स्यात्क्षुद्रत्यागिनोस्त्रिषु ॥ २२५७ ॥
24.2257 · p. 167
अनुष्टुप्
जह्नुस्तु पुंसि राजर्षिभेदे विष्णावपि स्मृतः ।जागृविर्नृपतावग्नावपि पुँल्लिङ्ग उच्यते ॥ २२५८ ॥
24.2258 · p. 167
अनुष्टुप्
जाघनी तु स्त्रियां जङ्घायां त्रिर्जघनयोगिनि ।जाङ्गलं क्लीबमगुरौ त्रि तु जङ्गलयोगिनि ॥ २२५९ ॥
24.2259 · p. 167
अनुष्टुप्
द्वयोः कपिञ्जले स्त्री तु शूकशिम्ब्यां हि जाङ्गली ।जाङ्गली विषविद्यायां जाङ्गलं जालिनीफले ॥ २२६० ॥
24.2260 · p. 167
अनुष्टुप्
जातं कदम्बके न स्त्री त्रिषूत्पन्ने जनौ तु नप् ।जातरूपं सुवर्णे च रूप्ये चापि नपुंसकम् ॥ २२६१ ॥
24.2261 · p. 167
अनुष्टुप्
जातिः समूहे मालत्यां सामान्ये गोत्रजन्मनोः ।अश्मन्तिकामलक्योश्च तथा जातीफले स्त्रियाम् ॥ २२६२ ॥
24.2262 · p. 167
अनुष्टुप्
ब्राह्मणादिषु वर्णेषु वेदार्थे सर्वजन्तुषु ।स्वभावे प्रभवे छन्दोभेदेष्वार्यादिकेष्वपि ॥ २२६३ ॥
24.2263 · p. 167
अनुष्टुप्
कदाचिदर्थे जातु स्यादव्ययं गर्हणेपि च ।जात्यो मुख्ये कुलीने च सुन्दरेऽप्यभिधेयवत् ॥ २२६४ ॥
24.2264 · p. 167
अनुष्टुप्
जानुः स्यादस्त्रियामुरूजङ्घासन्धौ तथैव च ।द्वात्रिंशदङ्गुले मानभेदे जानुः प्रकीर्त्तितः ॥ २२६५ ॥
24.2265 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 मु (wrong syllable)

जापकं-जालपादः

जापकं त्रिर्जपकृति क्ली तु कालेयके स्मृतम् ।जाबालो द्वे अजाजीवे जबालापत्यके त्रिषु ॥ २२६६ ॥
24.2266 · p. 168
अनुष्टुप्
जामाता दुहितुः पत्यौ तथा श्वेततिले धवे ।तथैव सूर्यावर्त्तेऽपि पुँल्लिङ्गः परिकीर्त्तितः ॥ २२६७ ॥
24.2267 · p. 168
अनुष्टुप्
जामिः कुलस्त्रियां स्त्री स्यात्तृणे स्वसरि चाङ्गुलौ ।नीवृद्भेदे जले त्वेतज्जामि क्लीबमुदाहृतम् ॥ २२६८ ॥
24.2268 · p. 168
अनुष्टुप्
आलस्ये चेतसोभ्यासात्समानगुणवस्तुनः ।जाम्बवानृक्षराजेऽस्य सुतायां जाम्बवत्यपि ॥ २२६९ ॥
24.2269 · p. 168
अनुष्टुप्
जायानुजीवी पुंसि स्यान्नटे च बकपक्षिणि ।जायुः पित्ते भेषजेऽपि पुँल्लिङ्गः परिकीर्त्तितः ॥ २२७० ॥
24.2270 · p. 168
अनुष्टुप्
जारः पुमानुपपतौ भास्करे च प्रयुज्यते ।अविवाह्यासु कन्यासु या स्यात्कन्या प्रसूतिजा ॥ २२७१ ॥
24.2271 · p. 168
अनुष्टुप्
कन्या तस्यां स्त्रियां जारी पार्वत्यामपि चेष्यते ।ओषधीभिदि जारं तु क्ली रक्तकुमुदे मतम् ॥ २२७२ ॥
24.2272 · p. 168
अनुष्टुप्
जारद्गवं तु स्त्रीयोगियानमार्गस्य दक्षिणा ।या वीथिस्तत्र मार्गस्य पुनस्तस्यान्तरिक्षगे ॥ २२७३ ॥
24.2273 · p. 168
अनुष्टुप्
स्थाने जारद्गवं क्लीबं त्रिर्जरद्गवयोगिनि ।जालं गवाक्षे दन्ते क्ली पुष्पक्षारकवृन्दयोः ॥ २२७४ ॥
24.2274 · p. 168
अनुष्टुप्
आनाये कपटे चापि भारताद्दक्षिणे क्वचित् ।वर्षात्स्यादन्तरे द्वीपे विप्रावैदेहजे पुनः ॥ २२७५ ॥
24.2275 · p. 168
अनुष्टुप्
द्वयोरथ पटोल्यां स्त्री जाली नीपद्रुमे तु ना ।जालकं क्षारके दम्भे कलायां नाययोरपि ॥ २२७६ ॥
24.2276 · p. 168
अनुष्टुप्
गवाक्षभेदेऽथ तिले नाभौ च कफले न ना ।जालिका त्वधवायां च वदना वृतिवाससि ॥ २२७७ ॥
24.2277 · p. 168
अनुष्टुप्
गिरिसारजलौकायोमयकङ्कटके स्त्रियाम् ।द्वे तु कीटे मर्कटाख्ये जालकः परिकीर्त्तितः ॥ २२७८ ॥
24.2278 · p. 168
अनुष्टुप्
जालपादो द्वयोर्हंसे राजहंसेऽम्बुकुक्कुटे ।कुक्कुटेऽपि त्रिषु त्वेष जालाकारपदे मतः ॥ २२७९ ॥
24.2279 · p. 168
अनुष्टुप्

जालिकः-जिह्वालः

जालिको वाच्यवद्ग्रामे जालिजालोपजीविनोः ।धूर्त्ते च द्वे तु लूताख्यक्षुद्रजन्त्वन्तरे मतः ॥ २२८० ॥
24.2280 · p. 169
अनुष्टुप्
जाली जालवति त्रि स्याद्वयोर्दाशे प्रकीर्त्तितः ।जालिनी चित्रशालायां पिप्पल्यां च स्त्रियां मता ॥ २२८१ ॥
24.2281 · p. 169
अनुष्टुप्
जाल्मो नीचे त्रि निर्बुद्धौ स्तब्धेऽनालोच्यकारिणि ।जाहको घोङ्घमार्जारखट्वाकारुण्डिकासु च ॥ २२८२ ॥
24.2282 · p. 169
अनुष्टुप्
जाह्नवं तु भवेज्जन्तुवाचकं तन्नपुंसकम् ।गङ्गायां जाह्नवी जह्नुयोगिनि त्रिषु जाह्नवम् ॥ २२८३ ॥
24.2283 · p. 169
अनुष्टुप्
जिर्वाच्यवत्स्याज्जयिनि पिशाचे तु पुमान्मतः ।जिगत्नुस्तु पुमान्प्राणे शीघ्रगे वाच्यवन्मतः ॥ २२८४ ॥
24.2284 · p. 169
अनुष्टुप्
जिगीषा जेतुमिच्छायां व्यवसायप्रकर्षयोः ।जिघांसुर्हन्तुमिच्छौ त्रिर्ना तु शत्रौ प्रयुज्यते ॥ २२८५ ॥
24.2285 · p. 169
अनुष्टुप्
जिङ्गी स्त्रियामियं प्रोक्ता मञ्जिष्ठासंज्ञभेषजे ।तथा दीर्घफलायां च कोशातक्यां प्रयुज्यते ॥ २२८६ ॥
24.2286 · p. 169
अनुष्टुप्
जितस्त्रिषु स्वीकृते च युद्धभग्नाभिभूतयोः ।जये तु जितमित्येतन्नपुंसकमुदीरितम् ॥ २२८७ ॥
24.2287 · p. 169
अनुष्टुप्
जितिः स्त्रियां स्याद्विजये सामभेदे तथा मता ।जित्यो हलौ पुमाञ्जित्या विजये स्त्रीत्व इष्यते ॥ २२८८ ॥
24.2288 · p. 169
अनुष्टुप्
जित्वति जयशीले त्रिः काश्यां स्त्री जित्वरी मता ।जिनोऽर्हति च बुद्धे च विष्णौ स्याज्जित्वरे त्रिषु ॥ २२८९ ॥
24.2289 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
जिप्री द्वे शकुनौ जिप्रः पुंसि स्यात्क्रोधकालयोः ।जिष्णुरग्न्यर्जुनेन्द्रेषु विष्णौ ना त्रि तु जित्वरे ॥ २२९० ॥
24.2290 · p. 169
अनुष्टुप्
जिह्नं त्वगरवृक्षे च तथा पापे नपुंसकम् ।जिह्मः सर्पे द्वयोरेष त्रिलिङ्गः कुटिलेऽलसे ॥ २२९१ ॥
24.2291 · p. 169
अनुष्टुप्
जिह्मगस्तु द्वयोः सर्पे मन्दगामिनि वाच्यवत् ।जिह्वा तु वाचि ज्वालायां रसने च स्त्रियां मता ॥ २२९२ ॥
24.2292 · p. 169
अनुष्टुप्
जिह्वापस्तु द्वयोरुक्तो मार्जारे च तथा शुनि ।जिह्वालो द्वे सारमेये तथैव पृषदंशके ॥ २२९३ ॥
24.2293 · p. 169
अनुष्टुप्

जीमूतः-जीवबोधनी

जीमूतोऽद्रौ भृतिकरे देवताडे पयोधरे ।जीरोऽन्ने पावके खड्गेऽजाज्यान्त्वेष नृशण्डयोः ॥ २२९४ ॥
24.2294 · p. 170
अनुष्टुप्
जीरो द्वयोर्भवेदश्वे जीरः क्षिप्रेऽभिधेयवत् ।जीविर्द्रव्ये पुमांष्टङ्के गुल्मे च शकटेऽप्यथ ॥ २२९५ ॥
24.2295 · p. 170
अनुष्टुप्
द्वयोः पशौ च मद्गौ च चटके च प्रयुज्यते ।जीलं तु करपत्र्यां स्यात्कोशे चर्मपुटे दृतौ ॥ २२९६ ॥
24.2296 · p. 170
अनुष्टुप्
जीवो ना गीष्पतौ जन्तौ क्षेत्रज्ञे वृक्षभिद्यपि ।जीवा मौर्व्यां वचाभूम्योर्जीवन्त्यां शिञ्जितेऽपि च ॥ २२९७ ॥
24.2297 · p. 170
अनुष्टुप्
जीवं द्विषष्टिस्वरके छन्दोभेदे नपुंसकम् ।जीवकः स्यात्क्षपणके तथैवासनपादपे ॥ २२९८ ॥
24.2298 · p. 170
अनुष्टुप्
कूर्मशीर्षे च पुँल्लिङ्गस्तथा स्यादहितुण्डिके ।त्रि तु श्रेष्ठे प्राणितरि वृद्ध्याजीविनि सेवके ॥ २२९९ ॥
24.2299 · p. 170
अनुष्टुप्
कृपणे च स्त्रियां त्वेषा जीवन्त्याख्यलतान्तरे ।आजीवे जीवने चापि जीविका परिकीर्त्तिता ॥ २३०० ॥
24.2300 · p. 170
अनुष्टुप्
अथ च प्राणवत्येष जीवत् स्यादभिधेयवत् ।जीवथो द्वे मयूरे च कूर्मे च परिकीर्त्तितः ॥ २३०१ ॥
24.2301 · p. 170
अनुष्टुप्
जीवदस्तु पुमाञ्छत्रौ वैद्य चापि प्रयुज्यते ।भेद्यवत्त्वेष जीवस्य छेत्तर्यपि च दातरि ॥ २३०२ ॥
24.2302 · p. 170
अनुष्टुप्
जीवनं जीविकायाञ्च प्राणनेऽन्ने च वारिणि ।विष्णुशक्त्यन्तरे तु स्त्री जीवन्त्यामपि जीवनी ॥ २३०३ ॥
24.2303 · p. 170
अनुष्टुप्
स्याज्जीवना स्त्री मेदायामनाजीवतयेः कृतौ ।जीवनीया तु जीवन्तीशाकसंज्ञलतान्तरे ॥ २३०४ ॥
24.2304 · p. 170
अनुष्टुप्
काकाङ्गीसंज्ञके च स्त्री जीयितव्याऽम्बुनोस्तु नप् ।जीवन्त ऋषिभेदे ना स तु स्याज्जीवतादिति ॥ २३०५ ॥
24.2305 · p. 170
अनुष्टुप्
आशिषो विषये चैव जीवितर्यपि वाच्यवत् ।जीवन्ती तु स्त्रियां जीवासंज्ञशाकलतान्तरे ॥ २३०६ ॥
24.2306 · p. 170
अनुष्टुप्
ज्योतिष्मतीगुडूच्योश्च सा शमीवन्दयोरपि ।पुनर्नवौषधौ जीवबोधनी कथिता स्त्रियाम् ॥ २३०७ ॥
24.2307 · p. 170
अनुष्टुप्

जीवला-जैवातृकम्

जीवबोधन इत्यस्य योगे लिङ्गादि तर्क्यताम् ।जीवला स्त्री वचायां स्यान्मुनिभेदे तु जीवलः ॥ २३०८ ॥
24.2308 · p. 171
अनुष्टुप्
जीवातुरस्त्री जीवे च द्रव्येऽन्ने सलिले तथा ।औषधेऽपि विशेषेण कीर्त्तितो जीवनौषधे ॥ २३०९ ॥
24.2309 · p. 171
अनुष्टुप्
जीवितं प्राणने क्लीबं प्राणेषु च तथा मतम् ।त्रि तु प्राणिनवत्येवं जीवेर्ण्यन्तस्य कर्मणि ॥ २३१० ॥
24.2310 · p. 171
अनुष्टुप्
जीवितेशः प्राणनाथे दयिते द्रविणागमे ।जुगुप्सा तु घृणायां च निन्दायां च स्त्रियां मता ॥ २३११ ॥
24.2311 · p. 171
अनुष्टुप्
जुङ्गितस्तु द्वयोर्हीनवर्णे पूर्वैः प्रकीर्त्तितः ।वर्जिते जुङ्गितं त्रि स्याद्वर्जने तु नपुंसकम् ॥ २३१२ ॥
24.2312 · p. 171
अनुष्टुप्
जूर्जवे स्त्री गतौ रान्ता ह्रस्वादी राक्षसे द्वयोः ।जुष्टं तु क्लीबमुच्छिष्टे सेविते त्वभिधेयवत् ॥ २३१३ ॥
24.2313 · p. 171
अनुष्टुप्
जुहुराणस्तु ना वह्नावध्वर्यावनडुह्यपि ।अथ द्वयोर्हये त्रिस्तु कुटिले परिकीर्त्तितः ॥ २३१४ ॥
24.2314 · p. 171
अनुष्टुप्
जुहूः स्त्रियां पुरोडाशे स्नुग्विशेषे च कीर्त्तिता ।जूस्त्वरागमने प्रोक्ता सामान्यगमने स्त्रियाम् ॥ २३१५ ॥
24.2315 · p. 171
अनुष्टुप्
जूराकाशसरस्वत्यां पिशाच्यां जवने स्त्रियाम् ।जूटो ना निकुरम्बे स्यात्केशविन्यासभिद्यपि ॥ २३१६ ॥
24.2316 · p. 171
अनुष्टुप्