All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
ट
टः-ढः
टः पुमान्वामने पादे निःस्वनेऽपि पुमान्मतः ॥ २३४७ ॥
27.2347 · p. 174
टङ्कौऽस्त्री परशौ शैलशृङ्गे पाषाणदारणे ।मुद्रितोन्मानभेदे च टङ्कणे चाथ नृस्त्रियोः ॥ २३४८ ॥
27.2348 · p. 174
अनुष्टुप्
मृगभेदेऽप्यवस्थाने ना तु कश्मीरविश्रुते ।महीरुहान्तरे नीलकपित्थे क्ली फले तयोः ॥ २३४९ ॥
27.2349 · p. 174
अनुष्टुप्
टङ्कारो विस्मये पुंसि प्रसिद्धौ शिञ्जिनीध्वनौ ।टट्टरी लम्बभेदे स्याल्लम्बापटहसंज्ञके ॥ २३५० ॥
27.2350 · p. 174
अनुष्टुप्
मिथ्यावादेऽपि च स्त्रीत्वे भेरीनादे तु टट्टरः ।टागरष्टङ्कणक्षारे केकराख्ये च वीक्षिते ॥ २३५१ ॥
27.2351 · p. 174
अनुष्टुप्
अथ केकरनेत्रे त्रिष्टागरः स्याच्छरीरिणि ।टारो लङ्के तुरङ्गे च पुँल्लिङ्गः परिकीर्त्तितः ॥ २३५२ ॥
27.2352 · p. 174
अनुष्टुप्
टुण्डुकोऽल्पे त्रिलिङ्गः स्यान्ना तरौ शोणकाभिधे ॥ २३५२-१/२ ॥
27.7 · p. 174