कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

प (4/7)

पुत्री-पुन्नागः

पुत्री दुहितरि स्त्रीत्वे सालभञ्ज्यामपीष्यते ।ह्रस्वार्थेऽप्यसिपुत्र्यादौ पार्वत्यां वीरुदन्तरे ॥ ३४२७ ॥
37.3427 · p. 254
अनुष्टुप्
पुत्रकस्तु पुमान्दीक्ष्यभेदे स्यात्पर्वतान्तरे ।पेषण्यां पाटलिपुरनिर्मातृद्रुमभेदयोः ॥ ३४२८ ॥
37.3428 · p. 254
अनुष्टुप्
पुत्रदा स्तम्बभेदेऽपि कन्दभेदे च कीर्त्तिता ।वन्ध्याकर्कोटकीवल्लौ योगार्थे तु त्रि पुत्रदः ॥ ३४२९ ॥
37.3429 · p. 254
अनुष्टुप्
पुत्रदात्री मालवजे वीरुद्भेदेऽपि यौगिके ।पुत्रप्रियः पक्षिभेदे द्वयोस्त्रिषु तु यौगिके ॥ ३४३० ॥
37.3430 · p. 254
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
स्याद्वसिष्ठे पुत्रहतो हतपुत्रे त्रिषु स्मृतः ।स्यात्पुत्रिका पुत्तलिकादुहित्रोर्यावतूलके ॥ ३४३१ ॥
37.3431 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
खड्गासिपुत्रिकादौ च ह्रस्वत्वे सा प्रयुज्यते ।कृत्रिमादौ द्वयोः स्त्रीत्वे पुत्रका पुत्रिकेति च ॥ ३४३२ ॥
37.3432 · p. 254
अनुष्टुप्
अभ्रातृपितृका कन्या पूर्णदाया च पुत्रिका ।पुत्रिका तु मता स्त्रीत्वे मृद्दार्वादिकपुत्तले ॥ ३४३३ ॥
37.3433 · p. 254
अनुष्टुप्
पतङ्गिकायां देशे च प्लुषौ श्वेतपिपीलके ।पुद्गलः परमाण्वात्मदेहे ना त्रिस्तु सुन्दरे ॥ ३४३४ ॥
37.3434 · p. 254
अनुष्टुप्
पुनः पक्षान्तरे भेदाधिकाराप्रथमेषु च ।विरुद्धायां दिशीत्यर्थे क्वचिच्छ्रुतिषु दृश्यते ॥ ३४३५ ॥
37.3435 · p. 254
अनुष्टुप्
पुनर्भवः पुनर्जन्म नखरक्तपुनर्नवे ।पुनर्भूः पुनरूढायां स्त्री पुनर्नूतने त्रिषु ॥ ३४३६ ॥
37.3436 · p. 254
अनुष्टुप्
पुनर्वसुर्वररुचौ विष्णौ लोकान्तरे शिवे ।नृपान्तरे धनस्योपक्रमे ना दितिभे पुनः ॥ ३४३७ ॥
37.3437 · p. 254
अनुष्टुप्
पुनर्वसू द्विवचने तद्युक्ते चाप्यनेहसि ।पुनर्वसुस्तु जातेऽत्र वाच्यवत्परिकीर्त्तितः ॥ ३४३८ ॥
37.3438 · p. 254
अनुष्टुप्
पुनः सरः प्रतिगमेऽप्यपामार्गे पुमान्मतः ।पुन्नागस्तु नरश्रेष्ठजातीफलसितोत्पले ॥ ३४३९ ॥
37.3439 · p. 254
अनुष्टुप्
केसरे पाण्डुनागे च पुँल्लिङ्गः परिकीर्त्तितः ।पुन्नागः पूज्यपुरुषे पुंगजे पुम्भुजङ्गमे ॥ ३४४० ॥
37.3440 · p. 254
अनुष्टुप्

पुप्फुसः-पुरस्कृतः

देववल्लभवृक्षे ना क्लीबं तत्प्रसवे मतम् ।पुप्फुसोऽम्बुजबीजानां कोशे चापि कफाशये ॥ ३४४१ ॥
37.3441 · p. 255
अनुष्टुप्
पुमांस्तु पुरुषे विष्णावात्मन्यपि च पौरुषे ।[वंशावृत्तौ तथा] दासे पुँल्लिङ्गे सांख्यपूरुषे ॥ ३४४२ ॥
37.3442 · p. 255
अनुष्टुप्
पूः स्त्रियां नगरे देहे बुद्धौ पूर्त्तावपीष्यते ।पुरन्तु न स्त्रियां ध्यामस्तम्बे स्याद्गेहदेहयोः ॥ ३४४३ ॥
37.3443 · p. 255
अनुष्टुप्
असुराणां त्रिषु पुरेष्वपि त्वचि च मुस्तके ।सर्वतोभद्रकाद्ये च स्याच्छैवागममण्डले ॥ ३४४४ ॥
37.3444 · p. 255
अनुष्टुप्
पुरस्तु गुग्गुलौ पुंसि नगरे तु पुरी त्रिषु ।द्वयोस्तु शूद्रमहिषीपुत्रे पुरिरपि स्त्रियाम् ॥ ३४४५ ॥
37.3445 · p. 255
अनुष्टुप्
पुरे पुरा पुनः स्त्रीत्वे गन्धद्रव्यान्तरे मता ।पुरी स्त्रियां जगन्नाथक्षेत्रे पुंसि पुनः क्वचित् ॥ ३४४६ ॥
37.3446 · p. 255
अनुष्टुप्
दशानामपि भिक्षूणां शङ्करानुगमायिनाम् ।पुरञ्जनस्तु वरुणे पुमानात्मनि चेष्यते ॥ ३४४७ ॥
37.3447 · p. 255
अनुष्टुप्
पुरञ्जनी पुनर्बुद्धौ स्त्रीलिङ्गे परिकीर्त्तिता ।पुरञ्जयो राजभेदेष्वैरावतसुतेऽपि च ॥ ३४४८ ॥
37.3448 · p. 255
अनुष्टुप्
पुरतः प्रथमे चाग्रेऽप्यव्ययम्परिकीर्त्तितम् ।पुरन्दरोग्नाविन्द्रे च शिवे दस्यौ पुमानथ ॥ ३४४९ ॥
37.3449 · p. 255
अनुष्टुप्
पुरन्दरा तु गङ्गायां तथा नद्यन्तरे स्त्रियाम् ।पुरन्दरम्पुनः क्लीबमुदितं चव्यभेषजे ॥ ३४५० ॥
37.3450 · p. 255
अनुष्टुप्
पुरन्धिः स्यादुदारे त्रिः स्त्री सौभाग्यवती स्त्रियाम् ।औदार्यौदारदेव्योश्च पुरन्धिः श्रुतिषु श्रुता ॥ ३४५१ ॥
37.3451 · p. 255
अनुष्टुप्
पुरन्ध्रिः पुनरिन्द्रे च वरुणे च पुमान्मतः ।पुरश्छदश्चुचूकेऽपि [पुरश्चरणमनुष्ठितौ] ॥ ३४५२ ॥
37.3452 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्चर (syllable split)
पुरोऽग्रे प्रथमे भूयोऽधिकारे च पुनः पुनः ।पुरस्कारोऽग्रेकरणे तथैव स्यादुपायने ॥ ३४५३ ॥
37.3453 · p. 255
अनुष्टुप्
पुरस्कृतः पूजिते स्यादभियुक्ते च शत्रुभिः ।अग्रतश्च कृते चैवाप्यभिषिक्तेऽभिधेयवत् ॥ ३४५४ ॥
37.3454 · p. 255
अनुष्टुप्

पुरस्तः-पुरुषः

पुरस्तात्प्रथमे प्राच्यामग्रतोऽर्थपुरार्थयोः ।पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ ३४५५ ॥
37.3455 · p. 256
अनुष्टुप्
पुराणन्तु ग्रन्थभेदे क्लीबं स्यात्पञ्चलक्षणे ।पुराणः कार्षिके पुंसि त्रिषु तु स्याच्चिरन्तने ॥ ३४५६ ॥
37.3456 · p. 256
अनुष्टुप्
पुराणा च पुराणी च तत्र रूपं स्त्रियान्द्वयम् ।पुराणगस्त्रिः कथके ब्रह्मण्येष पुमान्मतः ॥ ३४५७ ॥
37.3457 · p. 256
अनुष्टुप्
पुरीतदन्त्रे हृदयावरणेऽपि नपुंसकम् ।पुरीषी व्यापके भूमेर्वाच्यवत्परिकीर्त्तितः ॥ ३४५८ ॥
37.3458 · p. 256
अनुष्टुप्
अथानिर्णीतलिङ्गोऽयं सरय्वां सरिदन्तरे ।पुरीष्यं भूमिसम्बद्धे पुरीषस्य च योगिनि ॥ ३४५९ ॥
37.3459 · p. 256
अनुष्टुप्
पुरारातिः शिवे पुंसि विष्णावपि तथा क्वचित् ।पुरिस्तु नगरेऽपि स्त्री नद्यामपि तथा मता ॥ ३४६० ॥
37.3460 · p. 256
अनुष्टुप्
पुरीषं मृत्तिकाचूर्णे विष्ठायां सलिलेऽपि च ।सामभिद्बिम्बतेजः सु पुरीषी चयनान्तरे ॥ ३४६१ ॥
37.3461 · p. 256
अनुष्टुप्
पुरुर्नृपान्तरे गङ्गाद्वाराद्रौ स्वर्ग एव च ।परागे ना द्वयोर्मर्त्ये त्रि तु प्राज्ये महत्यपि ॥ ३४६२ ॥
37.3462 · p. 256
अनुष्टुप्
पुरुटः पुंसि दम्पत्योः परैरसहने भवेत् ।स्त्रीपुंसयोश्च संलापे जलजन्तौ पुनर्द्वयोः ॥ ३४६३ ॥
37.3463 · p. 256
अनुष्टुप्
पुरुदंसा पुमान्सान्तइन्द्रे त्रिर्बहुकर्मणि ।पुरुभोजा गिरौ मेघे पुंसि त्रिर्बहृभुज्यपि ॥ ३४६४ ॥
37.3464 · p. 256
अनुष्टुप्
पुरुवारो बहुकचेऽश्वादौ त्रिश्च बहुप्रदे ।पुरुषः पुरुषीमर्त्यजातौ द्वे ना सशेफके ॥ ३४६५ ॥
37.3465 · p. 256
अनुष्टुप्
तिबादित्रिकभेदेऽपि प्रथमोत्तममध्यमे ।अधिकारिणि मित्रे च सांख्यवादिनि वंशजे ॥ ३४६६ ॥
37.3466 · p. 256
अनुष्टुप्

पुरुषगतिः-पुरोद्भवा

पञ्चारत्निप्रमाणे च सविंशतिशताङ्गुले ।कनीनिकायाञ्जीवे च विष्णौ च परमात्मनि ॥ ३४६७ ॥
37.3467 · p. 257
अनुष्टुप्
शिवदुर्गाब्रह्मविष्णुस्वरूपे सांख्यपूरुषे ।वृक्षादिसौरभे सप्ततत्त्वेष्वङ्घ्रावृचान्तथा ॥ ३४६८ ॥
37.3468 · p. 257
अनुष्टुप्
महानाम्नीसमाख्यानां मेषादिविषमेष्वपि ।चाक्षुषस्य मनोः पुत्रेऽष्टादशानां रवेरपि ॥ ३४६९ ॥
37.3469 · p. 257
अनुष्टुप्
स्यात्पारिपार्श्विकानामेकत्र पञ्चसु पुंस्यपि ।राजयोगोद्भवेष्वेवम्पुन्नागे [पुरुषः पुमान्] ॥ ३४७० ॥
37.3470 · p. 257
अनुष्टुप्
अश्वावस्थानभेदे तु नस्त्री क्ली मेरुपर्वते ।सेतुषानाम्नि पुरुषगतिः सामनि कीर्त्तिता ॥ ३४७१ ॥
37.3471 · p. 257
अनुष्टुप्
अहमस्मीत्यृगुत्पन्ने पुरुषस्य गतावपि ।द्वयोस्तु पुरुषव्याघ्रो गृध्रे ना पुरुषोत्तमे ॥ ३४७२ ॥
37.3472 · p. 257
अनुष्टुप्
पुरुषाद्यस्तु विष्णौ स्यादादिनाथर्षभेऽपि च ।पुरुषान्तरमन्यस्मिन्पुंसि भेदे नृणामपि ॥ ३४७३ ॥
37.3473 · p. 257
अनुष्टुप्
विष्णावर्हत्यथाप्यर्हद्विशेषे पुरुषोत्तमः ।अधिमासे जगन्नाथक्षेत्रेऽपि परिकीर्त्तितः ॥ ३४७४ ॥
37.3474 · p. 257
अनुष्टुप्
पुरुष्टुतस्त्रिर्बहुभिः स्तुते पुंसि शिवे मतः ।पुरुहूतस्तु बहुभिर्हूते त्रिः पुंसि वासवे ॥ ३४७५ ॥
37.3475 · p. 257
अनुष्टुप्
पुरुहूता पुनः स्त्रीत्वे दुर्गारूपान्तरे मता ।पुरोगामी पुरोगे त्रिः कुक्कुरे तु द्वयोर्मतः ॥ ३४७६ ॥
37.3476 · p. 257
अनुष्टुप्
पुरोटिः पत्रझङ्कारे नदीवेगेऽपि कस्यत्तित् ।पुरोडाशः सोमरसे हविस्तद्दानमन्त्रयोः ॥ ३४७७ ॥
37.3477 · p. 257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स्य (wrong syllable)
हुतशेषे च पुँल्लिङ्गः शब्दोयं परिकीर्त्तितः ।पुरोद्भवस्त्रि पौरे द्वे वृक्षभेदे पुरोद्भवा ॥ ३४७८ ॥
37.3478 · p. 257
अनुष्टुप्

पुरोभागः-पुल्कसः

पुरोभागस्तु दोषैकदृक्त्वेऽग्रावस्थितावपि ।पुरोहितोऽग्रनिहिते त्रिः पुमांस्तु पुरोधसि ॥ ३४७९ ॥
37.3479 · p. 258
अनुष्टुप्
पुलः स्यात्पुंसि पुलके तथैव प्रमथान्तरे ।पुला तालूर्ध्वभागे स्त्री गतिभेदे च वाजिनाम् ॥ ३४८० ॥
37.3480 · p. 258
अनुष्टुप्
पुली तृणादिपूले स्त्री स्यादायामे पुलन्नपि ।पुलकः पुंसि खड्गस्थास्वण्डराजिषु हीरके ॥ ३४८१ ॥
37.3481 · p. 258
अनुष्टुप्
शाकभेदे द्रुभेदे च तृणादेरपि पूलके ।कृमिप्रभेदे गल्वकर्मणिदोषप्रभेदयोः ॥ ३४८२ ॥
37.3482 · p. 258
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
रोमाञ्चे हरिताले च रत्नभेदेऽपि कीर्त्तितः ।गजान्नपिण्डे गन्धर्वेऽप्यसौ पुलक इष्यते ॥ ३४८३ ॥
37.3483 · p. 258
अनुष्टुप्
पुलकी ना कदम्बद्रावथ रोमाञ्चिते त्रिषु ।पुलस्तिः स्निग्धकेशे त्रिर्ऋषिभेदे पुमान्मतः ॥ ३४८४ ॥
37.3484 · p. 258
अनुष्टुप्
पुलस्त्यः ऋषिभेदेऽपि शिवे स्यात्तारकान्तरे ।पुलहस्त्वृषिभेदेऽपि शिवे स्यात्तारकान्तरे ॥ ३४८५ ॥
37.3485 · p. 258
अनुष्टुप्
पुलाकस्तुच्छधान्ये स्यात्संक्षेपे भक्तसिक्थके ।धान्यभेदे त्वरायाञ्च न स्त्रियां परिकीर्त्तितः ॥ ३४८६ ॥
37.3486 · p. 258
अनुष्टुप्
पुलिनो स्त्री सैकते ना गरुडेन जितेऽसुरे ।पुलिन्दो निष्ट्यपूर्वायां किरात्यां शबरात्सुते ॥ ३४८७ ॥
37.3487 · p. 258
अनुष्टुप्
निष्ट्यादनन्यपूर्वायां किरात्यां च सुते द्वयोः ।पोलिन्दाख्येऽपि पोताङ्गे नागकन्यान्तरे पुनः ॥ ३४८८ ॥
37.3488 · p. 258
अनुष्टुप्
पुलिन्दाऽथ पुलिन्दी तु शबर्यां रागभिद्यपि ।पुलोमा तु वचायां स्यात्पुत्र्यां वैश्वानरस्य च ॥ ३४८९ ॥
37.3489 · p. 258
अनुष्टुप्
पुल्कसः स्याद्द्वर्योर्मर्त्यजातिभेदे यदुद्भवः ।करण्यामपि चण्डालात्क्षत्रियायाञ्च शूद्रतः ॥ ३४९० ॥
37.3490 · p. 258
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्द्व (wrong syllable)

पुल्लः-पुष्कराह्वः (पुष्करः)

पुल्लो विकसिते त्रि स्यात्पुष्पे पुल्लन्नपुंसकम् ।पुल्वो द्वयोः कीटकृमौ कीटे दर्वीकरोरगे ॥ ३४९१ ॥
37.3491 · p. 259
अनुष्टुप्
पुषस्तु पोषके त्रि स्यात् … ।पुष्करं नीलकमले कमलेऽपि स्रुचो मुखे ॥ ३४९२ ॥
37.3492 · p. 259
अनुष्टुप्metre not read in every line
मुरजत्वचि शुण्डाग्रे जले व्योमनि सायके ।पञ्जरे युधि लास्येंऽशे मदेप्यैक्ये नपुंसकम् ॥ ३४९३ ॥
37.3493 · p. 259
अनुष्टुप्
कुष्ठौषधे सोमभौमशनिमत्याममातिथौ ।असिकोशेऽसिधारायामजमेरुह्रदान्तरे ॥ ३४९४ ॥
37.3494 · p. 259
अनुष्टुप्
अस्त्री तु पुष्करद्वीपे ब्रह्माण्डे पञ्चभारते ।पुमांस्तु योगभेदे च सूर्येऽपि मुरजे ह्रदे ॥ ३४९५ ॥
37.3495 · p. 259
अनुष्टुप्
रोगनागभिदोः कृष्णे शिवेऽपि वरुणात्मजे ।बुद्धभेदे पुष्कराख्यद्वीपस्याद्रौ द्विजेषु च ॥ ३४९६ ॥
37.3496 · p. 259
अनुष्टुप्
कुशद्वीपस्य मेघेषु पुष्करावर्त्तकेषु च ।नलभ्रातरि ऋक्षेषु कृत्तिकाद्येषु तत्र च ॥ ३४९७ ॥
37.3497 · p. 259
अनुष्टुप्
पुनर्वसूत्तराषाढाकृत्तिकोत्तरफल्गुनि ।पूर्वभाद्रपदा चैव विशाखे यद्यवस्थिताः ॥ ३४९८ ॥
37.3498 · p. 259
अनुष्टुप्
द्वयोस्तु सारसे स्त्री तु पुष्करी शिवमातरि ।पुष्करी स्यादिभे खड्गेऽथ पद्मवति वाच्यवत् ॥ ३४९९ ॥
37.3499 · p. 259
अनुष्टुप्
स्त्रियां पुष्करिणी चेभ्यां सरोजिन्यां जलाशये ।अथ पुष्करपर्णन्तु क्लीबं स्यादिष्टकान्तरे ॥ ३५०० ॥
37.3500 · p. 259
अनुष्टुप्
पुष्करस्रक्तु योगार्थेऽश्विनोस्तौ पुष्करस्रजौ ।पुष्कराक्षस्तु विष्णौ ना सारसे तु द्वयोर्मतः ॥ ३५०१ ॥
37.3501 · p. 259
अनुष्टुप्
दाक्षायण्यां च पूर्भेदे स्त्रीत्वे स्यात्पुष्करावती ।पुष्कराह्वः सारसे द्वे क्ली तु स्यात्कुष्ठभेषजे ॥ ३५०२ ॥
37.3502 · p. 259
अनुष्टुप्

पुष्कलं-पुष्पा

पुष्कलं भेद्यवच्छुद्धे सारे रम्यप्रभूतयोः ।पुमान्पुष्करवाद्येऽपि तरुवाद्यान्तरेषु च ॥ ३५०३ ॥
37.3503 · p. 260
अनुष्टुप्
शिवे वरुणपुत्रेऽपि बुद्धभिद्यसुरान्तरे ।नृभूम्नि तु कुशद्वीपक्षत्रियेष्विह पुष्कलाः ॥ ३५०४ ॥
37.3504 · p. 260
अनुष्टुप्
पुष्कलं तीर्थभेदेऽपि चमसे दुश्चिकाष्ट के ।हिरण्यमानभेदेऽपि भिक्षागणचतुष्टये ॥ ३५०५ ॥
37.3505 · p. 260
अनुष्टुप्
केचित्तु पुष्कलं क्लीबमाहुर्मेरुमहीभृति ।अथ पुष्कलको गन्धमृगे क्षपणकीलयोः ॥ ३५०६ ॥
37.3506 · p. 260
अनुष्टुप्
पुष्टं पुष्टौ धने स्थूलपालितादौ तु वाच्यवत् ।पुष्टग्रीवस्तु पुँल्लिङ्गो गर्गरी-ताम्रकुम्भयोः ॥ ३५०७ ॥
37.3507 · p. 260
अनुष्टुप्
पुष्टिस्तु पोषणे वृद्धौ स्त्रियामेषा प्रकीर्त्तिता ।पुष्टिर्धने धर्मपत्न्यामपि च स्त्री व्रतान्तरे ॥ ३५०८ ॥
37.3508 · p. 260
अनुष्टुप्
अश्वगन्धौषधे शक्तिमातृकेन्दुकलासु च ।दाक्षायण्यां सरस्वत्यां प्रकृतेश्च कलान्तरे ॥ ३५०९ ॥
37.3509 · p. 260
अनुष्टुप्
पुष्टिदाः पितृभेदे स्युः पुष्टिदा वृद्धिभेषजे ।अश्वगन्धौषधे चापि स्त्रीलिङ्गे परिकीर्त्तिता ॥ ३५१० ॥
37.3510 · p. 260
अनुष्टुप्
पुष्टिवर्द्धन इत्युक्तश्चाषाख्यविहगे द्वयोः ।त्रि तु वर्द्धनके पुष्टेरन्यच्चेदृशमूह्यताम् ॥ ३५११ ॥
37.3511 · p. 260
अनुष्टुप्
पुष्पः पुमान् विकासे स्यात्स्त्री तु पुष्पी बलौषधे ।पुष्पोऽस्त्री कुसुमे योषिदार्त्तवे नेत्ररुग्भिदि ॥ ३५१२ ॥
37.3512 · p. 260
अनुष्टुप्
नखदन्तादिकस्थेऽङ्के गन्धभित्सामभेदयोः ।प्रणयोक्तौ कुबेरस्य विमने पुष्पकाभिधे ॥ ३५१३ ॥
37.3513 · p. 260
अनुष्टुप्
विमाने तु पुमान्नागरत्नगिर्यन्तरेषु च ।बोध्यन्तरे पुष्पसूत्रे पुष्पा चम्पापुरी स्त्रियाम् ॥ ३५१४ ॥
37.3514 · p. 260
अनुष्टुप्

पुष्पकः-पुष्पाभिकीर्णकः

पुष्पकस्त्रिः पुष्पितरि ना विमाने धनेशितुः ।द्वयोस्तु द्वादशानां निर्विषाणां भोगिनां क्वचित् ॥ ३५१५ ॥
37.3515 · p. 261
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
पुष्पकं रीतिपुष्पे च नेत्ररोगे रसाञ्जने ।लौहकांस्ये मृदङ्गारशकट्यां रत्नकङ्कणे ॥ ३५१६ ॥
37.3516 · p. 261
अनुष्टुप्
पुष्पिका स्याद्दन्तमले जिह्वाशिश्नोर्मलेषु च ।पुष्पकालो वसन्तेऽप्यार्त्तवस्य समयेऽपि च ॥ ३५१७ ॥
37.3517 · p. 261
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्द (wrong syllable)
पुष्पकेतुः पुमान्कामे तथा पुष्पाञ्जनेऽपि च ।पुष्पजं क्ली परागेऽथ पुंसि पुष्परसे मतः ॥ ३५१८ ॥
37.3518 · p. 261
अनुष्टुप्
पुष्पजा तु स्त्रियां विन्ध्यसमुद्भूते सरिद्भिदि ।पुष्पदन्तस्तु ना वायुदिग्गजे विष्णुघोटके ॥ ३५१९ ॥
37.3519 · p. 261
अनुष्टुप्
शिवे नागान्तरे शूद्रजेऽथाद्रौ नवमार्हति ।विद्याधरान्तरे पुष्पदन्तौ तु शशिसूर्ययोः ॥ ३५२० ॥
37.3520 · p. 261
अनुष्टुप्
पुष्पदन्ती राक्षसीभिद्यथ क्ली गोपुरान्तरे ।पुष्पदामप्रसूनानां माल्ये छन्दोन्तरेऽपि च ॥ ३५२१ ॥
37.3521 · p. 261
अनुष्टुप्
क्लीबं पुष्पफलं द्वन्द्वे कपित्थे तु पुमान्मतः ।कपित्थेऽपि च कूष्माण्डे पुमान्पुष्पफलो मतः ॥ ३५२२ ॥
37.3522 · p. 261
अनुष्टुप्
पुष्पभद्रो वास्तुभेदे द्वाषष्टिस्तम्भभूषिते ।पुष्पभद्रा नदीभेदे क्लीबं तु नगरान्तरे ॥ ३५२३ ॥
37.3523 · p. 261
अनुष्टुप्
अथ पुष्परजः क्लीबं परागे कुङ्कुमेपि च ।पुष्पवत्त्रिः सकुसुमे स्त्री तु पुष्पवती मता ॥ ३५२४ ॥
37.3524 · p. 261
अनुष्टुप्
रजस्वलायां नृ द्वे तु रवीन्द्वोः पुष्पवन्तवत् ।वृषस्यन्त्यां गवादौ च [मता पुष्पवती स्त्रियाम् ] ॥ ३५२५ ॥
37.3525 · p. 261
अनुष्टुप्
पुष्पसारा तुलस्यां स्त्री पुष्पसारो मरन्दके ।पुष्पहासर्तुमत्यां स्त्री पुष्पहासः पुमान्हरौ ॥ ३५२६ ॥
37.3526 · p. 261
अनुष्टुप्
पुष्पहीना तु वृद्धायामुदुम्बरतरावपि ।पुष्पाढ्यस्तु स्वयं शीर्णपुष्पमूलफलाशने ॥ ३५२७ ॥
37.3527 · p. 261
अनुष्टुप्
व्रतिभेदे त्रिषु पुनः पुष्पैराढ्ये प्रकीर्त्तितः ।पुष्पाभिकीर्णकस्तु द्वे स्याद्दर्वीकरसंज्ञिनाम् ॥ ३५२८ ॥
37.3528 · p. 261
अनुष्टुप्

पुष्पितं-पूतरः

पुष्पितं त्रिर्विकसिते सपुष्पे मृत्युगन्धिनि ।पुष्पिता ऋतुमत्यां स्यात्पुमान्बुद्धान्तरे मतः ॥ ३५२९ ॥
37.3529 · p. 262
अनुष्टुप्
भुजङ्गमानां भेदे च वैकरञ्जाभिधावताम् ।पुष्यस्तु ना कलियुगे पौषे बुद्धान्तरे तथा ॥ ३५३० ॥
37.3530 · p. 262
अनुष्टुप्
नक्षत्रे तिष्यसिद्ध्यादिनामभिर्विश्रुते मतः ।तद्युक्ते कालसामान्ये त्रिस्तु तत्र भवेऽथ च ॥ ३५३१ ॥
37.3531 · p. 262
अनुष्टुप्
पुष्टावप्युत्तमफले क्ली कूष्माण्डफलेपि च ।वैरूपाष्टकवर्गस्य साम्नि चैवान्तिमे स्मृतम् ॥ ३५३२ ॥
37.3532 · p. 262
अनुष्टुप्
पुष्या तु वृक्षभेदेपि तिष्यऋक्षेपि च क्वचित् ।पुस्तोऽस्त्रियां मतो लेख्ये क्ली तु लेप्यादिकर्मणि ॥ ३५३३ ॥
37.3533 · p. 262
अनुष्टुप्
पुस्ताऽपि कस्यचिल्लेख्येऽथ पुस्तं छादिते त्रिषु ।पुस्तकोऽस्त्री मतो लेप्ये ग्रन्थे तु त्रिषु पुस्तिका ॥ ३५३४ ॥
37.3534 · p. 262
अनुष्टुप्
पूरुत्तरस्थः पानस्य शुद्धेः कर्तरि च त्रिषु ।पूग्यक्ली क्रमुके क्ली तत्फले ना त्वद्रिवृन्दयोः ॥ ३५३५ ॥
37.3535 · p. 262
अनुष्टुप्
फलसारे च पूगी तु स्त्री मलप्वां सरिद्भिदि ।पूजितः पूजनीये त्रिर्देवे पुंसि प्रकीर्त्तितः ॥ ३५३६ ॥
37.3536 · p. 262
अनुष्टुप्
पूज्यः पुमान्स्याच्छ्वशुरे पूजनीये त्रिषु स्मृतः ।पूतं त्रिषु पवित्रे च शटिते बहुलीकृते ॥ ३५३७ ॥
37.3537 · p. 262
अनुष्टुप्
पूतः शङ्खे श्वेतकुशे [पूतौ द्वित्वे नितम्बयोः] ।पूतद्रुः खदिरे देवदारुण्यपि पुमान्मतः ॥ ३५३८ ॥
37.3538 · p. 262
अनुष्टुप्
पूतना तु हरीतक्यां दानवीरोगभेदयोः ।रवेरंशुचतुःशत्या वृष्टिदात्र्याः शते क्वचित् ॥ ३५३९ ॥
37.3539 · p. 262
अनुष्टुप्
पूतनस्तु द्वयोः प्रेतभेदेऽपि परिकीर्त्तितः ।पूतरस्त्वधमे त्रिः स्याद्यादोभेदे द्वयोर्मतः ॥ ३५४० ॥
37.3540 · p. 262
अनुष्टुप्

पूतिः-पूरिका

पूतिर्दुःखे च दुर्गन्धे तृणजात्यन्तरे पुमान् ।पवनाख्यक्रियायां स्त्री दुर्गन्धवति तु त्रिषु ॥ ३५४१ ॥
37.3541 · p. 263
अनुष्टुप्
पूतिकस्तृणभेदे यः सोमभेदे प्रयुज्यते ।स्यात्पूतिकरजे कर्णरुजायां पूतिकर्णकः ॥ ३५४२ ॥
37.3542 · p. 263
अनुष्टुप्
पूतिकाष्ठं तु सरले देवदारुणि चापि नप् ।पूतिगन्धो गन्धकेऽपि नेङ्गुदीवृक्षमात्रके ॥ ३५४३ ॥
37.3543 · p. 263
अनुष्टुप्
पूतिपुष्पी मातुलुङ्ग्यां योगार्थे तु त्रिषु स्मृता ।स्त्री तु पूतिफली सोमराज्यां विस्रफले त्रिषु ॥ ३५४४ ॥
37.3544 · p. 263
अनुष्टुप्
पूतीकः पूतिकार्थेपि दुर्गन्धे तु त्रिषु स्मृतः ।पूतीकोपोदिकायाञ्च स्त्री पिपीलकभिद्यपि ॥ ३५४५ ॥
37.3545 · p. 263
अनुष्टुप्
नपुंसकन्तु पूतीकं पुरीषे परिकीर्त्तितम् ।पूत्कारः पूत्कृतौ पुंसि पूत्कारी तु स्त्रियां मता ॥ ३५४६ ॥
37.3546 · p. 263
अनुष्टुप्