कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

न (2/2)

व्रते च निश्चये चैव पुँल्लिङ्गः परिकीर्त्तितः ।नियामकः कर्णधारे पोतवाहे पुमान्मतः ॥ २९६८ ॥
36.2968 · p. 219
अनुष्टुप्
भेद्यलिङ्गस्तु नियमकर्त्तर्येष प्रकीर्त्तितः ।नियुतं लक्षदशकेऽप्युशीरे लक्ष एव च ॥ २९६९ ॥
36.2969 · p. 219
अनुष्टुप्
निर्निषेधे निर्णये च बहिर्भावेपि चाव्ययम् ।निरञ्जना पूर्णिमायां विष्णोर्नवसु शक्तिषु ॥ २९७० ॥
36.2970 · p. 219
अनुष्टुप्

निरसनम्-निर्भर्त्सनं

एकस्यां कृष्णसारे तु द्वयोस्त्रिर्निर्गताऽञ्जने ।निष्ठीवने प्रतिक्षेपे वधे निरसनम्मतम् ॥ २९७१ ॥
36.2971 · p. 220
अनुष्टुप्
निरस्तः क्षिप्तबाणेऽपि वचने च द्रुतोदिते ।निराकृते च निट्यूते तथा प्रतिहते त्रिषु ॥ २९७२ ॥
36.2972 · p. 220
अनुष्टुप्
निराकृतिर्निषेधास्वाध्यायानाकृतिषु त्रिषु ।निरामयस्तु पुंसि स्यादिडिक्के त्रिषु नीरुजि ॥ २९७३ ॥
36.2973 · p. 220
अनुष्टुप्
पदभञ्जनशास्त्रे क्ली निरुक्तं स्यात्त्रिषु त्वदः ।कृतनिर्वचने शब्दे यातुमन्त्रेऽभिधीयते ॥ २९७४ ॥
36.2974 · p. 220
अनुष्टुप्
इन्द्रादिर्देवता तस्यामुक्तायां स्यात्स्वसंज्ञया ।तद्देवताके च तथा स्यात्प्रातःसवनादिके ॥ २९७५ ॥
36.2975 · p. 220
अनुष्टुप्
निरुधा तु दिशि स्त्री स्यात्त्रिस्तु पुण्यक्रमे स्मृता ।निरूपणं नपुंस्यालोकविचारनिदर्शने ॥ २९७६ ॥
36.2976 · p. 220
अनुष्टुप्
निरूहो बस्तिभेदे ना त्र्यूहशून्ये च निश्चिते ।निर्ऋतिस्तु स्त्र्यलक्ष्म्यां त्रिरगतौ निर्गमे पुमान् ॥ २९७७ ॥
36.2977 · p. 220
अनुष्टुप्
निरोधः पुंसि रोधे स्यात्तथा संक्षयनाशयोः ।निर्गुण्डी नीलशेफाल्यां सिन्दुवारेऽपि च स्त्रियाम् ॥ २९७८ ॥
36.2978 · p. 220
अनुष्टुप्
निर्ग्रन्थो नग्नकेऽपि स्यान्निःस्ववालिशयोरपि ।निर्ग्रन्थः स्यात्क्षपणके दरिद्रे ग्रन्थवर्जिते ॥ २९७९ ॥
36.2979 · p. 220
अनुष्टुप्
निर्ग्रन्थकः स्यात्क्षपणे निष्फलेऽप्यपरिच्छदे ।निर्जरा तु गुरूच्यां स्त्री द्वे देवे त्रि जरोज्झिते ॥ २९८० ॥
36.2980 · p. 220
अनुष्टुप्
निर्दटः परदोषोक्तिपरे निष्ठुरभाषिणि ।निर्दटो निर्दये व्यर्थे स्यात्त्रिष्वन्यापवादिनि ॥ २९८१ ॥
36.2981 · p. 220
अनुष्टुप्
निर्दरं निर्झरे सारेऽन्यवत्तु कठिनेऽत्रपे ।निर्देशो देशहीने त्रिः पुमांस्तु कथनाज्ञयोः ॥ २९८२ ॥
36.2982 · p. 220
अनुष्टुप्
निर्नरस्तु सहस्रांशोस्तुरङ्गे तुषपावके ।निर्भर्त्सनं खलीकारेऽलक्तकेऽपि नपुंसकम् ॥ २९८३ ॥
36.2983 · p. 220
अनुष्टुप्

निर्मलं-निवर्त्तनं

निर्मलं विमले त्रि स्यान्निर्माल्याभ्रकयोस्तु नप् ।निर्माणं निर्मितौ सारे तथा क्लीबं समञ्जसे ॥ २९८४ ॥
36.2984 · p. 221
अनुष्टुप्
निर्माल्यं तूपयुक्ते क्ली माल्ये निर्माल्यवर्जिते ।निर्मुक्तस्त्रिस्त्यक्तसङ्गमुक्तकञ्चुकसर्पयोः ॥ २९८५ ॥
36.2985 · p. 221
अनुष्टुप्
निर्मोको मोचने व्योम्नि संनाहे सर्पकञ्चुके ।निर्याणं करिणोपाङ्गे मृत्यौ मोक्षेऽध्वनिर्गमे ॥ २९८६ ॥
36.2986 · p. 221
अनुष्टुप्
निर्यातनश्च निर्यातना प्रतीकारमात्रके ।न्यासप्रत्यर्पणे याने वैरशुद्धौ तथा भवेत् ॥ २९८७ ॥
36.2987 · p. 221
अनुष्टुप्
निर्यामः कर्णधारे ना यामहीने तु भेद्यवत् ।निर्यूहो नागदन्तद्वाःक्वाथनिर्यासशेखरे ॥ २९८८ ॥
36.2988 · p. 221
अनुष्टुप्
निर्लञ्जा तु स्त्रियां यान्यन्नियुक्ता देवरे व्रजेत् ।लञ्जाहीने तु निर्लज्जस्त्रिलिङ्गः परिकीर्त्तितः ॥ २९८९ ॥
36.2989 · p. 221
अनुष्टुप्
निर्लेपन्त्वम्बुजे क्लीबं लेपहीने तु वाच्यवत् ।निर्वाणं निर्वृतौ मोक्षे नाशे च गजमज्जने ॥ २९९० ॥
36.2990 · p. 221
अनुष्टुप्
सङ्गमे त्रिस्तु शान्तादौ मुनिवह्निगजादिके ।निर्वादः परिवादे ना वादहीने तु भेद्यवत् ॥ २९९१ ॥
36.2991 · p. 221
अनुष्टुप्
निर्वापणा स्यात्तापशमनायां वधे न ना ।निर्वासना न नाघाते नगरादिबहिष्कृतौ ॥ २९९२ ॥
36.2992 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 णा (syllables merged)
निर्वृतिः सुस्थितावस्तगमने च सुखे स्त्रियाम् ।निर्वेदस्तु पुमान्स्वेदे वेदहीने तु वाच्यवत् ॥ २९९३ ॥
36.2993 · p. 221
अनुष्टुप्
निर्वेशस्तु पुमान्भोगे वेतने मूर्च्छनेऽपि च ।क्ली तु निर्व्यथनं रन्ध्रे निर्व्यथे तु त्रिषु स्मृतम् ॥ २९९४ ॥
36.2994 · p. 221
अनुष्टुप्
निर्हृतौ मुष्टिमान्द्ये च बन्धुनिर्हरणम्मतम् ।निलयस्तु गृहे पुंसि तथा निलयने स्मृतः ॥ २९९५ ॥
36.2995 · p. 221
अनुष्टुप्
निलिम्पस्तु द्वयोर्देवे निलिम्पा तु स्त्रियां गवि ।निवर्त्तनं निवृत्तौ च रज्जूनां त्रितयेऽपि च ॥ २९९६ ॥
36.2996 · p. 221
अनुष्टुप्

निवसनं-निष्कः

अष्टहस्तमितानां स्यान्नतु ना ण्यन्ततः कृतौ ।वसनक्रिययोर्वस्त्रे गृहे निवसनम्मतम् ॥ २९९७ ॥
36.2997 · p. 222
अनुष्टुप्
निवहस्तु समूहे च वायुस्कन्धान्तरे पुमान् ।निवातो दृढसंनाहे वातशून्येऽपि चाश्रये ॥ २९९८ ॥
36.2998 · p. 222
अनुष्टुप्
न ना निशमना प्रोक्ता दर्शने श्रवणेऽपि च ।निशा दारुहरिद्रायां स्त्री त्रियामाहरिद्रयोः ॥ २९९९ ॥
36.2999 · p. 222
अनुष्टुप्
निशाचरः पुंस्युलूके सृगाले सर्परक्षसोः ।निशाचरी पांसुलायां शिवाख्ये जम्बुकान्तरे ॥ ३००० ॥
36.3000 · p. 222
अनुष्टुप्
निशाचरो रात्रिचरमात्रे स्यादभिधेयवत् ।निशान्तं क्ली गृहे शान्ते त्रि रात्र्यन्ते तदस्त्रियाम् ॥ ३००१ ॥
36.3001 · p. 222
अनुष्टुप्
निशीथस्त्वर्धरात्रेऽपि प्रदोषे रात्रिमात्रके ।निश्चारकस्तु पुँल्लिङ्गः पुरीषोत्सर्जिमारुते ॥ ३००२ ॥
36.3002 · p. 222
अनुष्टुप्
निर्गन्तरि तु निश्चारकोऽयं स्यादभिधेयवत् ।निःश्रोणिरधिरोहिण्यां स्त्री खर्जूरीद्रुमेपि च ॥ ३००३ ॥
36.3003 · p. 222
अनुष्टुप्
निःश्रेयसं तु कल्याणमोक्षयोः शकटे तु ना ।निषङ्गः पुंसि सङ्गेपि तूणीरेऽपि प्रकीर्त्तितः ॥ ३००४ ॥
36.3004 · p. 222
अनुष्टुप्
निषङ्गधिस्तु पुँल्लिङ्गो रुद्रेऽपि च धनुर्धरे ।निषद्वरः पुमान्पङ्के वह्नाविन्द्रे च मन्मथे ॥ ३००५ ॥
36.3005 · p. 222
अनुष्टुप्
निषद्वरी तु स्त्री प्रोक्ता प्रभायां रजनावपि ।निषधो दक्षिणे मेरोः पुमान्स्यात्कुलपर्वते ॥ ३००६ ॥
36.3006 · p. 222
अनुष्टुप्
देशभेदे च तद्राजे कठिने तु त्रिषु स्मृतः ।निषादो द्वे पारशवे विप्रोढावृषलीसुते ॥ ३००७ ॥
36.3007 · p. 222
अनुष्टुप्
चण्डालेऽपि पुमांस्तु स्यादयं गीतिस्वरान्तरे ।निषेधः प्रतिषेधेऽपि पुँल्लिङ्गः परिकीर्त्तितः ॥ ३००८ ॥
36.3008 · p. 222
अनुष्टुप्
प्रसोमदेववर्गस्य पञ्चमे साम्नि च स्मृतः ।निष्कोऽस्त्री हेम्नि दीनारे साष्टकर्षशते पले ॥ ३००९ ॥
36.3009 · p. 222
अनुष्टुप्

निष्काः-निस्सरणम्

वक्षोभूषान्तरे कर्षे फले हेम्नो रहस्यपि ।निष्कस्तु निर्गताद्येषु त्रिलिङ्गः परिकीर्त्तितः ॥ ३०१० ॥
36.3010 · p. 223
अनुष्टुप्
निष्कलाऽतीतार्त्तवायामवीर्ये त्वकले त्रिषु ।निष्कासितो निर्गमितेऽप्याहितेऽधिकृते त्रिषु ॥ ३०११ ॥
36.3011 · p. 223
अनुष्टुप्
निष्कुटो ना गृहारामे स्यात्केदारकवाटयोः ।अथैलायां निष्कुटीति स्त्रीलिङ्गे परिकीर्त्तिता ॥ ३०१२ ॥
36.3012 · p. 223
अनुष्टुप्
निष्कोशो ना हस्तिकुक्षिमध्ये कोशोज्झिते त्रिषु ।निष्क्रयो बुद्धिसम्पत्तौ निर्गमे दुष्कुलेऽपि च ॥ ३०१३ ॥
36.3013 · p. 223
अनुष्टुप्
द्वे निष्ट्योऽन्ध्रीशबरजे निष्ट्या स्वात्यां स्त्रियां मता ।निष्ठोत्कर्षेप्यवस्थायां नाशेऽन्ते च व्रते तथा ॥ ३०१४ ॥
36.3014 · p. 223
अनुष्टुप्
क्लेशे निर्वहणे चैव क्तक्तवत्वोरपि स्त्रियाम् ।निष्पत्तावपि याञ्चायां परमायां गतावपि ॥ ३०१५ ॥
36.3015 · p. 223
अनुष्टुप्
निष्ठुरं तु कठोरे त्रिः परुषाक्षरवाच्यपि ।स्त्रियां तु निष्ठुरा मुद्राविशेषे हस्तनिर्मिते ॥ ३०१६ ॥
36.3016 · p. 223
अनुष्टुप्
निष्पावः शूर्पपवने राजमाषे कडङ्गके ।पवने शिम्बिकायां ना निर्विकल्पेऽन्यलिङ्गकः ॥ ३०१७ ॥
36.3017 · p. 223
अनुष्टुप्
निस् निषेधे च साकल्येऽतीतार्थे निश्चयेऽव्ययम् ।निसर्गः सर्जने न्यासे स्वभावे निर्गमेऽपि च ॥ ३०१८ ॥
36.3018 · p. 223
अनुष्टुप्
निसृष्टञ्जनिते न्यस्ते वाच्यवत्परिकीर्त्तितम् ।निसृष्टा तु स्त्रियां व्यङ्गकथायामियमिष्यते ॥ ३०१९ ॥
36.3019 · p. 223
अनुष्टुप्
निस्तारे स्यान्निस्तरणमुपाये तरणेऽपि च ।निस्तलं वर्त्तुलेऽप्येवं स्याच्चलेऽपि च वाच्यवत् ॥ ३०२० ॥
36.3020 · p. 223
अनुष्टुप्
निस्तारः पुंसि तूणीरे हिमानिलनिवारणे ।प्रावारभेदे तरणेऽप्युपायेऽपि प्रकीर्त्तितः ॥ ३०२१ ॥
36.3021 · p. 223
अनुष्टुप्
त्रिषु निस्तुषितं त्यक्ते चाग्निहीने लघूकृते ।निस्त्रिंशस्तु त्रिषु क्रूरे खड्गे पुँल्लिङ्ग इष्यते ॥ ३०२२ ॥
36.3022 · p. 223
अनुष्टुप्
निसङ्गा त्वतिमुक्ते स्त्री त्रिषु स्यात्सङ्गवर्जिते ।क्लीबं निस्सरणन्द्वारे मरणे भयनिर्गतौ ॥ ३०२३ ॥
36.3023 · p. 223
अनुष्टुप्

निस्स्रावः-नीलवासाः

उपाये निर्गमे याने मुखे पुरगृहादिनः ।निस्स्रावो भक्तमण्डेऽपि स्यान्निः स्रावणकर्मणि ॥ ३०२४ ॥
36.3024 · p. 224
अनुष्टुप्
निहतस्त्रि हते नीचस्वरयुक्ते तथाऽक्षरे ।निह्नवस्त्वपलापे स्याद्विश्वासे निकृतावपि ॥ ३०२५ ॥
36.3025 · p. 224
अनुष्टुप्
यादवस्तु सुविश्वासे नमस्कारेऽपि साञ्जलौ ।नीको द्वे ज्ञातिखगयोर्नीका कुल्यार्थिका स्त्रियाम् ॥ ३०२६ ॥
36.3026 · p. 224
अनुष्टुप्
नीकाशो निश्चये पुंसि तुल्ये स्यादभिधेयवत् ।नीचः पुमान् शनौ नीचैःस्वरे नीचस्तु तद्वति ॥ ३०२७ ॥
36.3027 · p. 224
अनुष्टुप्
वामने च निकृष्टे च वाच्यवत्परिकीर्त्तितः ।नीडमस्त्री कुलाये च निलये च प्रकीर्त्तितम् ॥ ३०२८ ॥
36.3028 · p. 224
अनुष्टुप्
नीतं क्ली नवनीताऽन्नधनेषु त्रि तु यौगिके ।नीतिः स्त्रियां नयेऽप्येवम्प्रापणेऽपि स्त्रियाम्मता ॥ ३०२९ ॥
36.3029 · p. 224
अनुष्टुप्
नीथो विप्रे द्वयोर्धर्मशीले त्रिर्ना नृपान्तरे ।नीपकेऽथ च नीथा स्त्री नीतौ क्ली गीतभिद्यपि ॥ ३०३० ॥
36.3030 · p. 224
अनुष्टुप्
नीपः कदम्बबन्धूकनीलाऽशोकद्रुमेषु ना ।नीरजं कमले कुष्ठे नीरजः कृष्ण इष्यते ॥ ३०३१ ॥
36.3031 · p. 224
अनुष्टुप्
नीलस्तु निधिभेदे ना गिरिभित्कपिभेदयोः ।कार्ष्ण्यशौक्ल्याख्यगुणयोस्त्रि तु तद्वति तत्र च ॥ ३०३२ ॥
36.3032 · p. 224
अनुष्टुप्
स्त्र्यर्थे नीलैव वस्त्रे स्यात्संज्ञायान्तु द्वयम्भवेत् ।नीला नीली च नील्येव प्राणिन्येषा प्रकीर्त्तिता ॥ ३०३३ ॥
36.3033 · p. 224
अनुष्टुप्
नीलको नीलितर्येष वाच्यवत्परिकीर्त्तितः ।नीलकण्ठो मयूरे द्वे मूलके तु शिवे च ना ॥ ३०३४ ॥
36.3034 · p. 224
अनुष्टुप्
नीलकेशी स्त्रियां नील्यां त्रिस्तु कृष्णशिरोरुहे ।नीलगुः स्यात्कृमौ पुंसि भम्भराल्यान्तु सा स्त्रियाम् ॥ ३०३५ ॥
36.3035 · p. 224
अनुष्टुप्
नीलग्रीवः शिवे पुंसि त्रिस्तु नीलशिरोधरे ।नीलवासाः शनौ चापि बलदेवे पुमान्मतः ॥ ३०३६ ॥
36.3036 · p. 224
अनुष्टुप्

नीलशीर्षः-नेत्वं

नीलशीर्षः पुमान्गोलाङ्गूले त्रिः कृष्णमस्तके ।नीलाञ्जसाऽप्सरोभेदे नदीभेदे च विद्युति ॥ ३०३७ ॥
36.3037 · p. 225
अनुष्टुप्
नीलाम्बरो राक्षसे च बलदेवे शनैश्चरे ।नीलिका नीलिनीक्षुद्रारोगशेफालिकास्वियम् ॥ ३०३८ ॥
36.3038 · p. 225
अनुष्टुप्
नीलिका लोहभेदे स्त्री स्यात्सिंहमलनामनि ।नीली स्त्र्योषधिभेदे स्यात्काल्याख्ये च रुजान्तरे ॥ ३०३९ ॥
36.3039 · p. 225
अनुष्टुप्
नीवरो वणिजे पुंसि वास्तव्ये च प्रकीर्त्तितः ।नीवलस्तु द्वयोमर्त्त्यजातिभेदे प्रकीर्त्तितः ॥ ३०४० ॥
36.3040 · p. 225
अनुष्टुप्
वैदेहीशूद्रजे किञ्च पुण्ड्रवत्तुरगान्तरे ।नीवी तु कवचे शस्त्रे वणिङ्मूलधने स्त्रियाम् ॥ ३०४१ ॥
36.3041 · p. 225
अनुष्टुप्
स्त्रीकटीवसनग्रन्थावपि नीविवदिष्यते ।नीव्रं नेमौ वलीकेन्द्वोरेवतीभेऽपि कानने ॥ ३०४२ ॥
36.3042 · p. 225
अनुष्टुप्
नीहारस्तु तुषारेऽपि शकृदुत्सर्ग एव च ।नूतनं त्रिष्वभिनवे स्त्रीभूमनि तु नूतनाः ॥ ३०४३ ॥
36.3043 · p. 225
अनुष्टुप्
सूर्यवृष्टिचतुःशत्या वृष्टिदायाः शते क्वचित् ।नूधा अनूधाः सान्तौ द्वौ सूतमागधयोरनप् ॥ ३०४४ ॥
36.3044 · p. 225
अनुष्टुप्
नूनन्तु निश्चिते तर्के स्मरणे वाक्यपूरणे ।ना द्वे हरे हये मर्त्येऽथ नारी योषिति स्त्रियाम् ॥ ३०४५ ॥
36.3045 · p. 225
अनुष्टुप्
नृपयज्ञस्तु संग्रामे राजसूयादिकेष्वपि ।नृपलक्ष्म नृपच्छत्रे नृपाङ्के च नपुंसकम् ॥ ३०४६ ॥
36.3046 · p. 225
अनुष्टुप्
नृपात्मजः स्यात्कूष्माण्डे कटुतुम्ब्यां नृपात्मजा ।नृपार्हन्त्वगुरौ क्लीबं स्याद्राजार्हे पुनस्त्रिषु ॥ ३०४७ ॥
36.3047 · p. 225
अनुष्टुप्
नृभुः प्लवे प्रतिकृतौ तथा दीर्घक्रिमौ स्त्रियाम् ।नेत् विकल्पे निषेधे चाऽव्ययमेतत्प्रकीर्त्तितम् ॥ ३०४८ ॥
36.3048 · p. 225
अनुष्टुप्
नेता भव्यतरौ पुंसि तत्फले क्लीबमिष्यते ।नीतिक्रियाकर्त्तरि तु सारथौ च प्रभौ त्रिषु ॥ ३०४९ ॥
36.3049 · p. 225
अनुष्टुप्
नेत्रोऽस्त्री वस्त्रदृङनाडीद्रुमूलेषु मथोगुणे ।नेत्वं द्यावापृथिव्याश्च पुमांस्तु शशलाञ्छने ॥ ३०५० ॥
36.3050 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

नेपः-न्युक्षः

नेपः पुरोहिते वृक्षे नयेनाभृतके त्रिषु ।नेपथ्यं स्यादलङ्कारे रङ्गभूमौ नपुंसकम् ॥ ३०५१ ॥
36.3051 · p. 226
अनुष्टुप्
नेपालस्त्विक्षुभिद्रक्षोभिदोर्देशे नृमूर्धनि ।नेपालकुनटीरास्नानवमालीष्वियं स्त्रियाम् ॥ ३०५२ ॥
36.3052 · p. 226
अनुष्टुप्
नेपालन्तिलचूर्णे च पङ्के मांसे च पक्षले ।नेमः पुरोहिते वज्रेऽर्धेऽन्ने ना खे नपुंसकम् ॥ ३०५३ ॥
36.3053 · p. 226
अनुष्टुप्
सदृशे तु समीपे च भवेन्नेमोऽभिधेयवत् ।नेमिस्तिनिशवृक्षे च भित्तिमूले तथा स्त्रियाम् ॥ ३०५४ ॥
36.3054 · p. 226
अनुष्टुप्
चक्रप्रान्ते च कूपे च तथा तन्मुखबन्धने ।पीताहाख्ये परिच्छेदे वज्रे च परिकीर्त्तिता ॥ ३०५५ ॥
36.3055 · p. 226
अनुष्टुप्
नैगमस्तूपनिषदि पुमानुक्तो दृतावपि ।वणिङ्नागरयोस्तु त्रिस्तथा निगमयोगिनि ॥ ३०५६ ॥
36.3056 · p. 226
अनुष्टुप्
नैचिकी गोशिरोदेशे श्रेष्ठायाञ्च गवि स्त्रियाम् ।नैर्ऋतो राक्षसे द्वे स्यात्त्रि स्यान्निर्ऋतियोगिनि ॥ ३०५७ ॥
36.3057 · p. 226
अनुष्टुप्
नैषधं हरिवर्णे स्यान्निषधाद्रेर्यदुत्तरम् ।वाच्यवन्नैषधः प्रोक्तस्तथा निषधयोगिनि ॥ ३०५८ ॥
36.3058 · p. 226
अनुष्टुप्
नौ स्त्रियां वाचि काले च तर्यामपि मता स्त्रियाम् ।न्यंशुको रणरेणौ प्रावरणे वेणुचन्द्रयोः ॥ ३०५९ ॥
36.3059 · p. 226
अनुष्टुप्
प्रवासशीले तु मतो न्यंशुकः सोऽभिधेयवत् ।न्यक्षं कृत्स्ने निकृष्टे च वाच्यवत्परिकीर्त्तितम् ॥ ३०६० ॥
36.3060 · p. 226
अनुष्टुप्
न्यग्रोधो ना शमीवृक्षे व्याममाने वटद्रुमे ।फले त्वस्य लुकोभावान्नैयग्रोधामिति स्मृतम् ॥ ३०६१ ॥
36.3061 · p. 226
अनुष्टुप्
न्यग्रोधी तु स्त्रियां स्तम्बे द्रवन्तीसंज्ञके मता ।न्यङ् निरस्तेऽपि नीचेऽपि वाच्यवत्परिकीर्त्तितम् ॥ ३०६२ ॥
36.3062 · p. 226
अनुष्टुप्
न्यङ्कुर्गुरुकुलेवासि शिष्ये मुन्यन्तरे पुमान् ।मृगभेदे पुनर्न्यङ्कुर्द्वयोरयमुदीरितः ॥ ३०६३ ॥
36.3063 · p. 226
अनुष्टुप्
न्यस्तकस्त्वस्त्रियामर्थनिक्षेपे निहिते त्रिषु ।न्युक्षस्त्रि नीचे क्ली कार्त्स्न्ये तृणेऽथ महिषे द्वयोः ॥ ३०६४ ॥
36.3064 · p. 226
अनुष्टुप्

न्युङ्खः-पङ्क्तिः

न्युङ्खः सम्यङ्मनोज्ञे च साम्नः षट्प्रवणेषु च ।न्युब्जो व्याधौ कर्मरङ्गद्रुमे दर्भमये स्रुचि ॥ ३०६५ ॥
36.3065 · p. 227
अनुष्टुप्
कर्मरङ्गफले क्लीबं कुब्जाऽधोमुखयोस्त्रिषु ।न्यूङ्खः साम्नः षडोङ्कारेष्वथ त्रिः सुन्दरे प्रिये ॥ ३०६६ ॥
36.3066 · p. 227
अनुष्टुप्
न्यूनमूने विगर्ह्ये च वाच्यवत्परिकीर्त्तितम् ॥ ३०६६-१/२ ॥
36.220 · p. 227