All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
फ
फो यज्ञसाधनं स्फानं झञ्झावाते च पुंस्ययम् ।फं रूक्षोक्तौ च फूत्कारे तथा निष्फल भाषणे ॥ ३७९४ ॥
38.3794 · p. 282
अनुष्टुप्
फक्किका तु स्त्रियामेकग्रन्थे गौरे च सर्षपे ।अथ फक्कितरि प्रोक्तः फक्ककश्चाभिधेयवत् ॥ ३७९५ ॥
38.3795 · p. 282
अनुष्टुप्
फटा तु स्त्री फणेऽपि स्यात्तथा दन्तेऽपि भोगिनाम् ।फर्फरीकश्च पेटे स्यात्फर्फरीकं तु मार्दवे ॥ ३७९६ ॥
38.3796 · p. 282
अनुष्टुप्
फलं फाले धने बीजे निष्पत्तौ भोगलाभयोः ।सस्ये हेतुकृते चर्मसंज्ञशस्त्रनिवारणे ॥ ३७९७ ॥
38.3797 · p. 282
अनुष्टुप्
शस्त्राणां च मुखे ना तु करमर्देऽथ सा फला ।कार्पास्यां लवलीराजकोशातक्योः स्त्रियामथ ॥ ३७९८ ॥
38.3798 · p. 282
अनुष्टुप्
कोशातक्यां फलिन्यां स्त्री ताम्रादिफलके फली ।मत्स्यभेदे त्वपि स्त्रीत्वे फलीत्येव प्रकीर्त्तिता ॥ ३७९९ ॥
38.3799 · p. 282
अनुष्टुप्
फलकं काष्ठकीटे खेटकाख्ये शस्त्रवारणे ।फलकी चित्रफल्याख्ये मत्स्यभेदे च चन्दने ॥ ३८०० ॥
38.3800 · p. 282
अनुष्टुप्
फलकस्तु क्षुमासंज्ञे धान्ये पुंसि प्रकीर्त्तितः ।फलकी चर्मपाणौ त्रिः स्त्र…यां फलकिन्यपि ॥ ३८०१ ॥
38.3801 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्वयोस्तु फलकीत्येष मत्स्यभेदे प्रकीर्त्तितः ।फलपाकान्ता तु तालीद्रुमे स्त्री प्रियवादिषु ॥ ३८०२ ॥
38.3802 · p. 282
अनुष्टुप्
मुद्गमाषतिलाद्येषु फलपाकविनाशिषु ।फलाशनः शुके द्वे स्यात्फलभक्षिणि तु त्रिषु ॥ ३८०३ ॥
38.3803 · p. 282
अनुष्टुप्
फलिन्यग्निशिखायां च कोशातक्यामपि स्त्रियाम् ।प्रियङ्गावपि च त्रिस्तु फली फलसमन्विते ॥ ३८०४ ॥
38.3804 · p. 282
अनुष्टुप्
फलेरुहः-बकः
फलेरुहस्तालवृक्षे पाटल्यां तु फलेरुहा ।फलोदयः पुमांल्लाभे स्वर्गेऽपि परिकीर्त्तितः ॥ ३८०५ ॥
38.3805 · p. 283
अनुष्टुप्
त्रिषु फल्गुरसारे स्त्री काकोदुम्बरिकातरौ ।काकोदुम्बरिकायां ना फल्गुस्त्रि त्वल्पमोघयोः ॥ ३८०६ ॥
38.3806 · p. 283
अनुष्टुप्
फल्गुनी भगदैवत्ये नक्षत्रे यमदैवते ।ताभ्यां युक्ते कालमात्रे जाते त्वत्र त्रि फल्गुनी ॥ ३८०७ ॥
38.3807 · p. 283
अनुष्टुप्
फल्गुनस्तु पुमानेव ज्ञेयो मध्यमपाण्डवे ।फाणिर्गुडे करम्बे च स्त्रीलिङ्गे परिकीर्त्तिता ॥ ३८०८ ॥
38.3808 · p. 283
अनुष्टुप्
फाणितं गौडविकृतिभेदेऽथ क्वाथिते त्रिषु ।फालो लाङ्गलकूटेऽपि श्वेताऽर्के दाडिमे पुमान् ॥ ३८०९ ॥
38.3809 · p. 283
अनुष्टुप्
निष्पत्तौ स्याद्विशरणे तक्कोले तु नपुंसकम् ।फलस्य तु विकारादौ फालं स्यादभिधेयवत् ॥ ३८१० ॥
38.3810 · p. 283
अनुष्टुप्
फालः पुंसि महादेवे कालिन्दीभेदेनेऽपि च ।क्लीबं सीरोपकरणे त्रिषु कार्पासवाससि ॥ ३८११ ॥
38.3811 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दे (wrong syllable)
फाल्गुनी पूर्णिमायां स्त्री कीर्त्तिता फल्गुनीयुजि ।फाल्गुनस्तद्युते मासि तथा मध्यमपाण्डवे ॥ ३८१२ ॥
38.3812 · p. 283
अनुष्टुप्
नदीजार्जुनवृक्षे च फाल्गुनं तु तृणान्तरे ।आश्चर्ये स्याद्विकसितेऽफुल्लं विशरणे नपि ।फेनिलोऽरिष्टवृक्षे ना त्रि सफेनेऽथ फेनिलम् ॥ ३८१३ ॥
38.3813 · p. 283
अनुष्टुप्
मदनस्य बदर्याश्चारिष्टस्य च फले स्मृतम् ।फेरवस्तु द्वयोरुक्तो जम्बुकेऽप्यस्रपे तथा ॥ ३८१४ ॥
38.3814 · p. 283
अनुष्टुप्