All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
ख
खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि ।संवेदने देवलोके नक्षत्रे छिद्रगेहयोः ॥ १६९५ ॥
18.1695 · p. 126
अनुष्टुप्
अभ्रके ब्रह्मणि क्ली स्यात्खा तु कूपे भवेत् स्त्रियाम् ।खकणीनी तु दुर्गायां चिल्लपक्षिस्त्रियामपि ॥ १६९६ ॥
18.1696 · p. 126
अनुष्टुप्
खगः पुंसि रवौ वायौ ग्रहे देवे शरे रणे ।चातके पक्षिमात्रे च द्वे त्रिर्व्योमादिगामिनि ॥ १६९७ ॥
18.1697 · p. 126
अनुष्टुप्
खगवक्त्रस्तु लकुचे खगाऽस्ये तु यथायथम् ।खगासनस्तु विष्णौ च तथा स्यादुदयाचले ॥ १६९८ ॥
18.1698 · p. 126
अनुष्टुप्
खगेन्द्रः-खट्वा
खगेन्द्रो गरुडे गृध्रे तथा राजान्तरे मतः ।खचरो ना रवौ मेघे वायौ स्याद्द्रूपकान्तरे ॥ १६९९ ॥
18.1699 · p. 127
अनुष्टुप्
द्वे तु विद्याधरे रक्षःपक्षिणोर्वेसरेऽपि च ।खचितं तु मणौ लोहविद्धे स्यादभिधेयवत् ॥ १७०० ॥
18.1700 · p. 127
अनुष्टुप्
तथा स्यादुद्धृतस्नेहे घृतहीने च दध्नि नप् ।खजस्तु मन्थने क्षोभे दर्वीमन्थानयोः पुनः ॥ १७०१ ॥
18.1701 · p. 127
अनुष्टुप्
खजस्तु पुंसि मन्थाने त्रिषु व्योमादि खाऽर्थजे ।खजकः स्याद्घृते चापि मन्थानेऽपि पुमानयम् ॥ १७०२ ॥
18.1702 · p. 127
अनुष्टुप्
खजकः खजिका चेति द्वयोः स्याद्रसपाचके ।खजा द्वे मरणे तु स्त्री करे च प्रसृताङ्गुलौ ॥ १७०३ ॥
18.1703 · p. 127
अनुष्टुप्
खजाको ना मन्थदण्डे द्वे खगे क्ली विहायसि ।शरीरे च खजाका तु स्त्री दर्व्यामसतीस्त्रियाम् ॥ १७०४ ॥
18.1704 · p. 127
अनुष्टुप्
खञ्जा छन्दःप्रभेदे स्त्री खञ्जः खञ्जी च विप्रतः ।अपत्येऽन्तावसायिन्याः खोडे त्रि लशुने तु ना ॥ १७०५ ॥
18.1705 · p. 127
अनुष्टुप्
खञ्जनम्पङ्गुगमने खञ्जरीटे पुनर्द्वयोः ।खञ्जनी खञ्जरीटे द्वे स्त्री सर्षप्याङ्गतौ तु नप् ॥ १७०६ ॥
18.1706 · p. 127
अनुष्टुप्
खञ्जरीटी गतिभिदि स्त्री द्वे खञ्जनपक्षिणि ।खटोऽन्धकूपकफयोः प्रहारान्तरटङ्कयोः ॥ १७०७ ॥
18.1707 · p. 127
अनुष्टुप्
हले छदिस्तृणे चापि स्यात्सुगन्धितृणान्तरे ।खटको घटके स्त्री तु कठिन्यां खटिका मता ॥ १७०८ ॥
18.1708 · p. 127
अनुष्टुप्
तृणभित्कर्णशष्कुल्योः खटिकाऽ(र्ध)मुद्रिते करे ।करे मुद्राविशेषे च द्वयोः स्यात्करनिर्मिते ॥ १७०९ ॥
18.1709 · p. 127
अनुष्टुप्
खटखादक एष द्वे काकजम्बुकजन्तुषु ।काचपात्रे पुमानेष घस्मरे तु मतस्त्रिषु ॥ १७१० ॥
18.1710 · p. 127
अनुष्टुप्
खटी तु खटिकाधातौ स्त्रियामेव प्रकीर्त्तिता ।खट्टिकः सैनिके द्वे ना महिषी क्षीरफेनके ॥ १७११ ॥
18.1711 · p. 127
अनुष्टुप्
खट्वा पर्यङ्क आचार्यासने दोलौषधीभिदोः ।आयुर्वेदप्रसिद्धे च व्रणबन्धनयन्त्रके ॥ १७१२ ॥
18.1712 · p. 127
अनुष्टुप्
खट्वाङ्गः-खण्डाभ्रम्
खट्वाङ्गोऽस्त्री वृक्षभेदे पृष्ठास्थनि चितेन्धने ।दिलीपनृपतौ पुंसि खट्वाङ्गी तु लतान्तरे ॥ १७१३ ॥
18.1713 · p. 128
अनुष्टुप्
खडस्तु खण्डने तक्रशाकेऽथाऽस्त्री तृणान्तरे ।खडकन्त्वर्गले क्लीबं कठिन्यां खडिका मता ॥ १७१४ ॥
18.1714 · p. 128
अनुष्टुप्
स्त्रियान्तु कठिनीधातौ खडीति परिकीर्त्तिता ।खडूः स्त्री मृतखट्वायां तथा स्याद्भूषणान्तरे ॥ १७१५ ॥
18.1715 · p. 128
अनुष्टुप्
खड्गो गण्डकशृङ्गासिबुद्धभेदशरेषु ना ।द्वे गण्डकमृगे यादोभेदे च मकराभिधे ॥ १७१६ ॥
18.1716 · p. 128
अनुष्टुप्
खड्गकोशः पिधानेऽसेः खड्गाधारोऽपि कथ्यते ।खड्गधेनुः स्त्रियामुक्ता छुरिका गण्डकस्त्रियोः ॥ १७१७ ॥
18.1717 · p. 128
अनुष्टुप्
खड्गारीटस्तु फलकाऽसिधाराव्रतधारिणोः ।खड्गारीटः खड्गफले तथा स्यात्खड्गनर्त्तके ॥ १७१८ ॥
18.1718 · p. 128
अनुष्टुप्
खड्गिको महिषीक्षीरफेनासिधरसैनिके ।खड्गी द्वे गण्डके मञ्जुघोषेऽथाऽसिधरे त्रिषु ॥ १७१९ ॥
18.1719 · p. 128
अनुष्टुप्
खण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः ।स्वादुपानान्तरे भेदे क्लीबन्तु लवणेऽब्धिजे ॥ १७२० ॥
18.1720 · p. 128
अनुष्टुप्
खण्डन्तु खण्डिते भेद्यलिङ्गमेतत्प्रकीर्त्तितम् ।अर्धे गुडविकारे च कश्चित्स्वादुद्रवेऽभ्यधात् ॥ १७२१ ॥
18.1721 · p. 128
अनुष्टुप्
खण्डको लास्यभेदे ना नखहीननरे द्वयोः ।खण्डधारा नृत्यभेदे कर्त्तर्याञ्च प्रकीर्त्तिता ॥ १७२२ ॥
18.1722 · p. 128
अनुष्टुप्
खण्डना कन्यकायां स्त्री स्फुटवैधव्यलक्ष्मणि ।शास्त्रोक्तेरविवाह्यायामपुम् खण्डयतेः कृतौ ॥ १७२३ ॥
18.1723 · p. 128
अनुष्टुप्
विसर्गे वञ्चने राजद्रोहादावपि सा मता ।ना खण्डपरशुः खण्डे परशौ च महेश्वरे ॥ १७२४ ॥
18.1724 · p. 128
अनुष्टुप्
खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि ।खण्डामलकराह्वोश्च भग्नदन्तगजे च ना ॥ १७२५ ॥
18.1725 · p. 128
अनुष्टुप्
अस्त्री तु खण्डलं खण्डे चीरवस्त्रे च कीर्त्तितम् ।खण्डाभ्रमभ्रलेशे स्यात्तथा दन्तक्षतान्तरे ॥ १७२६ ॥
18.1726 · p. 128
अनुष्टुप्
खण्डिकः-खरः
खण्डिकस्तु हरेण्वाख्ये कलायाख्ये च धान्यके ।भुजकक्षे गुडकृतिखण्डाध्येतर्यपीष्यते ॥ १७२७ ॥
18.1727 · p. 129
अनुष्टुप्
खण्डिका काष्ठखण्डे स्त्री कण्डिकायामपीष्यते ।खण्डिता तु स्त्रियां प्रावृड्रात्रौ शकलिते पुनः ॥ १७२८ ॥
18.1728 · p. 129
अनुष्टुप्
वाच्यलिङ्गो विरहिते तस्य वाक्ये च खण्डितः ।खण्डी खण्डवति त्रि स्याद्वनमुद्गे तु पुंस्ययम् ॥ १७२९ ॥
18.1729 · p. 129
अनुष्टुप्
तथा खण्डनकारे श्रीहर्षे भूमौ तु खण्डिनी ।खतमालो भवेत्पुंसि धूमे चापि बलाहके ॥ १७३० ॥
18.1730 · p. 129
अनुष्टुप्
खदतिर्भक्षणे स्थैर्ये हिंसायां च प्रकीर्त्तितः ।खदिरस्त्वृषिभेदे च गायत्रीतरुशक्रयोः ॥ १७३१ ॥
18.1731 · p. 129
अनुष्टुप्
द्वे तु वृश्चिकभेदेऽयन्दुश्चिकित्स्यविषे मतः ।स्त्रियां खदिरका लाक्षा गिरिभेदे पुमानयम् ॥ १७३२ ॥
18.1732 · p. 129
अनुष्टुप्
खदिरी स्त्री नमस्कारीसंज्ञे वल्ल्यन्तरेऽल्पके ।खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने ॥ १७३३ ॥
18.1733 · p. 129
अनुष्टुप्
शमीफला समाख्ये च जलशाकलतान्तरे ।खद्योतोऽर्केऽग्निकीटे तु खद्योताऽक्ष्ण्यदक्षिणे ॥ १७३४ ॥
18.1734 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
खनको मूषिके द्वे स्यान्मर्त्त्यजात्यन्तरे तथा ।राज्ञीमागधसम्भूते त्रि तु स्यादवदारके ॥ १७३५ ॥
18.1735 · p. 129
अनुष्टुप्
भूमिसंचितवित्तज्ञे सन्धिचौरे तथैव च ।खनिः खनति धातौ ना स्त्री गर्त्ते चाऽऽकरे निधौ ॥ १७३६ ॥
18.1736 · p. 129
अनुष्टुप्
क्लीबं खनित्रं कुद्दाले खनित्री तु तपस्विनाम् ।स्त्रियां विशाखिकासंज्ञे दण्डभेदे प्रकीर्त्तिता ॥ १७३७ ॥
18.1737 · p. 129
अनुष्टुप्
खपरस्तस्करे धूर्त्ते भिक्षाभाण्डकपालयोः ।खपुरो ना पूगवृक्षे पूगपट्टे घटे तरोः ॥ १७३८ ॥
18.1738 · p. 129
अनुष्टुप्
निर्यासे भद्रमुस्तेऽथ बालाख्ये गन्धवस्तुनि ।पुंनपुंसकयोरेतत्क्ली तु पूगफले स्मृतम् ॥ १७३९ ॥
18.1739 · p. 129
अनुष्टुप्
खरः शराख्यस्तम्बे ना ककुभाह्वयपादपे ।रक्षोभेदे दशास्यस्य प्रवीरे दण्डनायके ॥ १७४० ॥
18.1740 · p. 129
अनुष्टुप्
खरकुटी-खर्जुरः
हविर्धानाख्यदेशस्य पुरस्ताद्दक्षिणस्य या ।वितर्दिर्यज्ञभूमिष्ठा तस्यामुष्णगुणेऽपि च ॥ १७४१ ॥
18.1741 · p. 130
अनुष्टुप्
कठिनत्वे च कार्कश्ये रसभेदे च मिश्रणात् ।जाते रसानां तिक्ताम्लकषायलवणात्मनाम् ॥ १७४२ ॥
18.1742 · p. 130
अनुष्टुप्
त्रिस्त्वेषामुष्णतादीनां गुणानान्द्रव्य आश्रये ।एकैकस्य रसान्तानाञ्चतुर्णामपि मन्वते ॥ १७४३ ॥
18.1743 · p. 130
अनुष्टुप्
बार्हस्पत्ये पञ्चविंशे वर्षे स्याद्रासभे द्वयोः ।वेसरे कुररे दैत्ये बके काके खरः खरी ॥ १७४४ ॥
18.1744 · p. 130
अनुष्टुप्
शुष्कपूगफले तु क्ली देवताडे स्त्रियां खरा ।खरकुट्यपि शालायां वपनस्यापि यौगिके ॥ १७४५ ॥
18.1745 · p. 130
अनुष्टुप्
भवेत् खरगृहं रासभागारपटवेश्मनोः ।खरच्छदो यौगिके त्रिर्नोर्ध्वमूलाह्वये तृणे ॥ १७४६ ॥
18.1746 · p. 130
अनुष्टुप्
खरच्छदो भूमिसहे कुन्दरेऽपि कटे पुमान् ।स्त्रियां तु क्षुद्रघोल्याख्यलतायां स्यात् खरच्छदा ॥ १७४७ ॥
18.1747 · p. 130
अनुष्टुप्
द्वित्वे रक्षोभिदोरैक्ये धत्तूरे खरदूषणः ।खरपत्रो मरुवके वेणुभेदे कुशान्तरे ॥ १७४८ ॥
18.1748 · p. 130
अनुष्टुप्
खरपत्रा तुलस्याञ्च शाखोटे शाकपादपे ।क्लीबं खरमुखं शृङ्गवाद्ये त्रिषु तु यौगिके ॥ १७४९ ॥
18.1749 · p. 130
अनुष्टुप्
खराङ्गस्तु द्वयोर्भेके कर्कशाङ्गे तु भेद्यवत् ।ग्रामणीभण्डिनाराचेऽप्युपधाने खरालिकः ॥ १७५० ॥
18.1750 · p. 130
अनुष्टुप्
खरुर्हये स्मरे दर्पे नीतिभेदे रदे हरे ।द्वयोर्मनुष्ये दृप्ते तु श्वेते मूर्खे खरे त्रिषु ॥ १७५१ ॥
18.1751 · p. 130
अनुष्टुप्
कामुकेऽपि खरुस्तु स्त्री कन्यायां या पतिंवरा ।खर्जतिर्व्यथने चैव पूजने मार्जनेऽपि च ॥ १७५२ ॥
18.1752 · p. 130
अनुष्टुप्
खर्जनी यज्वनां कृष्णविषाणायां स्त्रियां मता ।खर्जनन्तु नपि ज्ञेयं क्रियायां खर्जतेरिदम् ॥ १७५३ ॥
18.1753 · p. 130
अनुष्टुप्
खर्जुः कण्ड्वाञ्च खर्जुरीद्रुमे कीटान्तरे स्त्रियाम् ।खर्जुरं रजते क्लीबं खर्जूरद्रौ तु खर्जुरः ॥ १७५४ ॥
18.1754 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्जु (wrong syllable)
खर्जूः-खल्या
खजूर्विद्युति कण्ड्वां च स्त्रियामेषा प्रकीर्त्तिता ।खर्जूघ्नोऽर्कद्रुमे चक्रमर्दधत्तूरयोरपि ॥ १७५५ ॥
18.1755 · p. 131
अनुष्टुप्
खर्जूरो ना परूषद्रौ खर्जूर्यस्याल्पभेदके ।क्ली तु तत्प्रसवे चापि रजते हरितालके ॥ १७५६ ॥
18.1756 · p. 131
अनुष्टुप्
खर्जूरन्नारिकेलास्थिगर्भसारेऽपि कीर्त्तितम् ।द्वयोस्तु वृश्चिके प्रोक्तो भेद्यवत्तु खले मतः ॥ १७५७ ॥
18.1757 · p. 131
अनुष्टुप्
खर्परस्तु कपालांशे कपाले धूर्त्तचौरयोः ।भिक्षापात्रे तथा छत्रे धातुभेदे तु खर्परी ॥ १७५८ ॥
18.1758 · p. 131
अनुष्टुप्
खर्बरः स्यात्कपालेऽपि भिक्षापात्रे करे पुमान् ।खर्मन्तु पौरुषे क्लीबं तथा स्यात्कोषजांशुके ॥ १७५९ ॥
18.1759 · p. 131
अनुष्टुप्
खर्वं संख्यान्तरे नप् ना निधौ त्रि लघुनीचयोः ।खर्विका पूर्णकल्पेन्दुपूर्णिमायाम्परे त्रिषु ॥ १७६० ॥
18.1760 · p. 131
अनुष्टुप्
खलम्भूस्थानयोस्तक्रविशेषे क्वथिते च नप् ।निष्पीडितरसे कल्के पिण्याकादावथ त्रिषु ॥ १७६१ ॥
18.1761 · p. 131
अनुष्टुप्
नीचे क्रूरे दुर्जने च पुंश्चल्यान्तु स्त्रियां खला ।फलग्रहणदेशे तु क्षेत्रस्यास्त्री रणे तु ना ॥ १७६२ ॥
18.1762 · p. 131
अनुष्टुप्
धत्तूरेऽपि तमालेऽपि तयोस्तु प्रसवे नपि ।कुलत्थे ना खलकुलः खलस्य तु कुले नपि ॥ १७६३ ॥
18.1763 · p. 131
अनुष्टुप्
खलतिस्त्रिषु खल्वाटे खल्लिटे चैन्द्रलिप्तिके ।सूर्ये खलतिकश्चाद्रिभेदे त्रिषु तु चन्द्रिले ॥ १७६४ ॥
18.1764 · p. 131
अनुष्टुप्
खलिर्घनद्रवे द्रव्यभेदे च जलपाचिते ।स्त्रियां खलीवत् पिण्याके तथोक्तः पिष्टतण्डुले ॥ १७६५ ॥
18.1765 · p. 131
अनुष्टुप्
खलिनी खलवृन्दे स्यात्तालपर्ण्यामपि स्त्रियाम् ।खलीनोऽस्त्री तुरङ्गाणां मुखसंयमने तथा ॥ १७६६ ॥
18.1766 · p. 131
अनुष्टुप्
छिद्राकाशादिलीने तु खलीनं वाच्यवन्मतम् ।खलु वाक्यविभूषायां जिज्ञासायाञ्च सान्त्वने ॥ १७६७ ॥
18.1767 · p. 131
अनुष्टुप्
वीप्सामाननिषेधेषु पूरणे पदवाक्ययोः ।खल्या तु खलवृन्दे स्त्री खलाय तु हिते त्रिषु ॥ १७६८ ॥
18.1768 · p. 131
अनुष्टुप्
खल्लः-खादनः
खल्लश्चर्मादिभस्त्रा स्यात्तथैवौषधिपेषणी ।वस्त्रान्तरे चर्मचर्मपात्रगर्त्तेऽथ चातके ॥ १७६९ ॥
18.1769 · p. 132
अनुष्टुप्
द्वयोः खल्लोऽथ खल्ली स्त्री रुग्भेदे परिकीर्त्तिता ।खल्लिका स्त्री ऋजीषे स्यात्खल्वाटे खल्लकस्त्रिषु ॥ १७७० ॥
18.1770 · p. 132
अनुष्टुप्
खल्ली वस्त्रप्रभेदे स्याद्गर्त्ते चर्मणि चातके ।खल्ली तु हस्तपादावमर्दनाख्यरुजि स्त्रियाम् ॥ १७७१ ॥
18.1771 · p. 132
अनुष्टुप्
खल्वो भेषजपेषण्यां धान्यभेदे तथा पुमान् ।खशयस्तु द्वयोर्भेके त्रिस्तु खे शयितर्यसौ ॥ १७७२ ॥
18.1772 · p. 132
अनुष्टुप्
खषः खषी व्रात्यसुतशूद्रौढक्षत्रियाभवे ।डोम्ब्यां चाण्डालतश्चापि जाते द्वे संकरान्तरे ॥ १७७३ ॥
18.1773 · p. 132
अनुष्टुप्
खष्पः कोपे बलात्कारे ना दुर्मेधसि तु त्रिषु ।खसस्तु खर्ज्वाम्पुम्भूम्नि तु नृजात्यन्तरे खसाः ॥ १७७४ ॥
18.1774 · p. 132
अनुष्टुप्
तेषां जनपदेऽथ स्त्री गन्धद्रव्यान्तरे खसा ।अथ खस्फटिकः सूर्यकान्तचन्द्राश्मनोर्मतः ॥ १७७५ ॥
18.1775 · p. 132
अनुष्टुप्
खाटिस्त्वसद्ग्रहेऽपि स्यात्किणे शवरथे स्त्रियाम् ।खाण्डवः पिप्पलीशुण्ठी मुद्गयूषे रसे तथा ॥ १७७६ ॥
18.1776 · p. 132
अनुष्टुप्
मधुराम्लकयोगोत्थे कुरुक्षेत्रवनान्तरे ।मधुराम्लकयोगोत्थरसभाजि तु वाच्यवत् ॥ १७७७ ॥
18.1777 · p. 132
अनुष्टुप्
खाण्डिकः स्याद्गुडवणिज्यपिच्छात्रे तथा पुमान् ।खाण्डिकन्तु समूहे स्यात्खण्डिकानां नपुंसकम् ॥ १७७८ ॥
18.1778 · p. 132
अनुष्टुप्
खातं क्ली खनने पुष्करिण्यान्त्रित्ववदारिते ।क्वचित्खाता तडागेऽपि स्त्रियामेषा प्रयुज्यते ॥ १७७९ ॥
18.1779 · p. 132
अनुष्टुप्
खातकं खातिकचिति परिखाया न ना भवेत् ।खात्रञ्चोरकृते रन्ध्रे सरःकुद्दालतन्तुषु ॥ १७८० ॥
18.1780 · p. 132
अनुष्टुप्
महाभयेऽप्यरण्येऽपि नपुंसकमुदाहृतम् ।खादस्तु भक्षणे भोज्येऽथोत्तरस्थस्त्रिभक्षके ॥ १७८१ ॥
18.1781 · p. 132
अनुष्टुप्
खादको भक्षकेऽपि स्यादधमर्णे तथा त्रिषु ।खादनस्तु पुमान्दन्ते क्लीबं भक्षणभोज्ययोः ॥ १७८२ ॥
18.1782 · p. 132
अनुष्टुप्
खाद्यः-खेटः
खाद्यस्तु खदिरे पुंसि भक्षणीये तु वाच्यवत् ।खानं कचिद्भक्षणे स्यात्तुरुष्कनृपतौ तु ना ॥ १७८३ ॥
18.1783 · p. 133
अनुष्टुप्
खानकस्तु पुमांश्चौरे परिखायान्तु खानिका ।खारिकस्तु त्रिषु क्रीते खार्या क्ली तु फलान्तरे ॥ १७८४ ॥
18.1784 · p. 133
अनुष्टुप्
खारिका तु स्त्रियां खारीपरिमाणे प्रकीर्त्तिता ।खिङ्खारस्तु द्वयोः क्रोष्टौ ना खट्वाङ्गे किखीरके ॥ १७८५ ॥
18.1785 · p. 133
अनुष्टुप्
खिङ्खिरो ना वारिवाहे खट्वाङ्गे च द्वयोः पुनः ।शिवाभेदे खिङ्खिरा तु बलभृत्ये च खिङ्खिरः ॥ १७८६ ॥
18.1786 · p. 133
अनुष्टुप्
खिदिरस्तापसे दीने त्रिर्भये नेन्द्रचन्द्रयोः ।खिद्रः शशाङ्के खिद्रन्तु भवेद्विघ्नोपतापसोः ॥ १७८७ ॥
18.1787 · p. 133
अनुष्टुप्
खिद्रस्तु दीने व्याधौ च खिद्रं स्याद्भेदयन्त्रके ।खिलोऽस्त्र्यप्रहते स्थाने परिशिष्टे खिलम्मतम् ॥ १७८८ ॥
18.1788 · p. 133
अनुष्टुप्
पुरणीयावकाशेऽपि दुरूहगणितेऽपि च ।दुराग्रहे वेधसि च वाच्यवत्तु सदोषके ॥ १७८९ ॥
18.1789 · p. 133
अनुष्टुप्
खिल्यः पुञ्जे खिलक्षेत्राश्मनोस्त्रिस्तु खिलोद्भवे ।खुण्डको ना ह्रस्वनालिकेरे ह्रस्वाल्पयोस्त्रिषु ॥ १७९० ॥
18.1790 · p. 133
अनुष्टुप्
खुरः शफे शुक्तिसंज्ञभेषजेऽपि पुमान्मतः ।खट्वाङ्गाऽवयवे बह्वादिपाठात्त्विष्यते खुरी ॥ १७९१ ॥
18.1791 · p. 133
अनुष्टुप्
खुरको वङ्गभेदेऽपि नृत्यभेदे तिलेऽपि च ।खुरप्रस्तु क्षुरप्रेऽपि बाणभेदे प्रकीर्त्तितः ॥ १७९२ ॥
18.1792 · p. 133
अनुष्टुप्
खुल्लस्त्रि क्षुल्लवत्क्षुद्रे ना तु स्याच्छुक्तिभेषजे ।खेचरो द्वे दुश्चिकित्सविषे स्याद्वृश्चिकान्तरे ॥ १७९३ ॥
18.1793 · p. 133
अनुष्टुप्
विद्याधरे च त्रिषु तु वियच्चरसपक्षयोः ।राक्षसे खेचरः प्रोक्तो ग्रहपारदयोस्तु ना ॥ १७९४ ॥
18.1794 · p. 133
अनुष्टुप्
तथैव नवसंख्यायां खेचरा मूर्च्छनान्तरे ।खेचरी सिद्धिभेदेऽङ्गुलिमुद्रादुर्गयोरपि ॥ १७९५ ॥
18.1795 · p. 133
अनुष्टुप्
तथैव कर्णवलये स्यात्तुत्थार्थे तु खेचरम् ।खेटोऽस्त्र्यल्पपुरे चर्मण्यद्रिनद्यन्तरस्थिते ॥ १७९६ ॥
18.1796 · p. 133
अनुष्टुप्
खेटः-गच्छः
पुरेऽथ ग्रामभेदे ना ग्रामधानाह्वये कफे ।मृगव्येऽप्यथ खेटः स्यात्कुत्सिते वाच्यलिङ्गकः ॥ १७९७ ॥
18.1797 · p. 134
अनुष्टुप्
बलरामगदायाङ्क्ली ना ग्रहे शस्त्रिणि तृणे ।खेटकोऽस्त्री मतः खेटे खेटकं वसुनन्दके ॥ १७९८ ॥
18.1798 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 णि (wrong syllable)
खेटकम्फलके ग्रामधानेऽथोत्त्रासके त्रिषु ।खेटी तु नागरे चैव कामिन्यपि पुमान्मतः ॥ १७९९ ॥
18.1799 · p. 134
अनुष्टुप्
खेदः पीडास्मरालस्ये खेदा वेधन्युदीरिता ।खेदिस्तुरङ्गरश्मौ च किरणेऽपि पुमान्मतः ॥ १८०० ॥
18.1800 · p. 134
अनुष्टुप्
खेयन्तु परिखायां क्ली खनितव्ये त्रिषु स्मृतम् ।खेलो वेणौ पुमान्खेला लीलायां स्त्री प्रकीर्त्तिता ॥ १८०१ ॥
18.1801 · p. 134
अनुष्टुप्
खेलनं खेलना क्रीडा शार्यां स्त्री खेलनी मता ।खेलिरर्केषुगीते ना स्त्री खेले द्वे मृगे खगे ॥ १८०२ ॥
18.1802 · p. 134
अनुष्टुप्
खोटस्त्रिपङ्गौ खोटी तु सल्लक्यां स्त्रीत्व इष्यते ।खोडस्त्रिपुटके ना कुलाये खञ्जे त्वयन्त्रिषु ॥ १८०३ ॥
18.1803 · p. 134
अनुष्टुप्
खोलस्त्रिपङ्गौ खोलन्तु शिरस्त्रच्छत्रयोर्मतम् ।खोलको ना पाकभेदे पूगकोशशिरस्त्रयोः ॥ १८०४ ॥
18.1804 · p. 134
अनुष्टुप्
वल्मीके चाथ काञ्च्यां स्त्री गीतसत्यां च खोलिका ।खोल्कस्तु धूमकेतौ च ग्रहेपि च पुमान्मतः ॥ १८०५ ॥
18.1805 · p. 134
अनुष्टुप्
ख्यातिः ख्यारूपयोर्धात्वोर्नाऽथ कीर्त्तिधियोः स्त्रियाम् ।सम्मतौ नाम्नि च क्रौञ्चद्वीपस्थसरिदन्तरे ॥ १८०६ ॥
18.1806 · p. 134
अनुष्टुप्