All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
स (1/4)
सः-संवृतं
सो विष्णावीश्वरे सा तु लक्ष्म्यां गौर्यामपीष्यते ।संयद्युद्धेऽग्निचित्यायां द्वादशस्विष्टकासु च ॥ ६२१० ॥
48.6210 · p. 460
अनुष्टुप्
संयद्वरो नृपे पुंसि क्लीबं संयद्वरं रणे ।अथ संयद्वरस्त्रि स्यादनूपेऽप्यभयप्रदे ॥ ६२११ ॥
48.6211 · p. 460
अनुष्टुप्
संयावः सम्मिश्रणे च भक्ष्यभेदेऽस्य लक्षणम् ।समिता त्वम्लदुग्धार्द्रा पक्वा खण्डे घृतोत्तरे ॥ ६२१२ ॥
48.6212 · p. 460
अनुष्टुप्
संयावोऽयं युतश्चूर्णैः खण्डैलामरिचार्द्रकैः ।संरम्भः पुनराटोपे क्रोधेऽपि परिकीर्त्तितः ॥ ६२१३ ॥
48.6213 · p. 460
अनुष्टुप्
संरोधस्तु क्षये पुंसि तथा संरोधने मतः ।संलयस्तु पुमान्स्वापे तथैकीभाव इष्यते ॥ ६२१४ ॥
48.6214 · p. 460
अनुष्टुप्
संवत्सरोऽब्दभेदे चाऽब्दमात्रेऽपि कीर्त्तितः ।क्लीबं संवननं याच्ञासंभक्त्योश्च वशीकृतौ ॥ ६२१५ ॥
48.6215 · p. 460
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
संवर्त्तस्त्वृषिभेदे स्याद्वत्सरे च जगत्क्षये ।संवर्त्तनायां संवृत्तावपि सर्वत्र पुंस्ययम् ॥ ६२१६ ॥
48.6216 · p. 460
अनुष्टुप्
संवर्त्तको हलिहले तथैव वडवानले ।संवर्त्तिका नवदले नलिन्यावेष्टितेऽपि च ॥ ६२१७ ॥
48.6217 · p. 460
अनुष्टुप्
पुमान् संवसथः प्रोक्तो ग्रामे संवसनेऽपि च ।संवालश्चन्द्रकिरणे गजपुच्छस्य मूलतः ॥ ६२१८ ॥
48.6218 · p. 460
अनुष्टुप्
चतुर्धा च विभक्तस्य द्वितीयांशे प्रकीर्त्तितः ।संवासः सहवासे च राजधान्यां तथा पुमान् ॥ ६२१९ ॥
48.6219 · p. 460
अनुष्टुप्
स्त्रियां तु मुखशालायां न तु ना सहवासने ।संवासनं कर्मशाला न तु ना सहवासने ॥ ६२२० ॥
48.6220 · p. 460
अनुष्टुप्
संवित्तिस्तु स्त्रियां ज्ञाने संवादेऽपि प्रकीर्त्तिता ।संविद्युद्धे प्रतिज्ञायां सङ्केताचारनामसु ॥ ६२२१ ॥
48.6221 · p. 460
अनुष्टुप्
संभाषणे क्रियाकारे ज्ञानतोषणयोरपि ।संवृतं क्ली संवरणे वर्णधर्मान्तरेऽपि च ॥ ६२२२ ॥
48.6222 · p. 460
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
संवृतः-संहारः
संवृतस्तद्धर्मवति छादितेऽपि च भेद्यवत् ।संवेशनं तु शयने क्लीबं संवेशना नना ॥ ६२२३ ॥
48.6223 · p. 461
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ध (wrong syllable)
स्वापने मुखशालायां तु स्त्री संवेशनी मता ।संव्यानं तूत्तरीयेऽपि तथा संवरणे मतम् ॥ ६२२४ ॥
48.6224 · p. 461
अनुष्टुप्
संश्चत्पुमान्स्यादध्वर्यौ कुहके तु त्रिषु स्मृतः ।संसत्सदसि सत्राख्यक्रतूनामपि भूमनि ॥ ६२२५ ॥
48.6225 · p. 461
अनुष्टुप्
चतुर्विंशतिरात्रे द्वे तयोः पूर्वत्र संसदः ।क्लीबं संसरणं जन्मन्यसम्बाधचमूगतौ ॥ ६२२६ ॥
48.6226 · p. 461
अनुष्टुप्
घण्टापथेऽपि संसारे संसृतौ वारणेऽपि च ।संसर्पः सामदशके महासर्पसमाह्वये ॥ ६२२७ ॥
48.6227 · p. 461
अनुष्टुप्
अहीनक्रतुभेदे तु संसृप्तौ च पुमानयम् ।संसिद्धिः स्त्री तु सिद्धौ च स्वभावफलयोरपि ॥ ६२२८ ॥
48.6228 · p. 461
अनुष्टुप्
संसृष्टं मिश्रिते त्रि स्याच्छुद्धे च वमनादिभिः ।संस्कार उत्कर्षाधाने सतः संकल्प एव च ॥ ६२२९ ॥
48.6229 · p. 461
अनुष्टुप्
संस्कृतं त्वाहितोत्कर्षे कृत्रिमे निर्मलीकृते ।त्रिषु लक्षणयुक्ते च भाषाभेदे तु संस्कृतम् ॥ ६२३० ॥
48.6230 · p. 461
अनुष्टुप्
संस्तरः स्रस्तरे चापि पुमानुक्तस्तथाऽध्वरे ।संस्तुवानः सोममहर्ष्युद्गातृषु च होतरि ॥ ६२३१ ॥
48.6231 · p. 461
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सो (wrong syllable)
संस्त्यायो विस्तृतौ गेहे संनिवेशसमूहयोः ।संस्थाव्यवस्थाप्रणिधिसमाप्त्याकृतिमृत्युषु ॥ ६२३२ ॥
48.6232 · p. 461
अनुष्टुप्
संस्थानं तु समाप्तौ संनिवेशे च चतुष्पथे ।सम्यक्स्थितौ च मरणे नपुंसकमुदीरितम् ॥ ६२३३ ॥
48.6233 · p. 461
अनुष्टुप्
संस्थितस्तु समाप्ते च मृते सम्यक्स्थिते त्रिषु ।संस्पर्शनोऽग्नौ पुंसि स्याच्चित्रे संस्पर्शनं मतम् ॥ ६२३४ ॥
48.6234 · p. 461
अनुष्टुप्
संहतं दृढसन्धौ च सङ्गतेऽपि त्रिषु स्मृतम् ।क्लीबं संहननं काये घटनेऽपि प्रकीर्त्तितम् ॥ ६२३५ ॥
48.6235 · p. 461
अनुष्टुप्
संहर्षो मुदि वायौ ना त्रि स्पर्धनसमानयोः ।संहारो नरकस्यापि भेदे संहरणे तथा ॥ ६२३६ ॥
48.6236 · p. 461
अनुष्टुप्
संहारी-सङ्गरम्
स्यान्महाप्रलये तद्वत्संहारी त्वघशालिका ।संहितं त्रिषु संश्लिष्टे संहिता तु स्त्रियामियम् ॥ ६२३७ ॥
48.6237 · p. 462
अनुष्टुप्
शास्त्रग्रन्थान्तरे वेदभागेऽपि क्वचिदिष्यते ।अतीव सन्निकर्षे च वर्णानां क्ली तु सामनि ॥ ६२३८ ॥
48.6238 · p. 462
अनुष्टुप्
स्वादिष्ठावर्गगीते स्यात्षष्ठे च नवमेऽपि च ।संहृतिः प्रलयाकर्षसमाप्तिषु भवेत्स्त्रियाम् ॥ ६२३९ ॥
48.6239 · p. 462
अनुष्टुप्
सक्थ्यूरौ शकटाङ्गे च कस्मिंश्चित्स्यान्नपुंसकम् ।सखा सहायसुहृदोस्त्रि स्त्रीत्वेऽत्र सखीति च ॥ ६२४० ॥
48.6240 · p. 462
अनुष्टुप्
भाषाप्रयोगे रूपं स्याद्बन्धौ तु स्यात्सखा पुमान् ।सगरः सविषे त्रिः क्ली व्योम्नि ना तु नृपान्तरे ॥ ६२४१ ॥
48.6241 · p. 462
अनुष्टुप्
सङ्करोऽग्निचटत्कारे सम्मार्जन्यवपुञ्जिते ।सङ्कीर्णे च त्रिषु स्त्री तु कन्याभेदे नृदूषिते ॥ ६२४२ ॥
48.6242 · p. 462
अनुष्टुप्
विवाहायोग्यकन्यानामेकत्र परिकीर्त्तिता ।नवदूषितकन्यायां सङ्कारी पुनरुच्यते ॥ ६२४३ ॥
48.6243 · p. 462
अनुष्टुप्
पुमान्सङ्कसुकः श्राद्धाऽग्नौ सङ्कीर्णे तु स त्रिषु ।तथाऽपवादशीले च व्यक्ताव्यक्तेऽपि चारणे ॥ ६२४४ ॥
48.6244 · p. 462
अनुष्टुप्
द्वयोः सङ्कुचितो हंसेऽथाल्पीभूते त्रिषु स्मृतः ।सङ्क्रमस्त्वस्त्रियां दुर्गसञ्चरेऽप्येकमाश्रवम् ॥ ६२४५ ॥
48.6245 · p. 462
अनुष्टुप्
उज्झित्वान्याश्रयप्राप्तौ तथैव प्रत्ययेऽपि च ।सङ्ख्यमस्त्री रणे स्त्री तु सङ्ख्या स्याद्गणने तथा ॥ ६२४६ ॥
48.6246 · p. 462
अनुष्टुप्
एकत्वादौ विचारे च तथैव परिकीर्त्तिता ।सङ्गो युद्धे सङ्गमेऽथ लवणे सैन्धवे नपि ॥ ६२४७ ॥
48.6247 · p. 462
अनुष्टुप्
सङ्गतो दिवसस्य स्याच्चतुर्भागे द्वितीयके ।पञ्चरात्रपयः पानव्रतेऽथ मिलिते त्रिषु ॥ ६२४८ ॥
48.6248 · p. 462
अनुष्टुप्
सङ्गमो मेलके नस्त्री सङ्गमस्तु व्रतान्तरे ।पञ्चरात्रं पयःपानात्मके पुंसि प्रकीर्त्तितः ॥ ६२४९ ॥
48.6249 · p. 462
अनुष्टुप्
सङ्गरो ना प्रतिज्ञायां क्रियाकारेऽपि चापदि ।युद्धे विषे च क्लीबं तु सङ्गरं स्याच्छमीफले ॥ ६२५० ॥
48.6250 · p. 462
अनुष्टुप्
सङ्ग्रहः-सती
सङ्ग्रहस्तु महोद्योगे स्वीकारे च समुच्छ्रये ।स्त्रीसङ्ग्रहेऽपि सङ्क्षेपे पुँल्लिङ्गः परिकीर्त्तितः ॥ ६२५१ ॥
48.6251 · p. 463
अनुष्टुप्
सङ्ग्रहो मुष्टिमात्रेऽपि मुष्टौ च फलकादिनः ।सङ्घवादी द्वयोर्मर्त्त्ये यौगिके तु यथायथम् ॥ ६२५२ ॥
48.6252 · p. 463
अनुष्टुप्
सङ्घातस्तु मतः पुंसि समूहे हननेऽस्थनि ।काव्यजातिविशेषे च तथैव नरकान्तरे ॥ ६२५३ ॥
48.6253 · p. 463
अनुष्टुप्
सङ्घातिकारणा वेशा स्त्रीलिङ्गे परिकीर्त्तिता ।त्रिस्तु सङ्घातयितरि संहन्तर्यपि चेष्यते ॥ ६२५४ ॥
48.6254 · p. 463
अनुष्टुप्
सज्जं स्यात्त्रिषु सन्नद्धे सतो जातेऽपि कीर्त्तितम् ।सज्जनस्तु पुमान्साधौ कुलीने भेद्यवद्भवेत् ॥ ६२५५ ॥
48.6255 · p. 463
अनुष्टुप्
स्त्रियां तु सज्जना हस्तिकल्पनायामथ स्मृतम् ।नपुंसकं सज्जनं तु तद्घट्टे चोपरक्षणे ॥ ६२५६ ॥
48.6256 · p. 463
अनुष्टुप्
सञ्चारः सङ्क्रमे सङ्गे चारे संस्थाचरेऽपि यः ।गत्वा गत्वा परं जिज्ञासने तत्र प्रकीर्त्तितः ॥ ६२५७ ॥
48.6257 · p. 463
अनुष्टुप्
त्रिषु सञ्चारितर्यत्र सञ्चारक इति स्मृतः ।सञ्चारिका तु भूपस्य कथायां द्रविणादिषु ॥ ६२५८ ॥
48.6258 · p. 463
अनुष्टुप्
नियुक्तायां महाकार्ये चास्यां दूत्यां तथा स्त्रियाम् ।सञ्जयो धृतराष्ट्रस्य सचिवे पुंसि कीर्त्तितः ॥ ६२५९ ॥
48.6259 · p. 463
अनुष्टुप्
क्लीबं तु सामभेदे स्यादिन्द्रं नरऋचि स्थिते ।विश्वाधनानीत्यारभ्य तथा हीनमखान्तरे ॥ ६२६० ॥
48.6260 · p. 463
अनुष्टुप्
संज्ञाऽभिधाने सङ्केते हस्ताद्यैरर्थसूचने ।सूर्यभार्यान्तरे बुद्धौ चेतनायां च तत्र तु ॥ ६२६१ ॥
48.6261 · p. 463
अनुष्टुप्
उपांशु यच्च क्रियते स्वेष्वनीकेषु विग्रहे ।सटा जटायां स्त्रीत्वेऽथ नना सिंहस्य केसरे ॥ ६२६२ ॥
48.6262 · p. 463
अनुष्टुप्
सङ्करे तु भटीविप्रसम्भवे स्यात्सटो द्वयोः ।सत्साधौ विद्यमाने च प्रशस्तेऽभ्यर्हिते तथा ॥ ६२६३ ॥
48.6263 · p. 463
अनुष्टुप्
सत्ये बुधे शोभने च भेद्यवत्परिकीर्त्तितः ।सती पतिव्रतोमाश्रीतुवरीभेषजेषु च ॥ ६२६४ ॥
48.6264 · p. 463
अनुष्टुप्
सत्-सनिः
सत्परब्रह्मनक्षत्रजलेषु स्यान्नपुंसकम् ।उक्तः शब्देऽपि सच्छष्दस्तस्य लिङ्गं न निश्चितम् ॥ ६२६५ ॥
48.6265 · p. 464
अनुष्टुप्
सत्तमः स्यात्पूज्यतमे श्रेष्ठे त्रिष्वतिशोभने ।सत्त्रं वनाच्छादनयोः सदादाने नपुंसकम् ॥ ६२६६ ॥
48.6266 · p. 464
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पू (wrong syllable)
द्वादशाहादियज्ञेषु तथैव परिकीर्त्तितम् ।सत्त्वं स्वभावसत्तायां द्रव्येऽन्तःकरणे बले ॥ ६२६७ ॥
48.6267 · p. 464
अनुष्टुप्
पराक्रमे सांख्यगुणे व्यवसायाऽऽत्मभावयोः ।माहात्म्ये च मतं क्लीबं पौरुषे त्वस्त्रियामिदम् ॥ ६२६८ ॥
48.6268 · p. 464
अनुष्टुप्
पिशाचादौ तथा प्राणे सत्वं जन्तुषु चोच्यते ।सत्यं क्ली शपथे तथ्ये त्रि तु तद्वति कीर्त्तितम् ॥ ६२६९ ॥
48.6269 · p. 464
अनुष्टुप्
सत्या तु सत्यभामाख्यकृष्णपत्न्यां प्रकीर्त्तिता ।अथ सत्यवती स्त्री स्याद्वेदव्यासस्य मातरि ॥ ६२७० ॥
48.6270 · p. 464
अनुष्टुप्
ब्राह्म्याख्येऽपि तृणस्तम्बे सत्ययुक्ते तु भेद्यवत् ।सत्यङ्कारः पुमान्सत्त्याकृतावपि करार्पणे ॥ ६२७१ ॥
48.6271 · p. 464
अनुष्टुप्
सदनन्तु गृहे तोये सीदत्यर्थे च कीर्तितम् ।सदो यज्ञमहावेदे हविर्धानद्वयस्य हि ॥ ६२७२ ॥
48.6272 · p. 464
अनुष्टुप्
पश्चाद्देशे मतं क्लीबं गोष्ठ्यां तु स्त्री नपुंसकम् ।द्यावापृथिव्योस्तु क्लीबे द्विवचः सदसी इति ॥ ६२७३ ॥
48.6273 · p. 464
अनुष्टुप्
सदस्यस्त्रिषु सभ्ये च स्याद्यज्ञविधिदर्शिनि ।सदागतिः पुमान्सूर्ये वायौ चापि प्रकीर्त्तितः ॥ ६२७४ ॥
48.6274 · p. 464
अनुष्टुप्
सदाफलो नालिकेरे पुमांश्चोदुम्बरद्रुमे ।सद्म गेहे जले क्लीबं रोदस्योः सद्मनी इति ॥ ६२७५ ॥
48.6275 · p. 464
अनुष्टुप्
सद्यःपाको मतः स्वप्ने निशाऽत्ययसमुद्भवे ।सध्रि स्यान्नपि संयोगे ना त्वग्नावनडुह्यपि ॥ ६२७६ ॥
48.6276 · p. 464
अनुष्टुप्
सनतस्तु सनोतौ च पुमान्म्लेच्छे द्वयोर्मतः ।सनातनो ना विष्णौ च विरिञ्चे त्रिस्तु शाश्वते ॥ ६२७७ ॥
48.6277 · p. 464
अनुष्टुप्
सनाभिस्तु सपिण्डे च सोदर्ये च द्वयोर्मतः ।सनिर्नदीतटे दाने नृस्त्रियोः पथियाञ्चयोः ॥ ६२७८ ॥
48.6278 · p. 464
अनुष्टुप्
सन्ततिः-सभ्यः
सन्ततिस्त्वन्ववाये स्यात्परिपर्येऽपि पुत्रयोः ।सन्तानस्तु कुले कल्पवृक्षभेदे तथैव च ॥ ६२७९ ॥
48.6279 · p. 465
अनुष्टुप्
परम्परायां चापत्ये पुँल्लिङ्गः परिकीर्त्तितः ।सन्दंशो लोहकारोपकरणान्तर इष्यते ॥ ६२८० ॥
48.6280 · p. 465
अनुष्टुप्
सन्दंशनेऽभिचारात्मैक्याहक्रत्वन्तरेऽपि च ।सन्दष्टो यमकस्य त्रिर्भेदे सन्दंशनस्य च ॥ ६२८१ ॥
48.6281 · p. 465
अनुष्टुप्
कर्मभूतेऽथ सन्दष्टः पुंसि सम्मिश्ररूपके ।गायकानां कण्ठदोषविशेषे परिकीर्त्तितः ॥ ६२८२ ॥
48.6282 · p. 465
अनुष्टुप्
सन्धा वधौ प्रतिज्ञायां सन्ध्यासन्धानकर्मणोः ।सन्धानमधिचापं स्याद्बाणस्यारोपणे तथा ॥ ६२८३ ॥
48.6283 · p. 465
अनुष्टुप्
काञ्जिकादेरभिषवे काञ्जिके श्लेषणेऽप्यथ ।सन्धानी रूप्यशालायां स्त्री वार्त्ताक्यन्तरेऽपि च ॥ ६२८४ ॥
48.6284 · p. 465
अनुष्टुप्
गिरिप्रियाख्ये त्रिषु तु सन्धिसाधन इष्यते ।सन्धिस्तु रन्ध्रे नाट्याङ्गे श्लेषे भङ्गसुरङ्गयोः ॥ ६२८५ ॥
48.6285 · p. 465
अनुष्टुप्
अन्त्यस्तोमेऽतिरात्रस्य वर्णानां योजनेऽपि च ।सन्धिन्यकालदुग्धा गौर्वृषाक्रान्ताऽपि गौर्मता ॥ ६२८६ ॥
48.6286 · p. 465
अनुष्टुप्
द्विकालदोह्या सत्त्वेककालं या गौश्च दुह्यते ।सन्धिला तु सुरुङ्गायां नदीमदिरयोरपि ॥ ६२८७ ॥
48.6287 · p. 465
अनुष्टुप्
सन्नमल्पेऽवसन्ने त्रिष्वनुदात्तविशीर्णयोः ।गते तथेष्यते क्ली तु सन्नं सत्तौ प्रकीर्त्तितम् ॥ ६२८८ ॥
48.6288 · p. 465
अनुष्टुप्
सन्नाह्यो युद्धयोग्येभे सन्नद्धव्ये तु स त्रिषु ।सप्तकस्तु पुमान्सङ्घे सप्तानां क्ली तु सप्तकम् ॥ ६२८९ ॥
48.6289 · p. 465
अनुष्टुप्
मृगयाक्षादिषु स्त्री तु सप्तकीक्कञ्चिदामनि ।सप्तमं त्रिषु सप्तानां पूरणे सप्तमी पुनः ॥ ६२९० ॥
48.6290 · p. 465
अनुष्टुप्
स्यात्सप्तमविभक्तौ स्त्री दुर्गादेव्यास्तिथावपि ।सप्तर्षिरंशौ ना सप्तर्षयश्चित्रशिखण्डिषु ॥ ६२९१ ॥
48.6291 · p. 465
अनुष्टुप्
सप्तला नवमाल्यां च सातलागुञ्जयोः स्त्रियाम् ।सभ्यः सामाजिके साधौ सभासाधौ तथा त्रिषु ॥ ६२९२ ॥
48.6292 · p. 465
अनुष्टुप्
समङ्गः-समाह्वयः
ना त्वग्निभेदे यागस्थे पूर्व आहवनीयतः ।त्रिः समङ्गो मङ्गयुते प्राणिद्यूते तु पुंस्ययम् ॥ ६२९३ ॥
48.6293 · p. 466
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
समङ्गा तु नमस्कारीस्तम्बे स्त्री परिकीर्त्तिता ।समञ्जसं क्ली न्याये त्रि रम्यस्तेऽप्युचितेऽपि च ॥ ६२९४ ॥
48.6294 · p. 466
अनुष्टुप्
अथ ब्रीह्यादिधानुष्कस्थितिभेदेषु पञ्चसु ।एकस्मिन्स्यात्समपदं योगार्थे तु यथायथम् ॥ ६२९५ ॥
48.6295 · p. 466
अनुष्टुप्
समयोऽस्त्री क्रियाकारे भाषानिर्देशसम्पदि ।सङ्केताचारसिद्धान्तकालेषु शपथेऽपि च ॥ ६२९६ ॥
48.6296 · p. 466
अनुष्टुप्
सङ्गमे त्वेष समयः पुँल्लिङ्गः परिकीर्त्तितः ।समर्थस्तु समानार्थे सम्बद्धार्थे हितेऽपि च ॥ ६२९७ ॥
48.6297 · p. 466
अनुष्टुप्
न्याय्ये शक्ते तथा भेद्यलिङ्गोऽयं परिकीर्त्तितः ।समर्थनं स्थापनायामाक्षिप्तस्य पुनर्भवेत् ॥ ६२९८ ॥
48.6298 · p. 466
अनुष्टुप्
स्यात्सम्प्रधारणायां च समर्थीकरणेऽपि च ।समर्यादं समीपेऽपि मर्यादासहिते त्रिषु ॥ ६२९९ ॥
48.6299 · p. 466
अनुष्टुप्
समवर्त्ती यमे पुंसि योगार्थे तु यथायथम् ।समाघातो वधे युद्धे योगार्थे तु यथायथम् ॥ ६३०० ॥
48.6300 · p. 466
अनुष्टुप्
समाधिस्तु पुमान्ध्याने नीवाके च समर्थने ।प्राणिद्यूते प्रतिज्ञायां काव्यालङ्करणान्तरे ॥ ६३०१ ॥
48.6301 · p. 466
अनुष्टुप्
तुल्यत्वे भेद्यवत्तु स्यात्समानाधिसमान्विते ।समानस्तु पुमान्वायुभेदे देहान्तरस्थिते ॥ ६३०२ ॥
48.6302 · p. 466
अनुष्टुप्
त्रिस्तु साध्वेकतुल्येषु मानेन सहितेऽपि च ।समापनं समाप्तौ न तु ना घातेऽवसायने ॥ ६३०३ ॥
48.6303 · p. 466
अनुष्टुप्
समारम्भः सम्यगारम्भणे चाचार इष्यते ।समाहारस्तु संक्षेपेऽप्येकत्र करणे च ना ॥ ६३०४ ॥
48.6304 · p. 466
अनुष्टुप्
समानाहारकादौ तु लिङ्गाद्यं स्याद्यथायथम् ।समाहितं मते सम्यगाहिते वाच्यवत्तथा ॥ ६३०५ ॥
48.6305 · p. 466
अनुष्टुप्
समाधिस्थे परिहृते प्रतिज्ञातेऽपि कीर्त्तितम् ।समाह्वयो रणे प्राणिद्यूते नाम्न्यथ यौगिके ॥ ६३०६ ॥
48.6306 · p. 466
अनुष्टुप्
समितिः-सम्बाधः
समितिः परिषत्स्थाने सङ्गे संसद्युधि स्त्रियाम् ।समिधस्तु समूहेऽग्नौ युद्धगोधूमपिष्टयोः ॥ ६३०७ ॥
48.6307 · p. 467
अनुष्टुप्
समीकस्तु समुद्रेऽपि मिथुनेऽपि पुमान्मतः ।समीरणः फणिर्जे च वायावाहरणे च ना ॥ ६३०८ ॥
48.6308 · p. 467
अनुष्टुप्
समुच्छ्रयस्तून्नतौ च विरोधेऽपि पुमान्मतः ।समूहे स्यात्समुदयः समरे च समुद्गमे ॥ ६३०९ ॥
48.6309 · p. 467
अनुष्टुप्
समुद्गः सम्पुटे पुंसि स्यान्मुद्गसहिते त्रिषु ।स्यात्समुद्धरणं क्लीबं वान्ताऽन्तेऽप्युन्नयेऽपि च ॥ ६३१० ॥
48.6310 · p. 467
अनुष्टुप्
समुद्रस्तु पुमानब्धौ छन्दस्युत्कृतिसंज्ञके ।आकाशे च तथा संख्याविशेषेऽपि त्रयोदशे ॥ ६३११ ॥
48.6311 · p. 467
अनुष्टुप्
तेषां ये शतसंख्याताः क्रमाद्दशगुणोत्तराः ।त्रिस्तु मुद्राऽन्वितेऽथ क्ली समुद्रं देहलक्षणे ॥ ६३१२ ॥
48.6312 · p. 467
अनुष्टुप्
समुद्रनवनीतं तु चन्द्रे स्यादमृतेऽपि च ।समुद्रान्ता तु दुःस्पर्शे कार्पासीस्पृक्कयोरपि ॥ ६३१३ ॥
48.6313 · p. 467
अनुष्टुप्
समुन्नद्धो गर्विते च पण्डितम्मन्यके त्रिषु ।समुन्नयः समुत्क्षेपे तथा समुदये मतः ॥ ६३१४ ॥
48.6314 · p. 467
अनुष्टुप्
समूहः पुञ्जिते भुग्ने सद्योजातेऽनुपप्लुते ।समूहनं तु क्लीबं स्यात्संहतीकरणे तथा ॥ ६३१५ ॥
48.6315 · p. 467
अनुष्टुप्
शपस्य योजने मौर्व्यां स्त्रियां तु स्यात्समूहनी ।सम्मार्जन्यामवाण्यन्तसमूह्यार्थे समूहना ॥ ६३१६ ॥
48.6316 · p. 467
अनुष्टुप्
सम्पद्भूतौ गुणोत्कर्षे तथा स्त्रीत्वे प्रकीर्त्तिता ।सम्पुटस्तु समुद्गे च मन्त्राक्षरग्रथनान्तरे ॥ ६३१७ ॥
48.6317 · p. 467
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कलिकायां कुरवके पुँल्लिङ्गः परिकीर्त्तितः ।सम्प्रयोगस्तु सुरते संस्तवेऽप्यभिधीयते ॥ ६३१८ ॥
48.6318 · p. 467
अनुष्टुप्
सम्प्रेषणी द्वादशाहश्राद्धे स्त्रीत्वे प्रकीर्त्तिता ।क्ली सम्यक् प्रेषणे तत्प्रयुक्तौ सम्प्रेषणा न ना ॥ ६३१९ ॥
48.6319 · p. 467
अनुष्टुप्
सम्बाधस्तु भगे स्त्रीणां मेढ्रे कारागृहेऽपि ना ।स्यात्सङ्कटे तु सम्बाधो भेद्यवत्परिकीर्त्तितः ॥ ६३२० ॥
48.6320 · p. 467
अनुष्टुप्
सम्भवः-सरम्
सम्भवः कारणोत्पत्त्योः सङ्केते सङ्गमेऽपि च ।मात्यर्थे मापयत्यर्थे तौ चार्थौ सद्भिरीरितौ ॥ ६३२१ ॥
48.6321 · p. 468
अनुष्टुप्
अकर्मको मातिधातुः प्रस्थादीनां घटादिषु ।प्रवर्त्तनेऽन्तभावेऽसौ सम्भूत इति सूत्रगः ॥ ६३२२ ॥
48.6322 · p. 468
अनुष्टुप्
सकर्मको मापयतिः स्थाल्याद्याधारवस्तु ना ।ग्रहणेऽन्तर्भावनायामाढकादेः प्रवर्त्तने ॥ ६३२३ ॥
48.6323 · p. 468
अनुष्टुप्
स चायं सम्भवत्यादिसूत्रे सूत्रकृतोदितः ।तत्र ह्याकृष्यते कर्म तद्धरत्यादिसूत्रतः ॥ ६३२४ ॥
48.6324 · p. 468
अनुष्टुप्
असम्भवो हेममयजन्तोरेषामसम्भवे ।इत्यादिषु प्रयोगेषु भूयिष्ठेषु कृतात्मभिः ॥ ६३२५ ॥
48.6325 · p. 468
अनुष्टुप्
अर्थः सम्भवशब्दस्य चिन्तनीयो विचक्षणैः ।सम्भावनाऽऽसादने च सम्माने च न ना मता ॥ ६३२६ ॥
48.6326 · p. 468
अनुष्टुप्
पात्रस्यान्तर्मापने च तत्र युक्तौ च कीर्त्तिता ।सम्भेदो मिश्रणे चापि भेदेऽपि च पुमान्मतः ॥ ६३२७ ॥
48.6327 · p. 468
अनुष्टुप्
सम्भोगो ना रते भोगे हस्तिहस्ते तथास्य च ।तृतीयेंऽशेऽङ्गुलेरूर्ध्वं विभक्तस्य च सप्तधा ॥ ६३२८ ॥
48.6328 · p. 468
अनुष्टुप्
सम्भ्रमोऽत्यादरे व्यग्रत्वे संवेगे च साध्वसे ।स्यात्सम्मतिः स्त्री वाञ्छायामनुज्ञापूजयोरपि ॥ ६३२९ ॥
48.6329 · p. 468
अनुष्टुप्