All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
अ (1/4)
अंशुः सूत्रादिसूक्ष्मांशेऽप्येकदेशे लतादिनः ।चन्द्रे सूर्ये पुमान्द्वे तु मयूखे च द्युतावपि ॥ १ ॥
3.1 · p. 3
अनुष्टुप्
अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ।अंशुमांस्तु पुमान्सूर्ये चन्द्रे चाद्यमहीपतौ ॥ २ ॥
3.2 · p. 3
अनुष्टुप्
दिलीपाख्यस्य नृपतेस्तातेऽथांशुमती स्त्रियाम् ।पृश्निपर्णीशालपर्ण्योरंशुयुक्ते तु भेद्यवत् ॥ ३ ॥
3.3 · p. 3
अनुष्टुप्
अः स्यादभावे स्वल्पाऽर्थे निषेधे च नञर्थकम् ।अव्ययं चानुकम्पायामिदमर्थे त्वनव्ययम् ॥ ४ ॥
3.4 · p. 3
अनुष्टुप्
अः स्याद्विष्णौ विरिञ्चे च प्रथमे च स्वरे (तथा) पुमान् ।अकः पापे च दुःखे च तथैव प्रत्ययान्तरे ॥ ५ ॥
3.5 · p. 3
अनुष्टुप्
अकनिष्ठा बौद्धदेवविशेषेषु नृभूमनि ।केषांचित्पुंसि बुद्धेऽपि वाच्यवत्त्वकनिष्ठके ॥ ६ ॥
3.6 · p. 3
अनुष्टुप्
अकल्कः कल्कहीने त्रिरकल्का कौमुदी स्त्रियाम् ।अकुलं स्याज्जले पोते कुलहीने तु वाच्यवत् ॥ ७ ॥
3.7 · p. 3
अनुष्टुप्
अकुलः पुंसि शम्भौ स्यात्स्त्री गौर्यामकुला मता ।अकूपारः पुमान्सर्पे कूर्मराजेऽ(म्बुधावथ)ब्धिकूर्मयोः ॥ ८ ॥
3.8 · p. 3
अनुष्टुप्
त्रिर्गम्भीरेऽप्यपारेऽथाकूपाराङ्गिरसः स्त्रियाम् ।अकूवारः कूवरे नाऽकूवारा स्यात्स्त्रियां भुवि ॥ ९ ॥
3.9 · p. 3
अनुष्टुप्
अकृतं त्रिष्वजनिते क्लीबं त्वकृतमित्यदः ।यवब्रीह्यादि सतुषहविष्ये परिकीर्त्तितम् ॥ १० ॥
3.10 · p. 3
अनुष्टुप्
अक्तः प्रेते द्वयोरक्ता निशि त्रिर्म्रक्षितादिषु ।अक्तुर्ना केशवे शक्ते प्रकाशे स्त्री तु दिङ्निशाः ॥ ११ ॥
3.11 · p. 3
अनुष्टुप्
अक्षं-अगः
चक्रधारकदण्डे च रुद्राक्षेन्द्राक्षयोरहौ ।अक्षं नपुंसकं तुत्थे स्यात्सौवर्चल इन्द्रिये ॥ १४ ॥
3.14 · p. 4
अनुष्टुप्
नित्येऽपि कैश्चिदुक्तोऽयं तत्र स्यादभिधेयवत् ।अक्षजस्तु पुमान्वज्रे विष्णौ च परिकीर्त्तितः ॥ १५ ॥
3.15 · p. 4
अनुष्टुप्
अक्षतं तण्डुले धान्ये लाजेषु क्लीबयोषितोः ।अहिंसिते त्रि पण्डे तु न द्वयोर्ना यवे स्मृतः ॥ १६ ॥
3.16 · p. 4
अनुष्टुप्
स्त्रीत्वे त्वक्षतयोन्यां सा कन्यायामक्षता मता ।अक्षमाला च सूत्रेऽरुन्धत्यां वत्सस्य मातरि ॥ १७ ॥
3.17 · p. 4
अनुष्टुप्
अक्षयो विष्णुवासे वा क्षयहीने त्रिलिङ्गकः ।अक्षया तिथिभेदेऽपि स्त्रीलिङ्गे परिकीर्त्तिता ॥ १८ ॥
3.18 · p. 4
अनुष्टुप्
स्यादक्षयगुणः पुंसि शिवे योगे तु वाच्यवत् ।अक्षरस्तु शिवे विष्णौ खड्गे वेधस्यथाक्षरा ॥ १९ ॥
3.19 · p. 4
अनुष्टुप्
वाच्यना क्ली विधौ धर्मे वर्णेऽम्बुतपसोः क्रतौ ।अक्षराख्ये सामभेदे खे मोक्षे मूलकारणे ॥ २० ॥
3.20 · p. 4
अनुष्टुप्
परमाणौ ब्रह्मणि च प्रणवे तु नृशण्डयोः ।त्रिर्निःक्षरे चाविनाशिन्यपि चापरिणामिनि ॥ २१ ॥
3.21 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ब्र (wrong syllable)
स्त्रियामक्षरपङ्क्तिः स्याच्छन्दोभेदे त्रियौगिके ।स्त्री स्यादक्षवती द्यूतक्रीडायां त्रि तु यौगिके ॥ २२ ॥
3.22 · p. 4
अनुष्टुप्
अक्षि नेत्रे तथेक्ष्वादेः काण्डस्यावयवान्तरे ।इन्द्रियोपनिषद्भेदद्विसंख्यासु नपुंसकम् ॥ २३ ॥
3.23 · p. 4
अनुष्टुप्
अक्षितं क्षितभिन्ने त्रि क्ली लक्षप्रयुते जले ।अक्षीबं वशिरे शिग्रौ ना त्रिलिङ्गस्तु निर्मदे ॥ २४ ॥
3.24 · p. 4
अनुष्टुप्
अक्षुः पुमान्समुद्रे च वप्रे च परिकीर्त्तितः ।अक्ष्णं नेत्रेऽक्ष्णा तु रज्जौ रोगेऽक्ष्णस्त्रित्वखण्डिते ॥ २५ ॥
3.25 · p. 4
अनुष्टुप्
अखातं देवखाते स्यात्त्रि तु खातेतरे मतम् ।अखिलं वाच्यवत्कृत्स्ने गर्ह्येऽपि परिकीर्त्तितम् ॥ २६ ॥
3.26 · p. 4
अनुष्टुप्
अगः सूर्याद्रिकुम्भाऽहिपादपेषु पुमान्मतः ।तथैव सप्तसंख्यायां त्रि तु स्यादगतिक्षमे ॥ २७ ॥
3.27 · p. 4
अनुष्टुप्
अगमः-अग्रं
अगमो ना गिरौ वृक्षे गतिहीने तु भेद्यवत् ।अगस्त्यः कुम्भजे वङ्गसेनद्रौ तारकान्तरे ॥ २८ ॥
3.28 · p. 5
अनुष्टुप्
प्रसवे त्वस्य वृक्षस्यागस्त्य गस्त्यं नपुंसकम् ।अगस्तिवद्वङ्गसेनफलादौ तु नपुंसकम् ॥ २९ ॥
3.29 · p. 5
अनुष्टुप्
अगाढोऽनवगाढे चाप्यभृशे चाभिधेयवत् ।अगाधं विवरे क्लीबं त्रिस्तलस्पर्शवर्जिते ॥ ३० ॥
3.30 · p. 5
अनुष्टुप्
अग्निभेदे त्वगाधोऽयं पुँल्लिङ्गः परिकीर्त्तितः ।अगुरु क्ली शिंशपायां जोङ्गके पुंनपुंसकम् ॥ ३१ ॥
3.31 · p. 5
अनुष्टुप्
त्रिलिङ्गं तु लघुन्यत्रागुर्वी चैवागुरुः स्त्रियाम् ।अगौकाः शरभे द्वे स्यात्पक्षिपञ्चास्ययोरपि ॥ ३२ ॥
3.32 · p. 5
अनुष्टुप्
अग्नायी स्त्री भवेत्स्वाहादेव्यां त्रेतायुगेऽपि च ।अग्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान् ॥ ३३ ॥
3.33 · p. 5
अनुष्टुप्
अग्निगन्धो वह्निगन्धे कणजीरणनाम्नि च ।सूक्ष्मजीरकभेदे ना त्रिस्त्वग्निसमगन्धके ॥ ३४ ॥
3.34 · p. 5
अनुष्टुप्
अग्निज्वाला धातकीद्रौ वह्निज्वाले तु सा द्वयोः ।अग्निमन्थो मन्थनेऽग्नेर्ना श्रीपर्णतरावपि ॥ ३५ ॥
3.35 · p. 5
अनुष्टुप्
भल्लातकेऽग्निमुख्युक्ताऽग्निमुखो देवविप्रयोः ।क्लीबमग्निशिखं प्रोक्तं कुसुम्भे कुङ्कुमेपि च ॥ ३६ ॥
3.36 · p. 5
अनुष्टुप्
विशल्यालाङ्गलिक्यग्निज्वालास्वग्निशिखा स्त्रियाम् ।अग्निष्ठः पुंस्युपस्थायसंज्ञयूपद्वयान्तरे ॥ ३७ ॥
3.37 · p. 5
अनुष्टुप्
स्थितयूपे वाच्यवत्तु पावकावस्थिते भवेत् ।अग्निहोत्रन्त्वाहिताग्नेर्नित्यहोमे नपुंसकम् ॥ ३८ ॥
3.38 · p. 5
अनुष्टुप्
अग्निहोत्री होमधेनावग्निहोत्राऽग्निहव्ययोः ।अग्नौ हुतेत्वग्निहोत्रं वाच्यवत्परिकीर्त्तितम् ॥ ३९ ॥
3.39 · p. 5
अनुष्टुप्
अग्रं पुरस्तादुपरि पलमानेयु संहतौ ।आलम्बनाधिक्यश्रैष्ठ्यप्रान्तेषु स्यान्नपुंसकम् ॥ ४० ॥
3.40 · p. 5
अनुष्टुप्
अग्रजन्मा-अङ्गति
अधिके तु प्रधाने च प्रथमे चाभिधेयवत् ।अग्रजन्मा विरिञ्चे ना द्वयोस्त्वग्रजविप्रयोः ॥ ४१ ॥
3.41 · p. 6
अनुष्टुप्
अग्रतः प्रथमे चाग्रे लिङ्गहीनमुदाहृतम् ।स्त्री त्वग्रेदिधिषू रूढाऽनूढा स्याज्ज्यायसी यदि ॥ ४२ ॥
3.42 · p. 6
अनुष्टुप्
नात्वग्रेदिधिषूरग्रेदिधिषुश्चानुजो मतः ।यो ज्यायसः प्रमीतस्य परिगृह्णाति योषितम् ॥ ४३ ॥
3.43 · p. 6
अनुष्टुप्
स च द्विजः पुनर्भ्वाख्या द्विर्व्यूढा यत्कुटुम्बिनी ।अघं तु व्यसने दुःखे दुरिते च नपुंसकम् ॥ ४४ ॥
3.44 · p. 6
अनुष्टुप्
अघपानोऽस्त्रियां बाहौ ऋषिभेदे पुमान्स्मृतः ।अङ्को रूपकभेदाङ्गचिह्नरेखाजिभूषणे ॥ ४५ ॥
3.45 · p. 6
अनुष्टुप्
रूपकांशान्तिकोत्सङ्गापराधस्थानवक्षसि ।अङ्कतिर्नाऽनिले ब्रह्मण्युक्तो बह्वादिषु स्त्रियाम् ॥ ४६ ॥
3.46 · p. 6
अनुष्टुप्
अङ्कपालिः परीरम्भे धात्रीवैदिकयोः स्त्रियाम् ।अङ्को नपुंसकं सान्तं संयुगे स्वाङ्गभिद्यपि ॥ ४७ ॥
3.47 · p. 6
अनुष्टुप्
अङ्कुरस्त्वस्त्रियां बीजप्ररोहे किं च शाखिनाम् ।प्रतानभेदे क्लीबं तु रुधिरे रोम्णि वारिणि ॥ ४८ ॥
3.48 · p. 6
अनुष्टुप्
अङ्कुरी तु वसन्ते ना वृक्षे च त्रि तु साङ्कुरे ।अङ्क्यः स्यादङ्कनीये त्रिः स्यान्मृदङ्गान्तरे पुमान् ॥ ४९ ॥
3.49 · p. 6
अनुष्टुप्
नीवृद्भेदे च पुंभूम्नि तद्राजे तु पुमानयम् ।अन्तिकेऽङ्गवति त्रि स्यादथाऽङ्गेत्यव्ययं मतम् ॥ ५१ ॥
3.51 · p. 6
अनुष्टुप्
सम्बोधने च हर्षे च सम्भ्रमासूययोरपि ।अङ्गजं रुधिरेऽथाङ्गजः केशे कामरोगयोः ॥ ५२ ॥
3.52 · p. 6
अनुष्टुप्
स्यात्त्रिलिङ्गोऽङ्गसञ्जाते द्वे अपत्येऽङ्गजोऽङ्गजा ।अङ्गतिर्ना हरौ ब्रह्मण्यग्निहोत्रिणि पावके ॥ ५३ ॥
3.53 · p. 6
अनुष्टुप्
अङ्गदः-अङ्गुषी
अङ्गदो बालिपुत्रे स्यात्केयूरेऽङ्गदमिष्यते ।अङ्गदा वामनेभस्य पत्न्यां चन्द्रकलान्तरे ॥ ५४ ॥
3.54 · p. 7
अनुष्टुप्
अङ्गनं प्राङ्गणे याने कल्याण्यामङ्गना स्त्रियाम् ।स्यादङ्गनाप्रियोऽशोकाम्रयोस्त्रिषु तु यौगिके ॥ ५५ ॥
3.55 · p. 7
अनुष्टुप्
अङ्गहारोऽङ्गविक्षेपे नृत्यतोऽङ्गहृतौ तथा ।अङ्गारस्तु पुमान्भौमे स्यादुष्णगुण एव च ॥ ५६ ॥
3.56 · p. 7
अनुष्टुप्
त्रिस्तु तद्वति निर्वाणज्वाले त्वग्नौ नृशण्डयोः ।अङ्गारोऽङ्गारमित्येतन्निर्वाणाग्नावपीन्धने ॥ ५७ ॥
3.57 · p. 7
अनुष्टुप्
अङ्गारकः कुरण्टे चोल्मुकांशे ना खगे द्वयोः ।तथा करञ्जभेदेऽङ्गारवल्लरिरुदीरिता ॥ ५८ ॥
3.58 · p. 7
अनुष्टुप्
अङ्गारवल्ली भार्ङ्गीति प्रसिद्धे भेषजान्तरे ।भवेदङ्गारिका त्विक्षुकाण्डे किंशुककोरके ॥ ५९ ॥
3.59 · p. 7
अनुष्टुप्
अङ्गारिणी हसन्त्यां च भास्करव्यक्तदिश्यपि ।अङ्गारितं तु दग्धे च पलाशकलिकोद्गमे ॥ ६० ॥
3.60 · p. 7
अनुष्टुप्
वासन्त्यां तु लतामात्रेऽङ्गारिताप्यापगान्तरे ।शरीरिशेषिणोरङ्गी वाच्यवच्याङ्गवत्यपि ॥ ६१ ॥
3.61 · p. 7
अनुष्टुप्
अङ्गिरा ऋषिभेदे ना सकारान्तो वृहस्पतौ ।तद्वंश्येषु तु पुंभूम्नि स्युरङ्गिरस इत्यमी ॥ ६२ ॥
3.62 · p. 7
अनुष्टुप्
अङ्गुर्द्वयोः पक्षिणि स्याद्धिंसार्थे तु पुमानयम् ।अङ्गुलोऽस्त्री तिर्यगष्टयवमाने पुमांस्तु सः ॥ ६३ ॥
3.63 · p. 7
अनुष्टुप्
पक्षिलस्वामिनि तथाऽङ्गुष्ठेऽश्वत्थद्रुमेऽङ्गुलौ ।कात्यायने च चाणक्ये केचित्पुंस्यङ्गलं जगुः ॥ ६४ ॥
3.64 · p. 7
अनुष्टुप्
अङ्गुलिः स्यादङ्गुलीवच्छाखासु करपादयोः ।कराग्रे कर्णिकाख्येऽपि करिणः स्त्रीत्वमिष्यते ॥ ६५ ॥
3.65 · p. 7
अनुष्टुप्
अङ्गुलीयं तूर्मिकायां त्रिषु त्वङ्गुलियोगिनि ।अङ्गुषस्तु पुमान्हस्ते पक्षिभेदेऽङ्गुषी द्वयोः ॥ ६६ ॥
3.66 · p. 7
अनुष्टुप्
अङ्घ्रिः-अञ्जलिः
अङ्घ्रिर्ना पादतुर्यांशतरूमूलेषु नाऽङ्घ्रिवत् ।अचलो विष्णुकीलाद्रिष्वथ भुव्यचला स्त्रियाम् ॥ ६७ ॥
3.67 · p. 8
अनुष्टुप्
देव्यां च काञ्चिकस्थानस्थितायां त्रिस्तु निश्चले ।अच्छः स्यात्स्फटिके पुंसि द्वे भल्लूके त्रि निर्मले ॥ ६८ ॥
3.68 · p. 8
अनुष्टुप्
अच्छाव्ययं चाभिमुख्येऽच्छा दीर्घे संहिताकृते ।अच्युतस्तु पुमान्विष्णौ स्यात्स्थिरे त्वभिधेयवत् ॥ ६९ ॥
3.69 · p. 8
अनुष्टुप्
अजो हरीन्द्रब्रह्मेशकामे समपितामहे ।अजन्यं क्लीबमुत्पाते त्र्यनुत्पाद्यविजन्ययोः ॥ ७० ॥
3.70 · p. 8
अनुष्टुप्
अजपस्त्रिपुरध्येतर्यजपाले च निर्जपे ।अजपा तु स्त्रियामेषा हंसमन्त्रे प्रकीर्त्तिता ॥ ७१ ॥
3.71 · p. 8
अनुष्टुप्
अजमोदा यवान्यां स्यान्निर्यासे शाल्मलेरपि ।अजा स्त्रियां स्यात्प्रकृतौ छागे द्वे त्रि त्वजन्मनि ॥ ७२ ॥
3.72 · p. 8
अनुष्टुप्
अजितस्तु पुमान्विष्णौ दूर्वायामजिता स्त्रियाम् ।अजिनं जिनहीने त्रिः क्लीबे पापेऽपि चर्मणि ॥ ७३ ॥
3.73 · p. 8
अनुष्टुप्
अजिरः पवनेऽथ क्ली शरीरविषयाङ्गणे ।शैघ्र्ये पुरेऽजिरा तु स्त्री पार्वत्यां च सरित्यपि ॥ ७४ ॥
3.74 · p. 8
अनुष्टुप्
त्रिलिङ्गोऽजर्जरे शीघ्रे द्वे मृगान्तरभेकयोः ।अजिष्णुस्तु पुमानग्नावुदके तु नपुंसकम् ॥ ७५ ॥
3.75 · p. 8
अनुष्टुप्
अजिह्मगः शरे पुंसि त्रि तु स्यादृजुगामिनि ।अज्ञो जडे च मूर्खे चाप्यभिधेयवदिष्यते ॥ ७६ ॥
3.76 · p. 8
अनुष्टुप्
अञ्चतिर्नाऽनिलेऽग्नौ च स्त्रियां बह्वादिषु स्मृतः ।अञ्चनं त्वर्चने तद्वद्गतावपि नपुंसकम् ॥ ७७ ॥
3.77 · p. 8
अनुष्टुप्
अञ्जनं कज्जले चाक्तौ सौवीरे च रसाञ्जने ।क्ली स्त्रियोस्त्वञ्जयत्यर्थे त्रिषु त्वञ्जनसाधने ॥ ७८ ॥
3.78 · p. 8
अनुष्टुप्
पुंसि ज्येष्ठादिग्गजयोरञ्जना तु हनूमतः ।जनन्यामपि जन्तौ च हालाहलसमाह्वये ॥ ७९ ॥
3.79 · p. 8
अनुष्टुप्
ईदन्तस्त्वञ्जनीशब्दो लेप्यनार्यां भवेत्स्त्रियाम् ।अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि च ॥ ८० ॥
3.80 · p. 8
अनुष्टुप्
अञ्जलिकारिका-अति
अञ्जलेः कर्तरि प्रोक्ता त्रिलिङ्गाऽञ्जलिकारिका ।क्षुद्रजन्तुविशेषे तु गजायुर्वेदभाषिते ॥ ८१ ॥
3.81 · p. 9
अनुष्टुप्
नमस्कारीसमाख्ये च क्षुद्रवल्ल्यन्तरे स्त्रियाम् ।अञ्जसेत्यव्ययं प्रोक्तं तत्त्वतूर्णार्थयोरपि ॥ ८२ ॥
3.82 · p. 9
अनुष्टुप्
अञ्जिः 'शेफे पुमान्नागकेसराह्वयपादपे' ।त्रिस्त्वृजौ व्यञ्जके शुक्ले पेषण्यां तु स्त्रियामियम् ॥ ८३ ॥
3.83 · p. 9
अनुष्टुप्
अट्टो नातिशये घाते क्षौमसंज्ञगृहान्तरे ।शुष्कस्फुटितभूभागे त्रिषु पक्वौदने तु नप् ॥ ८४ ॥
3.84 · p. 9
अनुष्टुप्
अड्डनं त्वतियोगे स्याच्छस्त्राणां च निवारणे ।वेत्रादिरचिते खेटभेदे तत् क्लीबलिङ्गकम् ॥ ८५ ॥
3.85 · p. 9
अनुष्टुप्
अणिरक्षाग्रकीले द्वे सीम्न्यथ क्ल्यश्रिरूप्ययोः ।'वर्द्धमानतिथिप्रायपक्षेप्याणिवदेवना' ॥ ८६ ॥
3.86 · p. 9
अनुष्टुप्
'चिक्रोडाख्ये प्राणिभेदे पुंस्त्रियोरणिरुच्यते' ।अणीचिस्तु पुमान्विष्णौ त्रिषु शाकटिके मतः ॥ ८७ ॥
3.87 · p. 9
अनुष्टुप्
अणुः पुमान्धान्यभेदे परमाणौ समीरणे ।क्लीबं त्वम्भोधिलवणे स्यात्सूक्ष्मे त्वभिधेयवत् ॥ ८८ ॥
3.88 · p. 9
अनुष्टुप्
तत्र स्त्र्यर्थेऽणुरण्वी वा रश्मौ त्वण्व्यङ्गुलौ तथा ।अणुको निपुणे चाल्पे त्रिलिङ्गः परिकीर्त्तितः ॥ ८९ ॥
3.89 · p. 9
अनुष्टुप्
अण्डमण्डो विहङ्गादेः पेशीकोशे च मुष्कके ।अण्डजोऽहौ द्वयोर्मत्स्ये सरटे विहगे तथा ॥ ९० ॥
3.90 · p. 9
अनुष्टुप्
अण्डजा मृगनाभौ स्यादण्डाज्जातेऽण्डजस्त्रिषु ।अण्डीरमण्डीराण्डीरस्त्रिषु शक्तिमति स्मृतम् ॥ ९१ ॥
3.91 · p. 9
अनुष्टुप्
अण्डीरः पुरुषे पुंसि सज्जने मुष्कवत्पशौ ।अण्डुकः पुंसि मुष्केऽथ द्वयोष्टिट्टिभभेकयोः ॥ ९२ ॥
3.92 · p. 9
अनुष्टुप्
अततिस्तु पथि स्त्री स्यादतधातौ पुमान्मतः ।अतसो ना वनस्पत्यन्तरे स्यादतसी स्त्रियाम् ॥ ९३ ॥
3.93 · p. 9
अनुष्टुप्
उमाख्ये धान्यभेदे क्ली त्वतसं वनमुच्यते ।अत्यव्ययं प्रशंसायां प्रकर्षे लङ्घनेऽपि च ॥ ९४ ॥
3.94 · p. 9
अनुष्टुप्
अतिगण्डः-अदितिः
नितान्तासंप्रतिक्षेपवाच्यप्येतत्प्रयुज्यते ।अतिगण्डो योगभेदे बृहद्गण्डे तु वाच्यवत् ॥ ९५ ॥
3.95 · p. 10
अनुष्टुप्
अतिथिः कुशपुत्रे स्यात्तथैव गृहमागते ।अबन्धौ भोक्तुकामे च योगार्थे तु यथायथम् ॥ ९६ ॥
3.96 · p. 10
अनुष्टुप्
प्रबलेऽतिबलः प्रोक्तोऽतिबला भेषजान्तरे ।त्रिर्निःसङ्गेऽतिमुक्तोऽथ वासन्त्यां तिमिशे च ना ॥ ९७ ॥
3.97 · p. 10
अनुष्टुप्
अतिवेलो भृशे वेलामतिक्रान्तेऽपि वाच्यवत् ।अतिसर्जनमुक्तं क्ली दानेऽपि च वधेऽपि च ॥ ९८ ॥
3.98 · p. 10
अनुष्टुप्
अत्ता श्वश्र्व्यां मातरि च स्त्रीलिङ्गे परिकीर्त्तिता ।नाट्योक्त्या वृद्धवेश्यायां ज्येष्ठायां च स्वसर्यपि ॥ ९९ ॥
3.99 · p. 10
अनुष्टुप्
अत्नुर्वायावात्मनि च पुँल्लिङ्गः परिकीर्त्तितः ।अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयोः ॥ १०० ॥
3.100 · p. 10
अनुष्टुप्
अत्याकारस्त्वधिक्षेपेऽवज्ञायां च पुमान्मतः ।अत्याकृतिमतित्वेष भेद्यवत्परिकीर्त्तितः ॥ १०१ ॥
3.101 · p. 10
अनुष्टुप्
अत्यारूढं समारूढेऽभ्यधिकेऽपि च वाच्यवत् ।अत्याहितं महाभीत्यां प्राणानाकाङ्क्षकर्मणि ॥ १०२ ॥
3.102 · p. 10
अनुष्टुप्
अत्यूहो गजमेढ्रे ना त्रि त्वत्यर्थोहनादिषु ।अत्यूहा नीलिकायां स्त्री नीलकण्ठखगे द्वयोः ॥ १०३ ॥
3.103 · p. 10
अनुष्टुप्
अत्वरस्तु त्वराहीने त्रि द्वे तु महिषे स्मृतः ।अथाथो संशये स्यातामधिकारे च मङ्गले ॥ १०४ ॥
3.104 · p. 10
अनुष्टुप्
विकल्पानन्तरप्रश्नकार्त्स्न्यारम्भसमुच्चये ।अथर्वणिर्नाऽथर्वज्ञब्राह्मणे च पुरोधसि ॥ १०५ ॥
3.105 · p. 10
अनुष्टुप्
अथर्वा त्वृषिभेदे स्याद्वेदभेदे तथा पुमान् ।अथर्वभेदमन्त्रेषु तदध्येतर्यपि स्मृतः ॥ १०६ ॥
3.106 · p. 10
अनुष्टुप्
अदः शब्दं त्रिषु प्राहुरत्र तत्र परत्र च ।अदितिः स्त्री भवान्यां स्यात्पृथिव्यां देवमातरि ॥ १०७ ॥
3.107 · p. 10
अनुष्टुप्
अदिती-अधिष्ठानं
सुरभौ वाचि होमार्थसमिद्रक्षणकर्मणि ।द्यावापृथिव्योरदिती इत्यथ त्रिषु निर्दितौ ॥ १०८ ॥
3.108 · p. 11
अनुष्टुप्
अदृष्टं वह्नितोयादि दैवभीतौ महीभुजाम् ।धर्माधर्मावदृष्टं स्यात् त्रित्वदृष्टमवीक्षिते ॥ १०९ ॥
3.109 · p. 11
अनुष्टुप्
असौम्येक्षण्यदृष्टिः स्त्री दृष्टिहीने तु भेद्यवत् ।अद्धाऽव्ययं स्यात्प्रत्यक्षे सत्येऽपि च तथा मतम् ॥ ११० ॥
3.110 · p. 11
अनुष्टुप्
अद्भुतो वैश्वदेवाग्नौ त्रित्वाश्चर्ये महत्यपि ।अद्भुताख्ये रसे त्वेष पुँल्लिङ्गः परिकीर्त्तितः ॥ १११ ॥
3.111 · p. 11
अनुष्टुप्
अद्मनिस्तु पुमानग्नौ जयहस्तिन्यथ स्त्रियाम् ।पशूनां भक्षणे द्रोण्यां तथा तालुनि कीर्त्तिता ॥ ११२ ॥
3.112 · p. 11
अनुष्टुप्
अद्रिः पुमान्स्मृतः शैले रवावम्बुधरे द्रुमे ।अद्रिजा तु भवान्यां स्त्री क्ली शिलाजतुनि स्मृतम् ॥ ११३ ॥
3.113 · p. 11
अनुष्टुप्
अधमो गर्हणीये स्यान्नीचे चाप्यभिधेयवत् ।ओष्ठेऽधरो नाऽनूर्ध्वे तु त्रिर्हीने दीनवादिनि ॥ ११४ ॥
3.114 · p. 11
अनुष्टुप्
अधि स्यादधिकारे चापीश्वरेऽप्यधिकेऽपि च ।अथाधिकरणं द्रव्य आधारेऽधिकृतौ च नप् ॥ ११५ ॥
3.115 · p. 11
अनुष्टुप्
अधिके कुरणे न स्त्री बहुव्रीहौ तु भेद्यवत् ।अधिकाङ्गं सारसनसंज्ञे कवचधारिभिः ॥ ११६ ॥
3.116 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
मध्यबद्धेऽधिके चाङ्गे क्ली त्रि त्वन्यपदार्थकम् ।अध्यक्षेऽधिकृतस्त्रिश्च स्वरितेनानुवर्तिते ॥ ११७ ॥
3.117 · p. 11
अनुष्टुप्
अधिक्षिप्तं प्रणिहिते कुत्सिते भर्त्सिते त्रिषु ।त्रिर्नाथेऽधिपतिः पुंसि मूर्धस्थावर्त्तविप्रयोः ॥ ११८ ॥
3.118 · p. 11
अनुष्टुप्
अधिरोहणमारोहे निःश्रेण्यां त्वधिरोहणी ।अधिवासो निवासेऽपि गन्धधूपादिसंस्कृतौ ॥ ११९ ॥
3.119 · p. 11
अनुष्टुप्
क्लीबेऽधिश्रयणं पक्तुं स्थाल्यादेः परिकीर्त्तितम् ।स्त्री त्वधिश्रयणी चुल्ल्यां चुल्ल्यामारोपणे पुनः ॥ १२० ॥
3.120 · p. 11
अनुष्टुप्