कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

क (4/7)

अक्ली तु बन्धने कारा कारी त्रिः करयोगिनि ।कारालिको वृक्षमात्रे पुँल्लिङ्गः खड्गिखड्गयोः ॥ १३०३ ॥
17.1303 · p. 98
अनुष्टुप्
कारिः क्रियायां स्त्री कारिः स्याच्छिल्पिन्यभिधेयवत् ।कारिका नटभार्यायां शिल्पयातनयोरपि ॥ १३०४ ॥
17.1304 · p. 98
अनुष्टुप्
कृतौ विवरणश्लोकेऽग्निविष्ठायां च कीर्त्तिता ।कारिता स्यात्स्वयं दृष्टे ऋणवृद्ध्यन्तरे स्त्रियाम् ॥ १३०५ ॥
17.1305 · p. 98
अनुष्टुप्
कारित्वेऽप्यथ निर्मापितेऽसौ स्यात्कारितस्त्रिषु ।कारुरिन्द्रे विश्वकर्मण्यपि पुंसि प्रकीर्त्तितः ॥ १३०६ ॥
17.1306 · p. 98
अनुष्टुप्
द्वयोरपूर्वपुंयोगवैश्यायां व्रात्यतः सुते ।शिल्पिकारकयोस्त्वेष कारुः स्यादभिधेयवत् ॥ १३०७ ॥
17.1307 · p. 98
अनुष्टुप्
कारुजः कलभे फेने वल्मीके नागकेसरे ।गैरिके शिल्पिनां चित्रे स्वयञ्जाततृणेऽपि ना ॥ १३०८ ॥
17.1308 · p. 98
अनुष्टुप्

कारुजः-कालकूट

कारुजः कारुतो जाते त्रिलिङ्गः परिकीर्त्तितः ।कारोत्तरः सुरामण्डे कूपे चापि पुमान्मतः ॥ १३०९ ॥
17.1309 · p. 99
अनुष्टुप्
सुरास्रावणपात्रेऽपि वैदले चर्मवेष्टिते ।कार्त्तिकी कृत्तिकायुक्तपौर्णमास्यां स्त्रियां मता ॥ १३१० ॥
17.1310 · p. 99
अनुष्टुप्
तत्पौर्णमासीयुक्ते तु मासे ना कार्त्तिको मतः ।कार्पटस्तु पुमानेष कीर्त्तितो जतुकार्षिणोः ॥ १३११ ॥
17.1311 · p. 99
अनुष्टुप्
कार्मणं मूलकर्माख्ये क्लीबं मन्त्रादियोजने ।कार्मणस्तु त्रिलिङ्गोऽयं कथितः कर्मकारिणि ॥ १३१२ ॥
17.1312 · p. 99
अनुष्टुप्
कार्मिकस्तु भवेद्राज्ञां शुल्केष्वधिकृते त्रिषु ।कर्मणां तु समूहे क्ली कार्मिकं परिकीर्त्तितम् ॥ १३१३ ॥
17.1313 · p. 99
अनुष्टुप्
कार्मुकं चापमात्रेऽपि चापभेदे नपुंसकम् ।ना वेणौ त्रिः प्रभवति कर्मणे कार्मुको मतः ॥ १३१४ ॥
17.1314 · p. 99
अनुष्टुप्
कार्यं प्रयोजने क्लीबं कर्त्तव्ये त्रिषु कीर्त्तितम् ।स्यात्कार्यपुट उन्मत्तकृपणाऽनर्थकारिषु ॥ १३१५ ॥
17.1315 · p. 99
अनुष्टुप्
कार्षापणोऽस्त्रीपणषोडशके कार्षिकेऽपि च ।कार्ष्णमिध्मप्रोक्षणे क्ली कृष्णसस्बन्धिनि त्रिषु ॥ १३१६ ॥
17.1316 · p. 99
अनुष्टुप्
क्ली तु कालायसे कालं कालस्तु समये यमे ।मृत्यौ चापि महादेवे कार्ष्ण्ये त्रिषु तु तद्वति ॥ १३१७ ॥
17.1317 · p. 99
अनुष्टुप्
कालकस्तु पुमान्कायविकारेपि प्लुसंज्ञके ।रक्ते तु कालद्रव्येण पटादौ भेद्यलिङ्गकः ॥ १३१८ ॥
17.1318 · p. 99
अनुष्टुप्
कोपादिना च काले स्यान्मुखादौ कलतिर्यपि ।तथैव कालपितरि कालको वाच्यवन्मतः ॥ १३१९ ॥
17.1319 · p. 99
अनुष्टुप्
कालकण्ठस्तु दात्यूहे कलविङ्के च खञ्जने ।मयूरे पीतशाले च द्वयोः स्यात्तु शिवे पुमान् ॥ १३२० ॥
17.1320 · p. 99
अनुष्टुप्
कालकाऽङ्गारकाख्यस्य शकुनेर्योषिति स्त्रियाम् ।कालकुण्डस्तु ना विष्णौ यमे चापि द्वयोः पुनः ॥ १३२१ ॥
17.1321 · p. 99
अनुष्टुप्
मनुष्यजातिभेदे च क्षत्रियायां निषादजे ।कालकूटो वोलविषयमनीवृज्जनान्तरे ॥ १३२२ ॥
17.1322 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वो (wrong syllable)

कालञ्जरः-कालिकी

कालञ्जरो योगिचक्रमेलके भैरवे गिरौ ।कालञ्जरी तु दुर्गायान्तथा कालञ्जरा भवेत् ॥ १३२३ ॥
17.1323 · p. 100
अनुष्टुप्
कालधर्मस्तु कालस्य धर्मेऽपि मरणेऽपि च ।कालपुच्छस्तु चमरमृगे द्वे यौगिके त्रिषु ॥ १३२४ ॥
17.1324 · p. 100
अनुष्टुप्
कालपृष्ठं कर्णचापे पुंसि कङ्कविहङ्गमे ।कालमेघः कृष्णमेघे तथा भेषजभिद्यपि ॥ १३२५ ॥
17.1325 · p. 100
अनुष्टुप्
स्त्रियां तु कालमेषी स्यान्मसूरविदलाह्वये ।लताजात्यन्तरे सोमराजिमञ्जिष्ठयोरपि ॥ १३२६ ॥
17.1326 · p. 100
अनुष्टुप्
द्राक्षायां च द्वयोस्त्वेषा काले मेषे प्रकीर्त्तिता ।कालशेयं गोरसे क्ली कलशीसम्भवे त्रिषु ॥ १३२७ ॥
17.1327 · p. 100
अनुष्टुप्
कालसारः कृष्णसारे तथा स्यात्पीतचन्दने ।कालस्कन्धस्तमाले च तिन्दुके जीवकद्रुमे ॥ १३२८ ॥
17.1328 · p. 100
अनुष्टुप्
तथा स्याच्छ्यामखदिरे यौगिके लिङ्गमर्थतः ।काला मनःशिला मञ्जिष्ठा कृष्णत्रिवृतासु च ॥ १३२९ ॥
17.1329 · p. 100
अनुष्टुप्
कालानुसार्यं शैलेये जावकाख्ये विलेपने ।कालिका त्विति सौराष्ट्रीसंज्ञके भेषजे भवेत् ॥ १३३० ॥
17.1330 · p. 100
अनुष्टुप्
प्रशान्ताग्नौ दग्धकाष्ठे मृगभेदेऽस्य लक्षणम् ।कालिका त्वसिता यद्वा कपोता पिङ्गबिन्दुका ॥ १३३१ ॥
17.1331 · p. 100
अनुष्टुप्
इत्येवमविवाह्यानां कन्यानां कन्यकान्तरे ।अस्योक्तं लक्षणं कुब्जा दुर्दर्शा कालिका च सा ॥ १३३२ ॥
17.1332 · p. 100
अनुष्टुप्
अश्वस्य दन्तरेखायां सूक्ष्मजीरक एव च ।मनोविकारप्रभवकायवैवर्ण्य एव च ॥ १३३३ ॥
17.1333 · p. 100
अनुष्टुप्
मेघजाले च चिक्रोडसंज्ञप्राण्यन्तरेऽपि च ।क्रयदेये वस्तुमूल्ये काञ्चीवृश्चिकपत्रयोः ॥ १३३४ ॥
17.1334 · p. 100
अनुष्टुप्
धूसर्यां चणिकाभेदे योगिनीभिन्नवाब्दयोः ।पटोलशाखारोमालीमांसीकाकाशिवासु च ॥ १३३५ ॥
17.1335 · p. 100
अनुष्टुप्
कालिकी तु स्त्रियां मासि मासिदेयेऽधमर्णकैः ।ऋणवृद्धिविशेषेऽथ प्राप्तकाले त्रि कालिकी ॥ १३३६ ॥
17.1336 · p. 100
अनुष्टुप्

कालिङ्गः-काष्ठा

कालिङ्गो भूमिकर्कारौ दन्तावलभूजङ्गयोः ।कालिन्दी यनुनानद्यां कृष्णभार्यान्तरेऽपि च ॥ १३३७ ॥
17.1337 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 भू (wrong syllable)
काली मृडान्यामेकस्यां शम्भोर्नवसु शक्तिषु ।प्रसहाख्यबृहत्यां भ्रूकुटौ कृष्णनवाम्बुदे ॥ १३३८ ॥
17.1338 · p. 101
अनुष्टुप्
सप्तानामग्निहेतीनामेकस्यामेकमातरि ।सप्तानामपि मातृणां याश्च शासनदेवताः ॥ १३३९ ॥
17.1339 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 तृ (wrong syllable)
अर्हत्तीर्थकराणां तास्वेकस्यां क्षीरकीटके ।पिप्पलीवृश्चिकाल्योश्च नील्यां कृष्णे तु जीरके ॥ १३४० ॥
17.1340 · p. 101
अनुष्टुप्
कालेयं कालखण्डे स्यात्कलीनां च कदम्बके ।कलिना साम्नि दृष्टे च रागद्रव्ये च जापके ॥ १३४१ ॥
17.1341 · p. 101
अनुष्टुप्
कालेयो दैत्यभेदे ना दार्व्यां च परिकीर्त्तितः ।कालेयस्तु त्रिलिङ्गोऽयं कालसम्बन्धिनि स्मृतः ॥ १३४२ ॥
17.1342 · p. 101
अनुष्टुप्
कावृकः कृकवाकौ द्वे पीतमस्तककोकयोः ।कावेरी स्यात्सरिद्भेदे पुण्यनारीहरिद्रयोः ॥ १३४३ ॥
17.1343 · p. 101
अनुष्टुप्
काव्यः शुक्रे क्ली रसवद्वाक्ये स्त्री पूतनाधियोः ।काशो नस्त्रीक्षुगन्धायां काशा स्त्रीपुंसयोस्त्विषि ॥ १३४४ ॥
17.1344 · p. 101
अनुष्टुप्
काशिर्ना काशतौ धानौ मुष्टौ काशाह्वये तृणे ।भूम्नि नीवृद्विशेषेऽथ काशी वाराणसी स्त्रियाम् ॥ १३४५ ॥
17.1345 · p. 101
अनुष्टुप्
काश्मीरङ्कुङ्कुमेऽपि स्याट्टङ्कपुष्करमूलयोः ।काश्मीरी कृष्णवर्णायां वचायां स्यात्स्त्रियामियम् ॥ १३४६ ॥
17.1346 · p. 101
अनुष्टुप्
काश्यपो मुनिभेदे च चन्द्रे चेक्ष्वाकुवंशजे ।द्वितीयनृपतौ पुत्र मरीचेरपि पुंस्ययम् ॥ १३४७ ॥
17.1347 · p. 101
अनुष्टुप्
कश्यपस्य तु पुत्रे च मृगभेदेऽपि च द्वयोः ।काश्यपी तु स्त्रियां भूमौ मांसे तु नपि काश्यपम् ॥ १३४८ ॥
17.1348 · p. 101
अनुष्टुप्
काष्ठा स्त्री कालभेदे स्यादष्टादशनिमेषके ।स्थितौ दारुहरिद्रायां दिशि चाप्युपदिश्यपि ॥ १३४९ ॥
17.1349 · p. 101
अनुष्टुप्
दक्षिणोत्तरयोरन्यतरस्मिन्नयने रवेः ।आदित्ये परमावस्थोत्कर्षयोराजिसंज्ञिनः ॥ १३५० ॥
17.1350 · p. 101
अनुष्टुप्

कासिका-किम्पाकः

समप्रदेशस्यान्नेऽप्सु भूम्नि क्ली तु दारुणि ।कासिका छेदनद्रव्ये स्त्री वनस्पतिभिद्यपि ॥ १३५१ ॥
17.1351 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दे (syllables merged)
त्रिस्तु कासयितर्येष कासकः कासितर्यपि ।कासूर्वाग्विकले त्रि स्त्री व्याधौ शक्त्यायुधे धियाम् ॥ १३५२ ॥
17.1352 · p. 102
अनुष्टुप्
काहली स्त्री वाद्यभेदे सुषिरे परिकीर्त्तिता ।रथ्यावादे नपि त्रि स्याद्वाक्ये निष्ठुर आकुले ॥ १३५३ ॥
17.1353 · p. 102
अनुष्टुप्
किंशारुर्ना शस्यशूके विशिखे कङ्कपक्षिणि ।किंशुकस्तु पलाशे स्यादिङ्गुदे तत्फले तु नप् ॥ १३५४ ॥
17.1354 · p. 102
अनुष्टुप्
किकीदिविस्तु ना वर्णे द्वे तु चाषाह्वये खगे ।किखिरल्पक्रोष्टुजातौ कालगोत्रान्तरे स्त्रियाम् ॥ १३५५ ॥
17.1355 · p. 102
अनुष्टुप्
किङ्करो ना रथांऽशेऽथ द्वे दासे राक्षसे जने ।किङ्किणी घण्टिकायां स्त्री विकङ्कततरावपि ॥ १३५६ ॥
17.1356 · p. 102
अनुष्टुप्
किङ्किरोऽश्वे पिके भृङ्गे द्वे स्मरे तु पुमान्मतः ।किङ्किरातः स्मरे पुंसि द्वे शुके कोकिलेऽपि च ॥ १३५७ ॥
17.1357 · p. 102
अनुष्टुप्
ना कुरण्टान्तरेऽशोके क्लीबं तु प्रसवे तयोः ।किञ्जाः पुंभूम्न्यूदीच्ये स्यान्नीवृद्भेदे त्रि किम्भवे ॥ १३५८ ॥
17.1358 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म्न्यू (wrong syllable)
किञ्जल्कः केसरे क्ली तु स्यादाकाशे च लाञ्छने ।किट्टालो वा लोहगूथे स्यात्ताम्रकलशेपि च ॥ १३५९ ॥
17.1359 · p. 102
अनुष्टुप्
किणो रूढव्रणस्थाने पुमान्स्याच्चासनान्तरे ।किणिही स्यादपामार्गे गिरिकर्ण्यामपि स्त्रियाम् ॥ १३६० ॥
17.1360 · p. 102
अनुष्टुप्
किण्वं स्यान्नग्नहूनाम्नि शीधुबीजे नपुंसकम् ।तथैव पापे पिण्याके षण्ढेऽन्यवदविक्रमे ॥ १३६१ ॥
17.1361 · p. 102
अनुष्टुप्
कितवो मत्तधुर्धूरवञ्चकद्यूतकृत्सु ना ।फले धुर्धूरवृक्षस्य क्लीबं कितवमुच्यते ॥ १३६२ ॥
17.1362 · p. 102
अनुष्टुप्
किन्नर्यश्वमुखी चण्डालवीणापिङ्गलासु च ।किम्प्रश्नाक्षेपकुत्सासु तर्के कार्त्स्न्येऽथ निश्चये ॥ १३६३ ॥
17.1363 · p. 102
अनुष्टुप्
किमु संभावनायां स्याद्वितर्के चापि दृश्यते ।किम्पाकः स्यान्महाकालफले चाऽज्ञे तथा पुमान् ॥ १३६४ ॥
17.1364 · p. 102
अनुष्टुप्

किरणः-कीचकः

अथ किम्पुरुषो द्वे स्यात्किन्नरे क्ली तु भारतात् ।उत्तरेऽनन्तरे वर्षे हेमकूटापराह्वये ॥ १३६५ ॥
17.1365 · p. 103
अनुष्टुप्
किरणस्त्वश्वरश्मौ च रश्मौ चापि पुमान्मतः ।किराटो म्लेच्छभेदेऽपि द्वयोर्वणिजि च स्मृतः ॥ १३६६ ॥
17.1366 · p. 103
अनुष्टुप्
किरातः स्वल्पकाये त्रिर्भूनिम्बे तु पुमानयम् ।स्त्रियां चामरवाहिन्यां कुट्टिनीदुर्गयोरपि ॥ १३६७ ॥
17.1367 · p. 103
अनुष्टुप्
मर्त्त्यजात्यन्तरे तस्मिन्म्लेच्छभेदेऽपि च द्वयोः ।किरिर्द्वे सूकरे ना तु किरतावप्यनेहसि ॥ १३६८ ॥
17.1368 · p. 103
अनुष्टुप्
किरीटी नाऽर्जुने त्रिस्तु किरीटवति कीर्त्तितः ।किर्मी पलाशे शालायां हेमपुत्र्यां च योषिति ॥ १३६९ ॥
17.1369 · p. 103
अनुष्टुप्
किर्मीरो नागरङ्गे च कर्बुरे राक्षसान्तरे ।त्रि तु तद्वर्णवति निष्ठायान्तु नपुंसकम् ॥ १३७० ॥
17.1370 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
किलाऽव्ययं स्यादैतिह्ये संभाव्यानुनयार्थयोः ।शिवे किलकिलो हर्षध्वनौ किलकिला मता ॥ १३७१ ॥
17.1371 · p. 103
अनुष्टुप्
किलासी तु पृषत्यां स्त्री किलासः पुंसि सिध्मनि ।किल्विषी वारनार्यां किल्विषं पापरुगागसोः ॥ १३७२ ॥
17.1372 · p. 103
अनुष्टुप्
किशोरस्तरुणाऽवस्थे त्रिषु द्वे त्वश्वशावके ।सूर्ये तु तैलपर्ण्यां च किशोरः पुंसि कीर्त्तितः ॥ १३७३ ॥
17.1373 · p. 103
अनुष्टुप्
किष्किन्धः शैलभेदे ना किष्किन्धा त्वस्य कन्दरे ।किष्कुः प्रमाणभेदे स्याद्द्वादशाङ्गुलसम्मिते ॥ १३७४ ॥
17.1374 · p. 103
अनुष्टुप्
वितस्त्याख्ये चतुर्विंशत्यङ्गुले हस्तनाम्नि च ।मानद्रव्ये ना तपे च कुठारादित्सरौ द्वयोः ॥ १३७५ ॥
17.1375 · p. 103
अनुष्टुप्
किष्कुपर्वा पुमानिक्षौ वेणौ पोटगलेपि च ।कीकटस्तु द्वयोरश्वे भेद्यवत्तु मितम्पचे ॥ १३७६ ॥
17.1376 · p. 103
अनुष्टुप्
नीवृद्भेदे त्वनार्याणां निवासे पुंसि भूमनि ।कीकसं त्वस्थनि क्लीबं कृमिषु त्वणुषु द्वयोः ॥ १३७७ ॥
17.1377 · p. 103
अनुष्टुप्
कीचको नाऽनिलरणद्वेणौ स्याले च भूपतेः ।विराटस्याऽथ पूर्वोक्तवेणोः क्ली प्रसवे मतम् ॥ १३७८ ॥
17.1378 · p. 103
अनुष्टुप्

कीटकः-कुजः

कीटकः कृमिजातौ द्वे निष्ठुरे पुनरन्यवत् ।कीनाशोऽग्नौ यमे पीतहरिते मिश्रवर्णके ॥ १३७९ ॥
17.1379 · p. 104
अनुष्टुप्
पीतप्रधाने पुंसि स्याद्राक्षसे तु द्वयोस्त्रिषु ।कदर्याऽनार्यभृतककृतघ्नेषु कृषीवले ॥ १३८० ॥
17.1380 · p. 104
अनुष्टुप्
पूर्वोक्तवर्णवद्द्रव्येऽप्याममांसाशकेऽपि च ।कीराः पुंभूम्नि कश्मीरेष्वथ द्वे तज्जने शुके ॥ १३८१ ॥
17.1381 · p. 104
अनुष्टुप्
कीरकः प्रापणे वृक्षभेदे क्षपणके पुमान् ।कीरेष्टः स्याच्चूतजलमधूकाखोटशाखिषु ॥ १३८२ ॥
17.1382 · p. 104
अनुष्टुप्
कीर्णश्चुरीनाम्न्यप्स्थाने त्रि दत्तक्षिप्तहिंसिते ।कीर्त्तिः प्रसादयशसोः स्त्रियां कीर्त्तयतौ तु ना ॥ १३८३ ॥
17.1383 · p. 104
अनुष्टुप्
द्वे कीलोऽर्चिर्दोःकफोणिशङ्कुस्तम्भे शिवे तु ना ।कीलालमप्सु पक्वान्ननिष्यन्देऽन्नेऽमृतेऽसृजि ॥ १३८४ ॥
17.1384 · p. 104
अनुष्टुप्
कीशो दिगम्बरे पुंसि कपौ त्वेष द्वयोर्मतः ।कु पापे चेषदर्थे च कुत्सायां च निवारणे ॥ १३८५ ॥
17.1385 · p. 104
अनुष्टुप्
कुकुन्दरः कुक्कुरद्रौ नितम्बस्य च कूपके ।कुकूलं शङ्कुभिः कर्णे श्वभ्रे ना तु तुषानले ॥ १३८६ ॥
17.1386 · p. 104
अनुष्टुप्
कुक्कुट्यनृतचर्य्यायां द्वयोस्तु चरणायुधे ।भासेऽपि कुक्कुभे शूद्रान्निषादीतनयेऽपि च ॥ १३८७ ॥
17.1387 · p. 104
अनुष्टुप्
शूद्रायां मागधापत्ये निषादीवैश्ययोः सुते ।सुनिषण्णाख्यशाके तु तृणोल्कायां च कुक्कुटः ॥ १३८८ ॥
17.1388 · p. 104
अनुष्टुप्
कुक्कुटाक्षोऽल्पतुम्ब्यां ना यौगिकाऽर्थे त्वयं त्रिषु ।कुक्कुरो द्वे सारमेये ग्रन्थिपर्णे नपुंसकम् ॥ १३८९ ॥
17.1389 · p. 104
अनुष्टुप्
कुक्षिः पार्श्वेऽन्तरुदरे तुन्दे चेक्ष्वाकुसम्भवे ।कुचन्दनोऽस्त्रियां पीतचन्दने रक्तचन्दने ॥ १३९० ॥
17.1390 · p. 104
अनुष्टुप्
कुचरस्तु कुवादे स्याद्भूचरे चाऽभिधेयवत् ।कुचेलं कुत्सिते वस्त्रे तद्वति त्वभिधेयवत् ॥ १३९१ ॥
17.1391 · p. 104
अनुष्टुप्
अविद्धकर्णीपाठाद्याख्ये कुचेला लतान्तरे ।कुजो नाऽङ्गारके वृक्षे तथैव नरकासुरे ॥ १३९२ ॥
17.1392 · p. 104
अनुष्टुप्

कुञ्चिका-कुटिलिका

कुजा कात्यायनीदेव्यां भूमिजे तु कुजस्त्रिषु ।कुञ्चिका त्वङ्कुराख्ये स्यात्कपाटोद्घाटयन्त्रके ॥ १३९३ ॥
17.1393 · p. 105
अनुष्टुप्
तूलीसूचिकयोर्भीरुभीषणे साधनेऽप्यथ ।कीर्त्तितः कुञ्चकश्चैव कुञ्चितर्यभिधेयवत् ॥ १३९४ ॥
17.1394 · p. 105
अनुष्टुप्
कुञ्चितं तगरे क्लीबं कुटिले त्वभिधेयवत् ।कुञ्जोऽस्त्री गह्वरे दन्ते हनावपि लतागृहे ॥ १३९५ ॥
17.1395 · p. 105
अनुष्टुप्
ऋषिभेदे तु पुँल्लिङ्गः कुञ्ज एष प्रकीर्त्तितः ।कुञ्जरा पाटलाधातक्योर्ना केशे द्वयोर्गजे ॥ १३९६ ॥
17.1396 · p. 105
अनुष्टुप्
कुञ्जरारातिरुक्तो ना सिंहे च शरभेऽपि च ।कुञ्जिका कुञ्जवल्लर्यां तथा स्यात्कृष्णजीरके ॥ १३९७ ॥
17.1397 · p. 105
अनुष्टुप्
कुटस्तु पुंसि कलशे गृहे तु द्वे कुटी कुटः ।कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि ॥ १३९८ ॥
17.1398 · p. 105
अनुष्टुप्
क्लीबलिङ्गं तु वृक्षस्य प्रसवे तस्य कीर्त्तितम् ।कुटन्नटस्तु ना गुण्डुसंज्ञवृक्षे नपि त्वदः ॥ १३९९ ॥
17.1399 · p. 105
अनुष्टुप्
गोनर्दसंज्ञके मुस्ताभेदे प्रोक्तं कुटन्नटम् ।कुटपो ना मुनौ मानभेदे कुडवसंज्ञके ॥ १४०० ॥
17.1400 · p. 105
अनुष्टुप्
निष्कुटे चाथ कुटपं कमले क्लीबमुच्यते ।कुटरो मृगभेदे च वर्धकौ ना द्वयोः खगे ॥ १४०१ ॥
17.1401 · p. 105
अनुष्टुप्
कुटलं स्यादाभरणे कुटलो गात्रकृत्यृषौ ।कुटिर्गृहेऽतिकुटिले नृस्त्रियोः परिकीर्त्तिता ॥ १४०२ ॥
17.1402 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
कुटिलं कुञ्चिते त्रि स्याक्लीबं तु तगरे स्मृतम् ।अथ स्त्रियां च तगरपाद्यां स्यात्कुटिला स्त्रियाम् ॥ १४०३ ॥
17.1403 · p. 105
अनुष्टुप्
स्त्रियां कुटिलिकाऽङ्गारापकर्षण्यां च शिल्पिनाम् ।कर्मारनाम्नां धान्यं च कर्षकाणां प्रमृद्नताम् ॥ १४०४ ॥
17.1404 · p. 105
अनुष्टुप्
पूलोत्क्षेपणवेणौ स्यात्परिव्राजां च भूतले ।निधानस्य निषिद्धत्वाद्दण्डानां धारणाय यत् ॥ १४०५ ॥
17.1405 · p. 105
अनुष्टुप्
स्यात्कम्बिग्रहणन्तत्र तथा चोरजनस्य च ।यष्ट्यग्रप्रतिबद्धेऽन्यनिलयारोहणाय यः ॥ १४०६ ॥
17.1406 · p. 105
अनुष्टुप्

कुटिलिका-कुणपः

लोहकर्कटकस्तत्रापीयं कुटिलिका मता ।कुटी तु कुम्भदास्यां स्त्री मुरायां चित्रगुच्छके ॥ १४०७ ॥
17.1407 · p. 106
अनुष्टुप्
पल्ल्याख्ये क्षुद्रगेहे च द्वयोस्तु क्षत्रियात्सुते ।कुक्कुटीसंज्ञभार्यायामश्मकुट्टनवृत्तिके ॥ १४०८ ॥
17.1408 · p. 106
अनुष्टुप्
कुटीरस्तु पुमान्क्षुद्रागारे द्वे तु सकर्कटे ।कुटुम्बं नामनि तथा बान्धवे सन्ततावपि ॥ १४०९ ॥
17.1409 · p. 106
अनुष्टुप्
ज्ञातौ च पोष्यवर्गे च पुंनपुंसकयोर्मतम् ।कुट्टिः कुट्टयतौ पुंसि स्त्रियां कुट्टिः स्मृताऽयसि ॥ १४१० ॥
17.1410 · p. 106
अनुष्टुप्
शम्भल्यां कुट्टनीच्छेदकुत्सयोः कुट्टना मता ।कुट्टिमोऽस्त्री निबद्धायां भूमावपि कुटीरके ॥ १४११ ॥
17.1411 · p. 106
अनुष्टुप्
कुठारुः पुंसि वृक्षे स्याद्वानरे तु द्वयोर्मतः ।कुठिः पुमान्भवे वृक्षे पापे च वृषलालये ॥ १४१२ ॥
17.1412 · p. 106
अनुष्टुप्
कुठे रोगे तमारे त्रिर्ना तु स्तम्बे कठिञ्जरे ।कुडस्तु ना वैश्रवणे क्ली घटे लाङ्गले कुडम् ॥ १४१३ ॥
17.1413 · p. 106
अनुष्टुप्
द्वयोः कुडी कुडकृति शिशावपि च संकरे ।पलितीसंज्ञयोषायामुद्भूते शूद्रपूरुषात् ॥ १४१४ ॥
17.1414 · p. 106
अनुष्टुप्
कुडुङ्गोऽस्त्री निकुञ्जे च तथैव स्याच्छदिष्यपि ।कुडुबः पक्षिनीडेऽपि परिमाणान्तरे पुमान् ॥ १४१५ ॥
17.1415 · p. 106
अनुष्टुप्
कुडुम्बी सकुटुम्बे त्रिर्द्वयोस्तु स्यात्कृषीवले ।कुड्मलोऽस्त्री स्यान्मुकुले कुड्मलन्नरकान्तरे ॥ १४१६ ॥
17.1416 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)
विद्यादासनभेदे च लक्षणं यस्य कीर्त्तितम् ।नागदन्तकमूर्ध्वज्ञोर्जानुस्थौ प्रसृतौ भुजौ ॥ १४१७ ॥
17.1417 · p. 106
अनुष्टुप्
सूचीमुखमिदं पाणितलौ चेत्संहतौ मिथः ।अर्धसूची तु तौ द्वौ चेत्प्रादेशान्तरितौ मुखात् ॥ १४१८ ॥
17.1418 · p. 106
अनुष्टुप्
कुड्मलं मुकुलीभूतौ तौ चेदूर्ध्वमुखौ स्थितौ ।कुड्यं विलेपने भित्तौ क्लीबं कौतूहलेऽपि च ॥ १४१९ ॥
17.1419 · p. 106
अनुष्टुप्
कुणपोऽस्त्री शवे द्वे तु कृमौ त्रिषु तु कुत्सिते ।विट्सारिकायां कुणपी क्ली पूये दोहदाम्बुनि ॥ १४२० ॥
17.1420 · p. 106
अनुष्टुप्

कुणालः-कुत्सा

कुणालः कृतमाले ना पुत्रे चाशोकभूभुजः ।अथ क्लीबं पुरभिदि कुणालमिति कीर्त्तितम् ॥ १४२१ ॥
17.1421 · p. 107
अनुष्टुप्
कुणिस्तु नान्दीवृक्षे च विकले च करे पुमान् ।त्रिलिङ्गस्तु कुणिस्तस्मिन्यस्यास्ति विकलः करः ॥ १४२२ ॥
17.1422 · p. 107
अनुष्टुप्