All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
य
यः-यज्ञार्हः
यो ना वायौ यानयोगयशोयमनयातृषु ।या यात्राधूमितत्यागसमज्ञायोगवारणे ॥ ४५१५ ॥
42.4515 · p. 337
अनुष्टुप्
आप्तौ रथादियानेपि स्त्रीयोनावपि च स्त्रियाम् ।यक्षी तु पूजनीये त्रिर्यक्ष्यां स्त्री यक्षिणीष्यते ॥ ४५१६ ॥
42.4516 · p. 337
अनुष्टुप्
यक्षो वैश्रवणे पुंसि प्रासादेपि विडौजसः ।यक्षं नपुंसकं सत्त्वे स्यात्खाषेयशुनोर्द्वयोः ॥ ४५१७ ॥
42.4517 · p. 337
अनुष्टुप्
यक्षकर्दम इत्येष यक्षाणामपि कर्दमे ।कर्पूरागरुकस्तूरी तक्कोलैः साधितेऽपि च ॥ ४५१८ ॥
42.4518 · p. 337
अनुष्टुप्
गन्धयुक्तिविशेषे स्यादेतैर्वा स्यात्सकुङ्कुमैः ।यक्षराट् पुंसि धनदे मल्लानां रङ्गचत्वरे ॥ ४५१९ ॥
42.4519 · p. 337
अनुष्टुप्
यक्ष्मस्तु व्याधिमात्रेऽपि क्षयरोगे च पूजने ।यक्ष्मा न व्याधिमात्रेऽपि क्षयरोगे विशेषतः ॥ ४५२० ॥
42.4520 · p. 337
अनुष्टुप्
यजतस्तु शशाङ्केऽपि यज्ञद्रव्ये च ऋत्विजि ।शिवेऽपि यजनीये तु शब्दोऽयम्परिकीर्त्तितः ॥ ४५२१ ॥
42.4521 · p. 337
अनुष्टुप्
यजत्रमग्निहोत्रे च यज्ञोपकरणे मतम् ।यजत्रस्तु त्रिलिङ्गोऽसौ यजनीये प्रकीर्त्तितः ॥ ४५२२ ॥
42.4522 · p. 337
अनुष्टुप्
यजत्रस्तु पुमानग्निहोत्रिण्यपि च कस्यचित् ।यजनं तु यजत्राख्ये यागोपकरणे क्रतौ ॥ ४५२३ ॥
42.4523 · p. 337
अनुष्टुप्
यागस्य चाधिकरणे करणे च नपुंसकम् ।यजिस्तु यजधातौ ना यजमाने द्वयोर्मतः ॥ ४५२४ ॥
42.4524 · p. 337
अनुष्टुप्
यजनार्थे तु मन्वादौ लिङ्गं नाऽस्य विभाव्यते ।यजुरध्वर्युवह्न्योर्ना द्वे शिष्ययजमानयोः ॥ ४५२५ ॥
42.4525 · p. 337
अनुष्टुप्
चन्द्राऽश्वभेदेऽपि यजुः कैश्चित्पुंसि कीर्त्तितः ।यजुर्यज्ञोत्सवे क्लीबं मन्त्रजात्यन्तरेऽपि च ॥ ४५२६ ॥
42.4526 · p. 337
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 देऽ (syllables merged)
यज्ञस्तु केशवे चाग्नौ योगे चात्मनि चेष्यते ।यज्ञार्हो यागयोग्ये त्रिः कृष्णसारमृगे द्वयोः ॥ ४५२७ ॥
42.4527 · p. 337
अनुष्टुप्
यज्ञियः-यमस्वसा
यज्ञियो यज्ञकर्मार्हे त्रिर्मुञ्जे तु पुमान्मतः ।यतन्तु यमने हस्तिपंकानां पादकर्मणि ॥ ४५२८ ॥
42.4528 · p. 338
अनुष्टुप्
भेद्यलिङ्गं तु बद्धे स्यात्तथैवोपरतेऽपि च ।यतिर्जितेन्द्रिये चापि परिव्राजि तथा त्रिषु ॥ ४५२९ ॥
42.4529 · p. 338
अनुष्टुप्
स्त्रियां तु यमने पादच्छेदभेदे यतिर्मता ।तथा कारागृहे धातौ त्वेष ना यततौ मतः ॥ ४५३० ॥
42.4530 · p. 338
अनुष्टुप्
यथा तु योग्यतावीप्सापदार्थानतिवृत्तिषु ।सादृश्ये चैव माने च प्रशंसायामपीष्यते ॥ ४५३१ ॥
42.4531 · p. 338
अनुष्टुप्
यथासुखः पुमांश्चन्द्रे यौगिके तु यथायथम् ।यदव्ययं स्याद्गर्हायां तथा हेत्ववधारणे ॥ ४५३२ ॥
42.4532 · p. 338
अनुष्टुप्
यदि त्वेतद्विकल्पेऽपि गर्हायामव्ययं मतम् ।यदुर्नाऽऽद्यनृपे द्वे तु तद्वंश्येषु च मानवे ॥ ४५३३ ॥
42.4533 · p. 338
अनुष्टुप्
यद्वत्प्रश्ने वितर्के चाऽप्यव्ययं परिकीर्त्तितम् ।यन्ता हस्तिपके सूते पुंसि त्रिर्यमकर्त्तरि ॥ ४५३४ ॥
42.4534 · p. 338
अनुष्टुप्
यन्त्रं तु क्ली लघूपायकर्मनिर्माणसाधने ।यन्त्रणायां तु पुँल्लिङ्गो यन्त्रोऽयं परिकीर्त्तितः ॥ ४५३५ ॥
42.4535 · p. 338
अनुष्टुप्
यन्त्रणं स्यान्नियमने रक्षणे बन्धनेऽपि च ।यमो वैवस्वते पुंसि यमने च शनैश्चरे ॥ ४५३६ ॥
42.4536 · p. 338
अनुष्टुप्
शब्दवर्णविशेषेषु तथैव स्याच्चतुर्ष्वपि ।शरीरसाधनाऽपेक्षे सत्यादौ नित्यकर्मणि ॥ ४५३७ ॥
42.4537 · p. 338
अनुष्टुप्
वल्गिताख्यस्य घोटानां गतिभेदस्य चाष्टसु ।भेदेष्वेकत्र भेदे स्यात्क्ली तु युग्मे त्रिषु त्वदः ॥ ४५३८ ॥
42.4538 · p. 338
अनुष्टुप्
मरणे युग्मवति च यमी तु यमुना सरित् ।स्त्री यमाविति तु द्यावापृथिव्योरथ वायसे ॥ ४५३९ ॥
42.4539 · p. 338
अनुष्टुप्
हीनाधिकाङ्गतुरगे तथा स्त्रीपुंसयोर्मतः ।महिषे स्याद्यमरथो यमस्य स्यन्दनेऽपि च ॥ ४५४० ॥
42.4540 · p. 338
अनुष्टुप्
यमलं युगले क्लीबं यमली चोटिकाद्वये ।यमस्वसा तु दुर्गायां यमुनायामपि स्त्रियाम् ॥ ४५४१ ॥
42.4541 · p. 338
अनुष्टुप्
यम्या-याजकः
यम्या रात्रौ स्त्रियामुक्ता यन्तव्ये तु त्रिलिङ्गके ।यम्यो यमयितव्ये च यमसाधावपीष्यते ॥ ४५४२ ॥
42.4542 · p. 339
अनुष्टुप्
ययीस्तु पुंसि सूर्येऽपि मोक्षमार्गेऽपि कीर्त्तितः ।ययीः स्त्रीपुंसयोर्विप्र घोटके च प्रयुज्यते ॥ ४५४३ ॥
42.4543 · p. 339
अनुष्टुप्
स्त्री तु प्राप्तौ दीर्घवृष्टौ दिव्यवृष्टौ ययीर्मता ।ययुस्तु नाऽश्वमेधाऽश्वेऽश्वमात्रे तु द्वयोर्ययुः ॥ ४५४४ ॥
42.4544 · p. 339
अनुष्टुप्
यवा रश्मौ मनीषायां [ना ब्रीहौ महति त्रिषु] ।यवनं मिश्रणे द्वे तु शूद्राक्षत्रियजे तथा ॥ ४५४५ ॥
42.4545 · p. 339
अनुष्टुप्
वैश्याक्षत्रियजेऽपि स्याद्यवना तु नृभूमनि ।देशे हुरुष्कराख्ये तन्मर्त्ये सर्ववचो द्वयोः ॥ ४५४६ ॥
42.4546 · p. 339
अनुष्टुप्
यवनेष्टः पलाण्डूनां दशानामेकभेदके ।योगार्थे तु त्रिलिङ्गोयं यवनेष्टः प्रकीर्त्तितः ॥ ४५४७ ॥
42.4547 · p. 339
अनुष्टुप्
पुमान्यवफलो वेणौ मांसीकुटजयोरपि ।यविष्ठस्त्रिर्युवतमेऽग्नौ तु ना सवनाहुतेः ॥ ४५४८ ॥
42.4548 · p. 339
अनुष्टुप्
यवीयाननुजेऽपि स्यादिति यूनि च वाच्यवत् ।यव्यं यवोत्पत्त्युचिते क्षेत्रे यवहितेऽपि च ॥ ४५४९ ॥
42.4549 · p. 339
अनुष्टुप्
यवसाधावथ स्त्रीत्वे यव्या नद्यां प्रकीर्त्तिता ।यशस्तु सत्त्वख्यातिश्रीज्ञानमाहात्म्यवारिषु ॥ ४५५० ॥
42.4550 · p. 339
अनुष्टुप्
धनप्रतापयोश्चापि नपुंसकमुदीरितम् ।यशोदा त्वग्निचित्याया इष्टकासु च कासुचित् ॥ ४५५१ ॥
42.4551 · p. 339
अनुष्टुप्
नन्दगोपस्य पत्न्याञ्च त्रि तु कीर्त्तेः प्रदातरि ।यष्टिरस्त्री गृहस्थस्य दण्डे स्याद्दण्डमात्रके ॥ ४५५२ ॥
42.4552 · p. 339
अनुष्टुप्
तरवारौ च यष्टिः स्यात् तथा खड्गायुधान्तरे ।तथा हारलतायाञ्च स्त्री तु स्यान्मधुकोषधौ ॥ ४५५३ ॥
42.4553 · p. 339
अनुष्टुप्
यागो यज्ञेऽपि पुँल्लिङ्गो मण्डलेष्वपि कीर्त्तितः ।शैवागमप्रसिद्धेषु सर्वतोभद्रकादिषु ॥ ४५५४ ॥
42.4554 · p. 339
अनुष्टुप्
याच्ञाऽनुवर्त्तने स्त्री स्यात्प्रार्थनेऽपि तथेष्यते ।याजकस्त्रिर्याजयितृयष्ट्रोः पुंसि तु ऋत्विजि ॥ ४५५५ ॥
42.4555 · p. 339
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्या (wrong syllable)
याजन्यः-यावता
याजन्यस्तु पुमान्यज्ञे क्षत्रिये तु द्वयोर्मतः ।याजिको ना यज्ञविद्यामधीयाने विदत्यपि ॥ ४५५६ ॥
42.4556 · p. 340
अनुष्टुप्
कुशे च याजके त्रिस्तु यज्ञेन नयतीदृशे ।यातं हस्तिपककृत्ये तथा चाङ्कुशवारणे ॥ ४५५७ ॥
42.4557 · p. 340
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
गते तथा यतियतसम्बन्धिन्यभिधेयवत् ।यातयामं तु जीर्णेऽपि परिभुक्तोज्झिते त्रिषु ॥ ४५५८ ॥
42.4558 · p. 340
अनुष्टुप्
याता देवरपत्न्यां स्त्री यात्री तु त्रिषु गन्तरि ।यातु क्ली राक्षसे यातुः पापे ना पथिके त्रिषु ॥ ४५५९ ॥
42.4559 · p. 340
अनुष्टुप्
यात्रा तु यापनेऽपि स्याद्गमनोत्सवयोः स्त्रियाम् ।यादःपतिस्तु वरुणे समुद्रेऽपि पुमान्मतः ॥ ४५६० ॥
42.4560 · p. 340
अनुष्टुप्
यादवः केशवे पुंसि [यदुसम्बन्धिनि त्रिषु] ।यादसाम्पतिरम्भोधौ पश्चिमाशापतावपि ॥ ४५६१ ॥
42.4561 · p. 340
अनुष्टुप्
यानोऽस्त्री वाहने प्रोक्तो यानं क्ली गमने मतम् ।यापनावर्त्तने प्रस्थापने निरसनेऽपि च ॥ ४५६२ ॥
42.4562 · p. 340
अनुष्टुप्
कालक्षेपेऽपि च प्रोक्ता स्त्रियां चैव नपुंसके ।याप्यन्तु यापनीयेऽपि वाच्यवच्च विगर्हिते ॥ ४५६३ ॥
42.4563 · p. 340
अनुष्टुप्
यामं सामान्तरे ना तु प्रहरे यमनेऽपि च ।यामको यन्तरि त्रि स्याद्यामकौ तु पुनर्वसू ॥ ४५६४ ॥
42.4564 · p. 340
अनुष्टुप्
यामिः कुलस्त्रियामिष्टा तथैव स्वसरि स्त्रियाम् ।यामुनं स्रोतोऽञ्जने क्ली यमुनायोगिनि त्रिषु ॥ ४५६५ ॥
42.4565 · p. 340
अनुष्टुप्
याम्याऽवाच्यां भरण्यां च याम्योऽगस्त्ये च चन्दने ।यावो नाऽलक्तके माषे यवयोगिनि तु त्रिषु ॥ ४५६६ ॥
42.4566 · p. 340
अनुष्टुप्
यावको यवभेदे स्यात्कुल्माषाख्येऽप्यलक्तके ।यावको यवितर्येष त्रिलिङ्गः परिकीर्त्तितः ॥ ४५६७ ॥
42.4567 · p. 340
अनुष्टुप्
यावत् कार्त्स्न्ये प्रशंसायां परिच्छेदेऽवधारणे ।पक्षान्तरेऽपि च प्रोक्तोऽधिकारे मानसम्भ्रमे ॥ ४५६८ ॥
42.4568 · p. 340
अनुष्टुप्
यावतस्तु तुरुष्काख्यनिर्यासे पुंसि कीर्त्तितः ।यावता यावदर्थे तु स्त्रीनपुंसकयोर्मता ॥ ४५६९ ॥
42.4569 · p. 340
अनुष्टुप्
यावसं-यूषा
यावसं तु मतं क्लीबं मित्रे रक्ततृणोऽपि च ।युक्तः प्रकारे ना न्याय्यसमाहितयुते त्रिषु ॥ ४५७० ॥
42.4570 · p. 341
अनुष्टुप्
युक्तिः स्त्रियां समाधावप्युपपत्तौ च योजने ।युगं तु क्ली चतुर्हस्ते षडशीत्यङ्गुलेऽपि या ॥ ४५७१ ॥
42.4571 · p. 341
अनुष्टुप्
युग्मेऽथ तद्वति त्रि स्याद्युगा स्त्री ऋद्धिभेषजे ।युगोऽस्त्री स्यन्दनादीनामीषाबन्धनदारुणि ॥ ४५७२ ॥
42.4572 · p. 341
अनुष्टुप्
माने कृतादित्रेतादिकाले स्याज्जन्मपर्वसु ।युगन्धरोऽस्त्रियामेष प्रोक्तः स्यन्दनकूवरे ॥ ४५७३ ॥
42.4573 · p. 341
अनुष्टुप्
साल्वैकावयवे तु स्युर्नृभूमनि युगन्धराः ।युग्मं नपुंसकं शम्भुकार्मुके वाहनेऽपि च ॥ ४५७४ ॥
42.4574 · p. 341
अनुष्टुप्
युग्यस्तु युगसाधौ च युगवोढरि च त्रिषु ।युङ् सहाये द्वितीयादिसमसंख्ये त्रि वस्तुनि ॥ ४५७५ ॥
42.4575 · p. 341
अनुष्टुप्
युञ्जानः सारथौ पुंसि विप्रे द्वे योक्तरि त्रिषु ।युतोऽपृथक्कृते युक्ते बद्धे च त्रिषु नप्पुनः ॥ ४५७६ ॥
42.4576 · p. 341
अनुष्टुप्
मिश्रणे च पृथक्कारे बन्धने च युतादि तत् ।युतकं योषितो वस्त्रभेदे शूर्पाग्र एव च ॥ ४५७७ ॥
42.4577 · p. 341
अनुष्टुप्
यौतके युगले चापि संश्रये वसनाञ्चले ।युतकम्भेद्यवद्युक्ते युग्मावयवयोरपि ॥ ४५७८ ॥
42.4578 · p. 341
अनुष्टुप्
युद्धस्तु शत्रौ संग्रामे ना योद्धरि तु स त्रिषु ।युधिष्ठिरः पाण्डवानां ज्येष्ठे शक्रे तथा पुमान् ॥ ४५७९ ॥
42.4579 · p. 341
अनुष्टुप्
युध्मस्तु संयुगे पुंसि तथा धनुषि कीर्त्तितः ।युयुधानो युयुत्सौ त्रिः साहासान्वितयोद्धरि ॥ ४५८० ॥
42.4580 · p. 341
अनुष्टुप्
युयुधानस्तु कस्मिंश्चित्पुँल्लिङ्गो राजनि स्मृतः ।युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि ॥ ४५८१ ॥
42.4581 · p. 341
अनुष्टुप्
यूथिकाऽम्लानके पुष्पविशेषेऽपि च योषिति ।यूथी स्त्री मागधीवल्यां न स्त्री तिर्यक् [समूहयोः] ॥ ४५८२ ॥
42.4582 · p. 341
अनुष्टुप्
यूषोऽस्त्री व्यञ्जनरसे छायायां तु स्त्रियामियम् ।यूषा तु पुंसि च स्त्रीत्वे हिंसायां परिकीर्त्तिता ॥ ४५८३ ॥
42.4583 · p. 341
अनुष्टुप्
योक्त्रं-रंहिः
योक्त्रं स्यादङ्गुलौ तद्वत्करणे च युजेरपि ।योगः स्यात्सङ्गतौ प्राप्तौ जवे विस्रब्धघातिनि ॥ ४५८४ ॥
42.4584 · p. 342
अनुष्टुप्
ध्यानयोजनकार्ये संनहनेऽपि च भेषजे ।योगी ना यावशूकाख्यलवणे नागरङ्गके ॥ ४५८५ ॥
42.4585 · p. 342
अनुष्टुप्
समाहिते तु संयोगशीले योगवति त्रिषु ।योगिनी तु स्त्रियां शैलराजपुत्र्यां प्रकीर्त्तिता ॥ ४५८६ ॥
42.4586 · p. 342
अनुष्टुप्
योग्यं वृद्ध्यौषधेऽपूपे वाहनक्षीरचन्दने ।योग्यः क्षमे प्रवीणेऽर्हेऽप्युपायिन्यभिधेयवत् ॥ ४५८७ ॥
42.4587 · p. 342
अनुष्टुप्
योग्यो ना पुष्यनक्षत्रे योग्या ऋद्ध्यौषधे न ना ।योग्या पुनर्नवायां स्त्री रक्तायां गुणनेऽपि च ॥ ४५८८ ॥
42.4588 · p. 342
अनुष्टुप्
योग्यास्तु भूमनि स्त्रीत्वे भरणीषु प्रकीर्त्तिताः ।योजनं परमात्मन्यप्यध्वमाने नपुंसकम् ॥ ४५८९ ॥
42.4589 · p. 342
अनुष्टुप्
कोसलाद्येष्टयत्क्रोशचत्वारो मगणादिषु ।तथा युक्तिक्रियायां च लतापूगे तु योजनः ॥ ४५९० ॥
42.4590 · p. 342
अनुष्टुप्
अथ योजनगन्धेति जानक्यां व्यासमातरि ।तथा कस्तूरिकायाञ्च स्त्रीलिङ्गे परिकीर्त्तिता ॥ ४५९१ ॥
42.4591 · p. 342
अनुष्टुप्
योनिः स्त्रीणां भगे स्थाने गृहे कारणताम्रयोः ।आकरे च स्त्रियामेषा पुंसि चापि प्रकीर्त्तिता ॥ ४५९२ ॥
42.4592 · p. 342
अनुष्टुप्
यौतुकं कन्यया प्राप्ये पित्रादेः स्यान्नपुंसकम् ।लेख्येऽपि च त्रिषु त्वेतदात्मीये परिकीर्त्तितम् ॥ ४५९३ ॥
42.4593 · p. 342
अनुष्टुप्
यौनं त्रि योनिसम्बद्धे क्ली गर्भाधानसंस्कृतौ ।यौवनं नपि तारुण्ये युवतीनां कदम्बके ॥ ४५९४ ॥
42.4594 · p. 342
अनुष्टुप्
लावण्ये च कुचे चापि प्रोक्तं यौवनलक्षणम् ॥ ४५९४-१/२ ॥
42.81 · p. 342