All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
ध
धो धर्मब्रह्मधनदधैवतेष्वथ नब्धने ।धो धा च ब्रह्मणि ख्यातौ ना धा त्रिर्धारके भवेत् ॥ २७६४ ॥
35.2764 · p. 204
अनुष्टुप्
धटस्तुलाराशिदिव्यतुलयोश्चीवरे धटी ।धत्तो द्रुमेऽर्के क्ली गेहव्योमसूत्रे दिवि स्त्रियाम् ॥ २७६५ ॥
35.2765 · p. 204
अनुष्टुप्
धत्तूरो मातुले क्ली तु तत्फले हेम्नि चेष्यते ।धत्रं गेहव्योमसूत्रे दिवि स्त्री नाऽर्कवृक्षयोः ॥ २७६६ ॥
35.2766 · p. 204
अनुष्टुप्
धनं-धनुर्लता
धनं वित्ते गोव्रजे द्वितीयर्क्षे स्नेहपात्रयोः ।धनञ्जयोऽर्जुनेन्द्राग्निचित्रकेऽस्यहिभेदयोः ॥ २७६७ ॥
35.2767 · p. 205
अनुष्टुप्
धनदो ना कुबेरे च वृक्षे त्रिस्तु धनप्रदे ।द्वयोस्तु गुह्यके गेहभेदे तु धनदम्मतम् ॥ २७६८ ॥
35.2768 · p. 205
अनुष्टुप्
धनधारणमित्येत्स्वापतेयस्य धारणे ।व्यवहारप्रवृत्तानां लेख्यभेदेऽपि कीर्त्तितम् ॥ २७६९ ॥
35.2769 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुमान्धनपतिर्यक्षराज आढ्ये तु स त्रिषु ।धनवानम्बुधौ स्त्री तु धनिष्ठा धनवत्यपि ॥ २७७० ॥
35.2770 · p. 205
अनुष्टुप्
उद्भिद्भेदे धनहरः पुँल्लिङ्गः परिकीर्त्तितः ।नेपालगन्धद्रव्ये तु मता धनहरी स्त्रियाम् ॥ २७७१ ॥
35.2771 · p. 205
अनुष्टुप्
धनाध्यक्षः कुबेरेऽपि स्याद्धनाधिकृतेऽपि ना ।धनिकः साधुधनिनोस्त्रि स्त्री स्यात्साधुयोषिति ॥ २७७२ ॥
35.2772 · p. 205
अनुष्टुप्
धनिकाऽपि च धान्याके क्वचित्तु नृपयोषिति ।धनी कुबेरे पुँल्लिङ्गस्त्रिस्तु वाद्र्धुषिकाढ्ययोः ॥ २७७३ ॥
35.2773 · p. 205
अनुष्टुप्
धनिष्ठेऽतीव धनिकस्त्रिर्धनिष्ठर्क्षभिदि स्त्रियाम् ।धनुर्धनुः प्रियालस्य फले पापे च न द्वयोः ॥ २७७४ ॥
35.2774 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुमांस्तु स्यात्प्रियालद्रौ राशिभेदे शरासने ।भल्लातके चतुर्हस्तमानेऽपि स्याद्धनूरपि ॥ २७७५ ॥
35.2775 · p. 205
अनुष्टुप्
द्वीपे तु पुलिने नद्यादितटे स्त्री धनुर्धनूः ।धनुका तु स्त्रियां वध्वां भेद्यलिङ्गे तु साधुनि ॥ २७७६ ॥
35.2776 · p. 205
अनुष्टुप्
धनुर्ग्रहस्तु पुँल्लिङ्गः प्रमाणेऽष्टाङ्गुले मतः ।चापस्य ग्रहणे चाथ त्रिर्ग्रहीतरि धन्वनः ॥ २७७७ ॥
35.2777 · p. 205
अनुष्टुप्
धनुर्दण्डश्चतुर्हस्तप्रमाणे यौगिकेऽपि च ।धनुर्लता धनुर्वल्ल्यां सोमवल्ल्यामपीष्यते ॥ २७७८ ॥
35.2778 · p. 205
अनुष्टुप्
धनुः-धर्मः
धनुर्नृशण्डश्चापे क्ली चतुर्हस्तप्रमाणके ।धनुष्करश्चापकारे पुष्पभेदे धनुष्करी ॥ २७७९ ॥
35.2779 · p. 206
अनुष्टुप्
धनुष्कोटिश्चापकोटौ स्याद्रामेश्वरतीर्थके ।धनूस्त्रियान्धनुर्ज्यायान्धनुष्यप्युत्तमस्त्रियाम् ॥ २७८० ॥
35.2780 · p. 206
अनुष्टुप्
मूर्वामहेन्द्रवारुण्योर्धनुःश्रेणी प्रकीर्त्तिता ।धनेशस्तु कुबेरे ना स्यात्त्वाढ्ये भेद्यलिङ्गकः ॥ २७८१ ॥
35.2781 · p. 206
अनुष्टुप्
धन्यो धननिमित्ते च पुण्यवत्यपि वाच्यवत् ।अनीशवादिनि क्रौञ्चद्वीपवैश्ये पुनर्द्वयोः ॥ २७८२ ॥
35.2782 · p. 206
अनुष्टुप्
धन्या लता बृहतिकाधान्याकामलकीषु च ।धन्वा स्यान्मरुदेशे ना व्योम्नि चापत्स्थलेषु नप् ॥ २७८३ ॥
35.2783 · p. 206
अनुष्टुप्
धन्वन्तरिः काशिराजे भास्करेऽपि मतः पुमान् ।धन्वी तु ना धनूराशौ धानुष्के तु भवेत्त्रिषु ॥ २७८४ ॥
35.2784 · p. 206
अनुष्टुप्
धमनस्तु नडस्तम्बे पुंसि नासापुटेऽपि च ।धमनी स्त्री सिराहट्टविलासिन्योश्च वाचि च ॥ २७८५ ॥
35.2785 · p. 206
अनुष्टुप्
वाच्यवद्धमनः क्रूरे स्याद्भस्त्राध्मापकेऽपि च ।धरः कूर्मेशकार्पासीवसुभृद्गिरितूलके ॥ २७८६ ॥
35.2786 · p. 206
अनुष्टुप्
धरणन्त्वष्टके हेम्नः पलानां सप्ततौ तथा ।ताम्रस्य दशकेऽन्येषां रूप्यकर्षे च धारणे ॥ २७८७ ॥
35.2787 · p. 206
अनुष्टुप्
धारणी तु स्त्रियामेषा वसुधायाम्प्रकीर्त्तिता ।धरा भूमिगुडूच्योश्च स्त्रीगर्भाशयमेदसोः ॥ २७८८ ॥
35.2788 · p. 206
अनुष्टुप्
धराधरस्तु शैलेऽपि शिवेऽपि च पुमान्मतः ।धर्णसिस्तु पुमाञ्छैले सलिले तु नपुंसकम् ॥ २७८९ ॥
35.2789 · p. 206
अनुष्टुप्
धर्त्ता ऋदन्तः पुँल्लिङ्गो धर्मे स्याद्धारके त्रिषु ।धर्मोऽस्त्री सुकृते साम्ये स्वभावे लग्नराशितः ॥ २७९० ॥
35.2790 · p. 206
अनुष्टुप्
राशौ च नवमे प्राहुर्मौहूर्त्ता ना तु सोमपे ।न्यायाचारयमाहिंसाखड्गचापेषु राज्ञि च ॥ २७९१ ॥
35.2791 · p. 206
अनुष्टुप्
प्रधानशेषे सत्ये च श्रुतौ दण्डविनिर्णये ।सताञ्च सङ्गते यज्ञे तथैवोपनिषद्यपि ॥ २७९२ ॥
35.2792 · p. 206
अनुष्टुप्
धर्मणः-धामं
धर्मणस्तु प्रमान्वृक्षभेदसर्पप्रभेदयोः ।धर्मपालः पुमान्खड्गे त्रिस्तु धर्मस्य पालके ॥ २७९३ ॥
35.2793 · p. 207
अनुष्टुप्
धर्मराजस्तु बुद्धेऽपि यमेऽपि च युधिष्ठिरे ।धर्षणं क्ली मतं धार्ष्ट्येऽभिभवे सुरतेऽप्यथ ॥ २७९४ ॥
35.2794 · p. 207
अनुष्टुप्
धर्षणी कुलटायां स्त्री धर्षणम्भर्त्सने न ना ।धवो ना धवने धूर्ते प्रभौ पत्यौ च योषिताम् ॥ २७९५ ॥
35.2795 · p. 207
अनुष्टुप्
धुरन्धरद्रुमेऽथ क्ली तत्पले द्वे तु मानवे ।धवलो वृषभे श्वेते वर्णेऽथ धवला गवि ॥ २७९६ ॥
35.2796 · p. 207
अनुष्टुप्
वाच्यवत्तु श्वेतवर्णयुते श्रेष्ठे च सुन्दरे ।धाकः पुमानोदनेऽपि कीर्त्तितश्चानडुह्यपि ॥ २७९७ ॥
35.2797 · p. 207
अनुष्टुप्
धाणकस्तु पुमांश्छिद्रविधाने हविषां ग्रहे ।धाणका स्त्री पणतृतीयांशे सम्परिकीर्त्तिता ॥ २७९८ ॥
35.2798 · p. 207
अनुष्टुप्
धातुर्धनेऽस्थ्नि लोहे च शरीरे गैरिके रसे ।स्वर्णे रेतसि पाषाणे स्याद्भूवादिसुबन्तयोः ॥ २७९९ ॥
35.2799 · p. 207
अनुष्टुप्
वातादिशब्दस्पर्शादिगैरिकादित्वगादिषु ।आकारे च स्वभावे च पादे पञ्चाक्षरे तथा ॥ २८०० ॥
35.2800 · p. 207
अनुष्टुप्
महाभूतेष्विन्द्रियेषु श्लेष्मादौ च पुमानयम् ।धाता ब्रह्मणि ना त्रिस्तु पिबपालककर्भर्त्तृषु ॥ २८०१ ॥
35.2801 · p. 207
metre not recognisednearly अनुष्टुप्
… ।धात्री द्वयोः स्यात्कितवे धात्री तु स्त्र्युपमातरि ॥ २८०२ ॥
35.2802 · p. 207
अनुष्टुप्metre not read in every line
जनन्यामामलक्याञ्च वसुधायाञ्च कीर्त्तिता ।धानन्तु धारणे पाने दाने च क्लीबमिष्यते ॥ २८०३ ॥
35.2803 · p. 207
अनुष्टुप्
धाना भृष्टयवेऽपि स्त्री फलबीजे च भूरुहाम् ।धाना स्त्री भूरुहाम्बीजे कुस्तुम्बुरुणि चाप्यथ ॥ २८०४ ॥
35.2804 · p. 207
अनुष्टुप्
भूम्नि भृष्टयवेष्वेवं स्थूले तच्चूर्णकेऽपि च ।धामं त्वदन्तं तिलकतेजसोः क्लीबमिष्यते ॥ २८०५ ॥
35.2805 · p. 207
अनुष्टुप्
धाम-धिष्ण्यः
धाम स्थानाधिकरणधनत्विट्सारलक्ष्मसु ।गेहदेहप्रभावान्नभोजनेनव्योमजन्मसु ॥ २८०६ ॥
35.2806 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शाखायामपि वैचित्र्ये नकारान्तन्नपुंसकम् ।धामार्गवोऽपामार्गे कोशातक्यां प्रसवे तु नप् ॥ २८०७ ॥
35.2807 · p. 208
अनुष्टुप्
धारणस्तु स्तने लोके धातर्यर्के जले तु नप् ।धारणी नाडिकायां स्याद्बौद्धमन्त्राऽन्तरेप्यथ ॥ २८०८ ॥
35.2808 · p. 208
अनुष्टुप्
धारणा योगाङ्गभेदे चित्तस्य स्थिरधारणे ।अनाऽनुवहने चैव मर्यादायाञ्च धारणा ॥ २८०९ ॥
35.2809 · p. 208
अनुष्टुप्
धारा प्रवाहे नद्यादेः सैन्याग्रे द्रवसन्ततौ ।वाचि शस्त्रमुखेऽश्वानां गतिष्वास्कन्दितादिषु ॥ २८१० ॥
35.2810 · p. 208
अनुष्टुप्
घटादिच्छिद्रसन्तत्योर्धारस्त्वश्मान्तरे फणे ।धाराङ्कुरस्तु नासीरे शीकरेऽपि घनोपले ॥ २८११ ॥
35.2811 · p. 208
अनुष्टुप्
धाराङ्गस्त्ववतारेऽश्रावस्त्री न तीर्थखङ्गयोः ।धाराटस्तु द्वयोरश्वे चातकेऽपि प्रकीर्त्तितः ॥ २८१२ ॥
35.2812 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
धाराधरस्तु खड्गेऽपि जलदेऽपि पुमान्मतः ।धार्त्तराष्ट्रो द्वयोश्चञ्चूचरणैरसितैः सिते ॥ २८१३ ॥
35.2813 · p. 208
अनुष्टुप्
हंसभेदेऽप्यपत्ये च धृतराष्ट्रस्य ना पुनः ।नागराजेऽसुरे त्रिस्तु धृतराष्ट्रस्य योगिनि ॥ २८१४ ॥
35.2814 · p. 208
अनुष्टुप्
धार्मिको नृपतेर्धर्माऽधिकृते पुरुषे त्रि तु ।पाठके धर्मशास्त्राणान्धर्मस्य चरितर्यपि ॥ २८१५ ॥
35.2815 · p. 208
अनुष्टुप्
धावनं क्लीबलिङ्गं स्याच्छोधने च गतावथ ।धौताञ्चले पृश्निपर्ण्यां रजन्यां धावनी स्त्रियाम् ॥ २८१६ ॥
35.2816 · p. 208
अनुष्टुप्
न तु ना धावयत्यर्थे धावनन्धावना भवेत् ।धिग्भर्त्सने च निन्दायामव्ययं परिकीर्त्तितम् ॥ २८१७ ॥
35.2817 · p. 208
अनुष्टुप्
धिषणा तु स्त्रियाम्बुद्धौ स्त्री चिह्ने पार्वतीगिरोः ।धिषणे त्वेव रोदस्योर्धिषणास्तु बृहस्पतौ ॥ २८१८ ॥
35.2818 · p. 208
अनुष्टुप्
धिष्ण्यो वह्नौ याज्ञिकानां वह्निभेदेषु केषुचित् ।तुषास्थानेषु शुक्राख्यमङ्गलग्रहयोरथ ॥ २८१९ ॥
35.2819 · p. 208
अनुष्टुप्
धिष्ण्यम्-धूलिकदम्बः
धिष्ण्योल्कायां क्ली तु गेहासनस्थानर्क्षशक्तिषु ।धीर्ज्ञानं ज्ञानभेदे च बुद्धौ कर्मणि च स्त्रियाम् ॥ २८२० ॥
35.2820 · p. 209
अनुष्टुप्
धीता बुद्धौ सुतायां च कन्यायां च स्त्रियां मता ।धीतिस्तु त्र्यङ्गुलौ पानेऽप्याधारे च व्यवस्थितौ ॥ २८२१ ॥
35.2821 · p. 209
अनुष्टुप्
धीमान्बृहस्पतौ पुंसि पण्डिते त्वभिधेयवत् ।धीरोऽब्धौ मन्थरे तु त्रि धृतिमद्विदुषोरपि ॥ २८२२ ॥
35.2822 · p. 209
अनुष्टुप्
धीरन्तु कुङ्कुमे धीरा गुडूच्याम्परिकीर्त्तिता ।धीवा व्याधौ पुमान्धीवा धीवरी सुरमत्स्ययोः ॥ २८२३ ॥
35.2823 · p. 209
अनुष्टुप्
धीवधीवाधीवरीति त्रिषु कर्मकरे भवेत् ।धीवरो नाऽम्बुधौ व्याधे काललोहे तु धीवरम् ॥ २८२४ ॥
35.2824 · p. 209
अनुष्टुप्
द्वे तु दाशेऽपि मर्त्ये च कैवर्त्तीवृषलोद्भवे ।धुतन्तु कम्पिते त्यक्ते भर्त्सिते धूतवत्त्रिषु ॥ २८२५ ॥
35.2825 · p. 209
अनुष्टुप्
धुनी नद्यां स्त्रियामुक्ता धुनस्तु स्यान्नरे पुमान् ।धुन्धुमारः शक्रगोपे गृहधूमे पदाऽलिके ॥ २८२६ ॥
35.2826 · p. 209
अनुष्टुप्
धूरङ्गुलौ यानमुखे साम्नान्द्रष्टृषु केषुचित् ।भारे विकृतगीतौ स्त्री गायत्राह्वयसामनि ॥ २८२७ ॥
35.2827 · p. 209
अनुष्टुप्
धुरन्धरो धवद्रौ ना वाच्यलिङ्गस्तु धूर्वहे ।धूरूदन्ता स्त्रियामेव धूनने परिकीर्त्तिता ॥ २८२८ ॥
35.2828 · p. 209
अनुष्टुप्
धूका स्त्री कामिलायां स्याद्धको व्याधौ पुमान्मतः ।धूतन्तु कम्पिते त्यक्ते भर्त्सितेऽप्यभिधेयवत् ॥ २८२९ ॥
35.2829 · p. 209
अनुष्टुप्
धूमकेतन इत्युक्तः केतुग्रह हुताशयोः ।धूमकेतुः पुमानग्नौ स्यादुत्पातान्तरेऽपि च ॥ २८३० ॥
35.2830 · p. 209
अनुष्टुप्
धूमलो ना कृष्णरक्ते वर्णे त्रिषु तु तद्वति ।देवतार्चनतूर्ये तु धूमलम्पुंनपुंसकम् ॥ २८३१ ॥
35.2831 · p. 209
अनुष्टुप्
धूर्त्तः शिवे कुरवके ना धुर्धूरकदम्बयोः ।क्लीबन्तु खण्डलवणे प्रसवे चोक्तभूरुहाम् ॥ २८३२ ॥
35.2832 · p. 209
अनुष्टुप्
अयोमयेऽपि पत्राङ्गे भेद्यलिङ्गन्तु वञ्चके ।धूलीकदम्बो वरुणफले नीपान्तरे पुमान् ॥ २८३३ ॥
35.2833 · p. 209
अनुष्टुप्
धूसरः-ध्वाङ्क्षिः
धूसरो द्वे खरे स्त्री तु धूसरी किंनरीभिदि ।स्तोकपाण्डुरवर्णे तु धूसरो ना त्रि तद्वति ॥ २८३४ ॥
35.2834 · p. 210
अनुष्टुप्
धृतराष्ट्रः सुराज्ञि स्यान्नागक्षत्रियभेदयोः ।धृतराष्ट्री स्त्रियामेषा हंसपत्न्याम्प्रकीर्त्तिता ॥ २८३५ ॥
35.2835 · p. 210
अनुष्टुप्
धृतिर्धारणसन्तोषधैर्यशौर्यसुखे स्त्रियाम् ।द्वासप्तत्युत्तरच्छन्दोविशेषेऽपि तथा मता ॥ २८३६ ॥
35.2836 · p. 210
अनुष्टुप्
धृत्वा विष्णौ गिरावब्धौ यतौ ना धृत्वरी भुवि ।धृष्टिः पुमान्भवेद्रश्मौ स्त्रियां सा धर्षणे मता ॥ २८३७ ॥
35.2837 · p. 210
अनुष्टुप्
धृष्णुः प्रगल्भे चौरे त्रिर्ना तु सन्तापशैलयोः ।धेनुः स्त्रियां स्याद्धस्तिन्यान्नवसूतगवीगिरोः ॥ २८३८ ॥
35.2838 · p. 210
अनुष्टुप्
नपुंसकन्तु धेन्वे तत्सामभेदे क्वचिन्मतम् ।धेनुका क्षुरिकोमागोकरेणुष्वसुरे तु ना ॥ २८३९ ॥
35.2839 · p. 210
अनुष्टुप्
धैनुकन्धेनुसङ्घेऽपि रतबन्धान्तरे तु नप् ।धोतस्तु मारुते पुंसि शठे तु त्रिषु कीर्त्तितः ॥ २८४० ॥
35.2840 · p. 210
अनुष्टुप्
धोरणं वाहनेऽश्वानां धोरिते रथगतौ च नप् ।त्रिषु त्वेतद्गतियुतेऽथ हंसे धोरणो द्वयोः ॥ २८४१ ॥
35.2841 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ध्यामन्दमनके गन्धतृणेऽथ श्यामले त्रिषु ।ध्राजिः पिटकजातौ स्त्री वात्यायामपि कीर्त्तिता ॥ २८४२ ॥
35.2842 · p. 210
अनुष्टुप्
ध्रुवः शङ्कौ हरे विष्णौ वटे चोत्तानपादजे ।वसुयोगभिदोः पुंसि त्रिर्नित्ये निश्चले स्फुटे ॥ २८४३ ॥
35.2843 · p. 210
अनुष्टुप्
ध्रुवा तु स्त्री सालपर्ण्यां गीतिस्रुग्भेदयोर्भुवि ।ध्वजमस्त्री पताकायाञ्चिह्ने पूर्वदिशो गृहे ॥ २८४४ ॥
35.2844 · p. 210
अनुष्टुप्
खट्वाङ्गशिश्नयोर्ना तु तालद्रौ शौण्डिके द्रुमे ।ध्वजी द्वे शौण्डिके चम्वां ध्वजिनी त्रिर्ध्वजान्विते ॥ २८४५ ॥
35.2845 · p. 210
अनुष्टुप्
ध्वनिताला तु वीणायां वेणुकाहलयोरपि ।ध्वस्तं ग्रासीकृते लुप्ते नयहीनेऽपि वाच्यवत् ॥ २८४६ ॥
35.2846 · p. 210
अनुष्टुप्
ध्वाङ्क्षो ध्वाङ्क्षी बके काके ध्वाङ्क्षा द्वे घोरवाशिते ।ना भिक्षौ तक्षके ध्वाङ्क्षो ध्वाङ्क्षी कक्कोलिकौषधौ ॥ २८४७ ॥
35.2847 · p. 210
अनुष्टुप्
ध्वाङ्क्षिर्ध्वाङ्क्षतिधातौ ना स्त्री तु स्याद्घोरवाशिते ॥ २८४७-१/२ ॥
35.85 · p. 210