कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

त (1/2)

तश्चौरामृतपुच्छेषु क्रोडे म्लेच्छे च कुत्रचित् ।पुमांस्तु तरणे पुण्ये कथितः शब्दवेदिभिः ॥ २३५८ ॥
32.2358 · p. 175
अनुष्टुप्
तक्षकस्त्रिस्तक्षितरि ना तु तक्ष्ण्युरगान्तरे ।तक्षा ना वर्द्धकौ द्वे तु विप्रीकरणजे नरे ॥ २३५९ ॥
32.2359 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त (wrong syllable)
आयोगवे च वृश्चिश्चेत्तक्षणं तस्य ना पुनः ।तक्षा दीपे ज्वरे सूर्य आतपे क्ली तु पुत्रयोः ॥ २३६० ॥
32.2360 · p. 175
अनुष्टुप्
तगरन्तु नताख्ये स्याद्गन्धद्रव्ये नपुंसकम् ।नन्द्यावर्त्तस्य पुष्पेऽथ तद्गुल्मे तगरः पुमान् ॥ २३६१ ॥
32.2361 · p. 175
अनुष्टुप्
तङ्कः सम्भावनायाञ्च भीतावपि पुमान्मतः ।तटस्तटी तटञ्चेति त्रिषु तीरेऽद्रिसानुनि ॥ २३६२ ॥
32.2362 · p. 175
अनुष्टुप्
तथा जलाशयप्रान्ते क्षेत्रे तु क्ली तटम्मतम् ।तटिस्तटतिधातौ ना सूनायां तु स्त्रियाम्मतम् ॥ २३६३ ॥
32.2363 · p. 175
अनुष्टुप्
तडागोऽस्त्री जलाधारविशेषे यन्त्रकूटके ।तण्डकः खञ्जने फेने समासप्रायवाचि च ॥ २३६४ ॥
32.2364 · p. 175
अनुष्टुप्
देवदारुतरुस्कन्धमायाबहुलकेष्वपि ।तण्डुलस्तु नृलिङ्गः स्याद्ब्रीह्यादिफलबीजके ॥ २३६५ ॥
32.2365 · p. 175
अनुष्टुप्
विडङ्गे च स्त्रियान्त्वेषा पिप्पल्यां तण्डुला मता ।तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ॥ २३६६ ॥
32.2366 · p. 175
अनुष्टुप्
तण्डुवीणः कीटमात्रे बर्बरे तण्डुलोदके ।तण्डूर्द्रोणिप्लवे चैव तथा दर्व्यां स्त्रियां मता ॥ २३६७ ॥
32.2367 · p. 175
अनुष्टुप्
ततं व्याप्ते विस्तृते च वाच्यवत्परिकीर्त्तितम् ।क्लीबं वीणादिवाद्येऽथ ततो वायौ पितर्यपि ॥ २३६८ ॥
32.2368 · p. 175
अनुष्टुप्

तत्त्वं-तपः

तत्त्वं स्वरूपे परमात्मनि भूते रहस्यके ।विलम्बिताख्यनृत्ये च नपुंसकमुदीरितम् ॥ २३६९ ॥
32.2369 · p. 176
अनुष्टुप्
तथाभ्युपगमे पृष्टप्रतिवाक्यसमुच्चये ।सदृशे निश्चयेऽप्येतदव्ययं परिकीर्त्तितम् ॥ २३७० ॥
32.2370 · p. 176
अनुष्टुप्
तनुर्वपुषि लग्ने चासृग्धरायामपि स्त्रियाम् ।तन्वी स्त्रियां स्यात्पिप्पल्यां नान्दीवृक्षे तनुः पुमान् ॥ २३७१ ॥
32.2371 · p. 176
अनुष्टुप्
तनुस्तु विरलेऽल्पे च भेद्यलिङ्गः प्रकीर्त्तितः ।तनुस्तु सान्तं क्लीबं च स्याद्विस्तारशरीरयोः ॥ २३७२ ॥
32.2372 · p. 176
अनुष्टुप्
तनूनपात्तु पुँल्लिङ्ग आज्ये चाग्नौ च कीर्त्तितः ।तनूरुहन्तु लोम्नि स्यात्पतत्रे च नपुंसकम् ॥ २३७३ ॥
32.2373 · p. 176
अनुष्टुप्
तन्तुस्तु सूत्रे ना यज्ञसंस्थायां चाऽथ स द्वयोः ।एकत्र भेदे भेदानाम्मण्डलाह्वयभोगिनाम् ॥ २३७४ ॥
32.2374 · p. 176
अनुष्टुप्
ग्राहाख्ययादोभेदे च सामभेदे पुनर्नपि ।सर्वाग्निचित्यायाः पुच्छे पक्ष्याकारस्य वस्तुनः ॥ २३७५ ॥
32.2375 · p. 176
अनुष्टुप्
छुरिकायां च खड्गादि मुष्टौ चाप्यस्त्रियां मतः ।तन्नुवायः कुविन्देऽपि तथा लूताक्रिमौ द्वयोः ॥ २३७६ ॥
32.2376 · p. 176
अनुष्टुप्
तन्त्रस्वराष्ट्रव्यापारे तन्तुवायपरिच्छदे ।शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणाम् ॥ २३७७ ॥
32.2377 · p. 176
अनुष्टुप्
एकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि ।सेनायां सामसूत्रे च सिद्धान्तेऽन्यकुटुम्बके ॥ २३७८ ॥
32.2378 · p. 176
अनुष्टुप्
क्रतुकामाभिवादानामृक्सामानां समागमे ।अथ तन्त्री स्त्रियामेव वीणाया गुण इष्यते ॥ २३७९ ॥
32.2379 · p. 176
अनुष्टुप्
तन्त्रकं नववस्त्रे स्याद्गुडूच्यां तन्त्रिका मता ।तपोऽर्केऽपि च वीतंसनाम्नि ना पक्षिबन्धने ॥ २३८० ॥
32.2380 · p. 176
अनुष्टुप्
तपनोरुष्करतरौ रवौ धर्मे पशावपि ।चन्द्रे नरकभेदे ना तपनन्तापकर्मणि ॥ २३८१ ॥
32.2381 · p. 176
अनुष्टुप्
तपनीयं त्रि तप्तव्ये क्ली स्वर्णे शालिभिद्यपि ।तपस्तु नपि कृच्छ्रादौ धर्मसन्तापयोरपि ॥ २३८२ ॥
32.2382 · p. 176
अनुष्टुप्

तपा-तरण्डः

लग्नान्नवमराशौ च शिशिरर्त्तौ तथा त्वचि ।लोकभेदेऽप्यथ तपा न स्त्रियां माघमास्ययम् ॥ २३८३ ॥
32.2383 · p. 177
अनुष्टुप्
तपसस्तु पुमांश्चन्द्रे वाच्यवन्महति स्मृतः ।तपस्या व्रतचर्यायां तपस्यः फाल्गुने पुमान् ॥ २३८४ ॥
32.2384 · p. 177
अनुष्टुप्
तपस्वी शिशिरर्त्तौ च चन्द्रे च त्रिस्तु तापसे ।शौच्येऽथ मांस्यां कटुरोहिण्यां च स्त्री तपस्विनी ॥ २३८५ ॥
32.2385 · p. 177
अनुष्टुप्
तपोधनस्तापसे स्यान्मुण्डिर्यान्तु तपोधना ।तप्ता स्याद्भास्करे पुंसि भेद्यलिङ्गस्तु तापके ॥ २३८६ ॥
32.2386 · p. 177
अनुष्टुप्
तमः क्ली नरके शोके पापे ध्वान्ते ज्वलत्यपि ।अज्ञाने प्रकृतेः सत्त्वरजोभिन्ने गुणे निशि ॥ २३८७ ॥
32.2387 · p. 177
अनुष्टुप्
तमास्तु राहावुदितः पुंनपुंसकयोरयम् ।तमसा स्त्री नदीभेदे नारूपाऽध्यवसाययोः ॥ २३८८ ॥
32.2388 · p. 177
अनुष्टुप्
तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे ।तमालपत्रं तापिञ्जे तिलके पत्रकेपि च ॥ २३८९ ॥
32.2389 · p. 177
अनुष्टुप्
तमिस्रमन्धतमसे तमोमात्रक्रुधोरना ।तमिस्रा ध्वान्तरात्रौ च रात्रिमात्रेऽपि च स्त्रियाम् ॥ २३९० ॥
32.2390 · p. 177
अनुष्टुप्
तमोनुत्पुंसि चन्द्रार्कपावकेषु प्रकीर्त्तितः ।तमोनुदस्तमोनुद्वत्पुंसि चन्द्रार्कवह्निषु ॥ २३९१ ॥
32.2391 · p. 177
अनुष्टुप्
तमोऽपहः पुमान्सूर्ये चन्द्रे चाग्नौ जिनेऽपि च ।तरोऽग्नौ तरणे पुंसि पेटके तु तरी स्त्रियाम् ॥ २३९२ ॥
32.2392 · p. 177
अनुष्टुप्
तरङ्गिणी हरिद्रायां नद्यां सोर्मिणि तु त्रिषु ।तरणिः सूर्यवार्ध्योर्ना स्त्री सरिन्नौरयेष्वियम् ॥ २३९३ ॥
32.2393 · p. 177
अनुष्टुप्
पुष्पस्तम्बे कुमार्याख्ये व्रजस्तम्भे च सोप्ययम् ।गवामुत्थापने काष्ठे पतितानां त्रि तु द्रुते ॥ २३९४ ॥
32.2394 · p. 177
अनुष्टुप्
तरण्डो वडिसीसूत्रबद्धकाष्ठादिके प्लवे ।नौकायामथ न स्त्री स्यात्तिन्तिडीडिम्बचिञ्चयोः ॥ २३९५ ॥
32.2395 · p. 177
अनुष्टुप्

तरत्-तलश्च

तरत् स्त्रियां प्लवेपि स्यात्कारण्डे च विहङ्गमे ।तरत्रं क्ली प्लवे त्रिस्तु घासहारिणि तन्मतम् ॥ २३९६ ॥
32.2396 · p. 178
अनुष्टुप्
तरन्तस्तु द्वयोर्भेके वाच्यवत्स्यात्तरी तरि ।तरलं त्रिश्चञ्चले च भास्वरे तरलस्तु ना ॥ २३९७ ॥
32.2397 · p. 178
अनुष्टुप्
हारमध्यगरत्ने च हारे च तरलं तु नप् ।चर्मकोशेऽथ तरला यवागूसुरयोः स्त्रियाम् ॥ २३९८ ॥
32.2398 · p. 178
अनुष्टुप्
तरवारिः सायके ना स्त्री यष्ट्याख्यायुधान्तरे ।तरो बले च वेगे च सान्तं क्लीबमुदीरितम् ॥ २३९९ ॥
32.2399 · p. 178
अनुष्टुप्
तरस्वी द्वे व्याघ्रकप्योस्त्रिशूरबलिवेगिषु ।तरिशब्दः समाख्यातः पुंसि वैश्वानरानले ॥ २४०० ॥
32.2400 · p. 178
अनुष्टुप्
स्त्री चर्मवृतपेडायां नावि चैव तरिर्मता ।तरीषः शोभनाकारे भेलेऽब्धिव्यवसाययोः ॥ २४०१ ॥
32.2401 · p. 178
अनुष्टुप्
तरुजस्तु पुमानग्नौ भेद्यलिङ्गस्तु वृक्षजे ।तरुणं यूनि भव्ये त्रिर्नैरण्डे कुब्जपुष्पके ॥ २४०२ ॥
32.2402 · p. 178
अनुष्टुप्
तर्कः काङ्क्षावितर्कोहहेतुशास्त्रेषु कथ्यते ।तर्कारः पादपे तक्रे नवनीतेन संयुते ॥ २४०३ ॥
32.2403 · p. 178
अनुष्टुप्
स्यात्सद्योमथिते वैजयन्त्यां तर्कार्युदीरिता ।तर्कुः पुमान्सूत्रवेष्टशलाकायाम्प्रकीर्त्तितः ॥ २४०४ ॥
32.2404 · p. 178
अनुष्टुप्
अनलाधारपात्रेऽपि तथा शेफस्यपीष्यते ।तर्तरीकं वहित्रे त्रि पारणे तु त्रिषु स्मृतम् ॥ २४०५ ॥
32.2405 · p. 178
अनुष्टुप्
तर्पणन्तु गुडाज्याढ्यलाजसक्तुषु चेन्धने ।तृप्तौ तर्पयतेस्त्वर्थे तर्पणं तर्पणा न ना ॥ २४०६ ॥
32.2406 · p. 178
अनुष्टुप्
जलोद्भवे तु शृङ्गारस्तम्बे तर्पण एष ना ।तर्षः पुमान्पिपासायां लिप्सायां च प्रकीर्त्तितः ॥ २४०७ ॥
32.2407 · p. 178
अनुष्टुप्
तलश्च पेटे तालाख्यद्रुमे शीतगुणे च ना ।त्रि तु तद्वति शण्डे तु तालसंज्ञतरोः फले ॥ २४०८ ॥
32.2408 · p. 178
अनुष्टुप्
पाताले समदेशे च चतुर्भागे पलस्य च ।पाणिना दक्षिणेनैव वीणातन्त्र्याश्च ताडने ॥ २४०९ ॥
32.2409 · p. 178
अनुष्टुप्

तलम्-ताम्बूलं

अधःस्वरूपयोस्त्वस्त्री तलमेतत्प्रकीर्त्तितम् ।धने स्तरौ कार्यबीजे हस्तघ्ने तु तला तलम् ॥ २४१० ॥
32.2410 · p. 179
अनुष्टुप्
तलितं विरले स्तोके तुच्छे चाप्यभिधेयवत् ।अट्टालिकायान्तु स्त्रीत्वे तलिन्येषा प्रकीर्त्तिता ॥ २४११ ॥
32.2411 · p. 179
अनुष्टुप्
तलिमं कुट्टिमे तल्पे चन्द्रहासे वितानके ।तलुनः पवने यूनि युवत्यां तलुनी स्मृता ॥ २४१२ ॥
32.2412 · p. 179
अनुष्टुप्
तल्पं शय्याऽट्टदारेषु संग्रामे नौशिरस्यपि ।तल्ली तरुण्यान्तल्लस्तु जलाधारान्तरे पुमान् ॥ २४१३ ॥
32.2413 · p. 179
अनुष्टुप्
तविषस्त्वर्णवे स्वर्गे बले ना तविषी भुवि ।वात्यायां देवकन्यायामिन्द्रपुत्र्यामपि स्त्रियाम् ॥ २४१४ ॥
32.2414 · p. 179
अनुष्टुप्
ताडो ना ताडने ताडी स्त्री तालीपादपे मता ।ताडिः स्त्री तरुभेदेऽपि तथैवाभरणान्तरे ॥ २४१५ ॥
32.2415 · p. 179
अनुष्टुप्
ताण्डस्तु ताडने घोषे मुष्टिमेयतृणादिषु ।यवद्रुमे तथैवाऽयम्पुँल्लिङ्गः परिकीर्त्तितः ॥ २४१६ ॥
32.2416 · p. 179
अनुष्टुप्
ताण्डवस्त्वस्त्रियां नृत्ते तृणभेदे च कीर्त्तितः ।तातस्तु जनके चाऽनुकम्प्येऽपि च पुमान्मतः ॥ २४१७ ॥
32.2417 · p. 179
अनुष्टुप्
तातगुः क्षुद्रताते ना ताताय तु हिते त्रिषु ।तातलो रुजि पाके च लोहकूटे पुमानथ ॥ २४१८ ॥
32.2418 · p. 179
अनुष्टुप्
स्यान्मनोजवसे तप्ते तातलः सोऽभिधेयवत् ।तानन्तु गीतिधर्मे स्याद्विस्तारे तान इष्यते ॥ २४१९ ॥
32.2419 · p. 179
अनुष्टुप्
तान्तस्तु मासे ना श्रान्तिमति तु त्रिषु कीर्त्तितः ।तापिस्तापयतौ दैत्यभेदे ना स्त्री नदीभिदि ॥ २४२० ॥
32.2420 · p. 179
अनुष्टुप्
तापिच्छस्तु तमालद्रौ काकतुण्ड्याञ्च पुंस्ययम् ।तापी नद्यन्तरे तापः पुमान्सन्तापकृच्छ्रयोः ॥ २४२१ ॥
32.2421 · p. 179
अनुष्टुप्
क्लीबन्तामरसं पद्मे ताम्रकाञ्चनयोरपि ।तामसं तमसायुक्ते त्रिः खले सतमोगुणे ॥ २४२२ ॥
32.2422 · p. 179
अनुष्टुप्
प्रावृण्निशि तु दुर्गायां निद्रायां निशि तामसी ।ताम्बूलं वृक्षपत्रेऽपि नागवल्लीदलस्य च ॥ २४२३ ॥
32.2423 · p. 179
अनुष्टुप्

ताम्बूली-ताली

शुक्तिचूर्णस्य पूगस्य वीट्यां पूगफलेऽपि च ।ताम्बूली तु स्त्रियामेषा नागवल्ल्याम्प्रकीर्त्तिता ॥ २४२४ ॥
32.2424 · p. 180
अनुष्टुप्
ताम्रा स्त्री कृष्णलावल्ल्यां ताम्रं क्ली शुल्बरूपयोः ।ना शुल्बवर्णसदृशे वर्णे तद्वति तु त्रिषु ॥ २४२५ ॥
32.2425 · p. 180
अनुष्टुप्
ताम्रचूडो रक्तचूडे त्रिर्द्वयोः कुक्कुटे मतः ।ताम्रवृन्तः कुलत्थे ना रक्तवृन्ते तु वाच्यवत् ॥ २४२६ ॥
32.2426 · p. 180
अनुष्टुप्
तारस्तु शुद्धयुक्तायां मुक्ताशुद्धौ च तारणे ।रदे वानरभेदेऽपि तारा तु स्यान्नरस्त्रियोः ॥ २४२७ ॥
32.2427 · p. 180
अनुष्टुप्
नक्षत्रे नेत्रमध्ये च रजते तु नृशण्डयोः ।स्त्री बुद्धदेवताभेदे बालिगीष्पतिभार्ययोः ॥ २४२८ ॥
32.2428 · p. 180
अनुष्टुप्
त्रि तूच्चशब्दे विशदे क्लीबं तु प्रणवेऽम्बुजे ।तारका त्वपुमानक्षितारानक्षत्रयोरथ ॥ २४२९ ॥
32.2429 · p. 180
अनुष्टुप्
कर्णधारे दैत्यभेदे पुंसि स्यात्प्रणवे तु नप् ।तरीतृतारयित्रोस्तु त्रिर्देवीभिदि तारिका ॥ २४३० ॥
32.2430 · p. 180
अनुष्टुप्
तारणः सौरसंक्रान्त्यवधिके मासि पुंस्ययम् ।तारणी त्वस्त्रियां गोष्ठ्यां त्रि तु सम्बन्धिनि स्मृतः ॥ २४३१ ॥
32.2431 · p. 180
अनुष्टुप्
तरणेस्तारणस्याथ चार्थे तारयतेरना ।तार्क्ष्यो ना गरुडे विष्णौ विष्णोर्वामनविग्रहे ॥ २४३२ ॥
32.2432 · p. 180
अनुष्टुप्
शैलजे च रथे चापि गरुडस्य तथाऽग्रजे ।तार्क्ष्यं रसाञ्जने सौवर्चले च क्ली द्वयोर्हये ॥ २४३३ ॥
32.2433 · p. 180
अनुष्टुप्
तार्णं भारतवर्षस्य द्वीपभेदे नपुंसकम् ।तृणसम्बन्धिनि त्वेतत्तार्णं स्यादभिधेयवत् ॥ २४३४ ॥
32.2434 · p. 180
अनुष्टुप्
तालः कालक्रियामाने चपेटे त्रपुसेत्सरौ ।तृणराजे करास्फालेऽङ्गुष्ठमध्यमयोर्मितौ ॥ २४३५ ॥
32.2435 · p. 180
अनुष्टुप्
इक्षुभेदे च नाऽथ स्त्री ताली दृढदलाह्वये ।तृणद्रुमे तामलकी सौराष्ट्रीमुसलीषु च ॥ २४३६ ॥
32.2436 · p. 180
अनुष्टुप्
प्रतिताल्यामथ क्लीबं हरिताले फलेषु च ।अत्रोक्तस्थावराणां स्यात्कांस्यस्थाल्यान्तु तत्र ये ॥ २४३७ ॥
32.2437 · p. 180
अनुष्टुप्

तालकं-तिरीटः

तालकं द्वारयन्त्रे च कर्णभूषणभिद्यपि ।पुमांस्तूष्णगुणे त्रिस्तु तद्वत्ययमुदीरितः ॥ २४३८ ॥
32.2438 · p. 181
अनुष्टुप्
तालपत्री स्त्रियां वाद्यभेदे स्यात्तालसंज्ञके ।तथा मूषिकपर्ण्यां न तु ना ताडङ्कभूषणे ॥ २४३९ ॥
32.2439 · p. 181
अनुष्टुप्
तालितं तूलितपटं गुणवादित्रभाण्डयोः ।तालीशपत्रं भूम्यामलकीतालीशयोः स्मृतम् ॥ २४४० ॥
32.2440 · p. 181
अनुष्टुप्
तावत्तत्परिमाणे त्रिरव्ययं त्ववधारणे ।संभ्रमे च परिच्छेदे तथा कार्त्स्न्याधिकारयोः ॥ २४४१ ॥
32.2441 · p. 181
अनुष्टुप्
ताविषः स्वर्गवारिध्योस्ताविषी भूसरिद्भिदोः ।वात्यायां देवकन्यायां क्ली तु तेजसि ताविषम् ॥ २४४२ ॥
32.2442 · p. 181
अनुष्टुप्
तिक्तस्तु पर्पटे पुंसि पटोले गुग्गुलावपि ।विरसाख्यरसे षण्णां रसानां कटुकेऽपि च ॥ २४४३ ॥
32.2443 · p. 181
अनुष्टुप्
गन्धे च सुरभावे तद्गुणत्रययुते त्रिषु ।तिक्तपर्वा गुडूचीहिलमोचीयष्टिषु स्त्रियाम् ॥ २४४४ ॥
32.2444 · p. 181
अनुष्टुप्
तिक्तशाकस्तु वरुणे खदिरे पत्रसुन्दरे ।तिक्ता तु कटुरोहिण्यां स्त्रीलिङ्ग्यां परिकीर्त्तिता ॥ २४४५ ॥
32.2445 · p. 181
अनुष्टुप्
तिग्मो वज्रोष्मणो त्रिस्तु तीक्ष्णतेजसि सोष्मसु ।तित्तिरो द्वे खरक्वाणखगे ऋष्यन्तरे तु ना ॥ २४४६ ॥
32.2446 · p. 181
अनुष्टुप्
तिन्तिडीकाऽम्लिकाचिञ्चाद्याख्ये वृक्षे त्रिषु स्मृता ।तिन्तिडीकं तु वृक्षाम्लाख्ये फलेऽथाम्बुवेतसे ॥ २४४७ ॥
32.2447 · p. 181
अनुष्टुप्
तिन्त्रिणो दैत्यभेदे स्याच्चिञ्चायां तिन्त्रिणी मता ।तिमिरन्त्वन्धकारेऽपि न स्त्री नेत्ररुजान्तरे ॥ २४४८ ॥
32.2448 · p. 181
अनुष्टुप्
तिमिरा तु स्त्रियामेषा वाद्यभेदे प्रकीर्त्तिता ।तिरोऽन्तर्धौ तिर्यगर्थेप्यव्ययम्परिकीर्त्तितम् ॥ २४४९ ॥
32.2449 · p. 181
अनुष्टुप्
तिरस्करणमित्येतच्छादनेऽनादरेपि नप् ।भवेद्यवनिकायां तु सा तिरस्करिणी स्त्रियाम् ॥ २४५० ॥
32.2450 · p. 181
अनुष्टुप्
तिरस्कारः परिभवेऽप्यन्तर्धानेऽपि कीर्त्तितम् ।तिरीटस्तु पुमान्रक्तलोध्रे स्यात्कर्कटे तु नप् ॥ २४५१ ॥
32.2451 · p. 181
अनुष्टुप्

तिरीटी-तु

तिरीटी तु स्त्रियामेषा बदर्याम्परिकीर्त्तिता ।तिर्यक् तु साचिभेदे त्रिः पश्वादौ तु पुमान्मतः ॥ २४५२ ॥
32.2452 · p. 182
अनुष्टुप्
तिर्यग्गामी त्रि योगार्थे पुंसि शुक्रग्रहे स्मृतः ।तिलकः पुण्ड्रके न स्त्री पुमान्न्रोगान्तरे तथा ॥ २४५३ ॥
32.2453 · p. 182
अनुष्टुप्
क्षुरकद्रौ क्षुद्रतिले तिलकालकसंज्ञके ।पिप्लुभेदे कुरवके क्ली तु सौवर्चले तथा ॥ २४५४ ॥
32.2454 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षु (wrong syllable)
त्रिश्लोक्यां क्लोम्नि जठरस्थिते द्वे तु हयान्तरे ।तिलित्सो गोनसे चैव तरक्षौ च द्वयोर्मतः ॥ २४५५ ॥
32.2455 · p. 182
अनुष्टुप्
तिल्यन्तु त्रिषु तैलीने तिलसाधुहितादिषु ।तिष्यो वह्नौ कलियुगे शिवे मरुति पुष्यभे ॥ २४५६ ॥
32.2456 · p. 182
अनुष्टुप्
तद्युक्ते कालसामान्ये तज्जाते तु भवेत्त्रिषु ।आमलक्याम्पुनः स्त्रीत्वे तिष्येति परिकीर्त्तिता ॥ २४५७ ॥
32.2457 · p. 182
अनुष्टुप्
तीक्ष्णो न स्त्री विषे तीक्ष्णं गरे कालायसे रणे ।मुष्के सामुद्रलवणे तीक्ष्णस्तु स्याज्जवाग्रजे ॥ २४५८ ॥
32.2458 · p. 182
अनुष्टुप्
तीक्ष्णार्जकाह्वयस्तम्बे हिंस्रा कुशतृणन्तरे ।सूर्ये च स्त्री तु तीक्ष्णेति वचायाम्परिकीर्त्तिता ॥ २४५९ ॥
32.2459 · p. 182
अनुष्टुप्
अथात्मत्यागिनि शिलोष्णेषु तीक्ष्णोऽभिधेयवत् ।तीरं त्रपुणि कूले च तीर्यल्पेऽतिजवे शरे ॥ २४६० ॥
32.2460 · p. 182
अनुष्टुप्
तीरितम्पारिते तीरं नीते तीरीकृतेऽपि च ।सत्ये वा सत्कृते सभ्यैर्वाच्यवद्व्यवहारगैः ॥ २४६१ ॥
32.2461 · p. 182
अनुष्टुप्
तीर्थमस्त्री पुण्यजले पुण्यक्षेत्रेऽध्वरे भगे ।जलावगाहमार्गे च मन्त्राद्यष्टादशस्वपि ॥ २४६२ ॥
32.2462 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
शास्त्रे निदाने योग्ये च स्त्रीपुष्पे दर्शनेष्वपि ।उपाध्यायेऽप्युपाये च नद्यां गुरुकुलेऽपि च ॥ २४६३ ॥
32.2463 · p. 182
अनुष्टुप्
तीवरं क्ली बले द्वे तु धीवरीब्राह्मणात्मजे ।तीव्रा तु कटुरोहिण्यां राजिकामण्डदूर्वयोः ॥ २४६४ ॥
32.2464 · p. 182
अनुष्टुप्
क्लीत्वसत्त्वे नितान्ते तु तीव्रोऽत्युष्णे कटौ त्रिषु ।तु पादपूरणे पक्षान्तरे भेदेऽवधारणे ॥ २४६५ ॥
32.2465 · p. 182
अनुष्टुप्

तुग्रः-तुरुष्का

समुच्चये नियोगे च प्रशंसायां विनिग्रहे ।तुग्रो यवे वरिष्ठे तु त्रिरन्नाकाशयोस्तु नप् ॥ २४६६ ॥
32.2466 · p. 183
अनुष्टुप्
तुङ्गो नगे च पुन्नागे ना प्रांशौ तु त्रिषु स्मृतः ।निशाऽजगन्धयोस्तुङ्गी तुङ्गा स्याद्वंशरोचना ॥ २४६७ ॥
32.2467 · p. 183
अनुष्टुप्
तुङ्गीशस्तु पुमांश्चन्द्रे शिवे च परिकीर्त्तितः ।तुच्छन्तु त्रिषु शून्ये स्यादसुखे तु नपुंसकम् ॥ २४६८ ॥
32.2468 · p. 183
अनुष्टुप्
तुञ्जस्तु दाने वज्रे च बलादानादिके च ना ।तुञ्जा तु रक्षणे स्त्री स्याद्धिंसायां तु नरस्त्रियोः ॥ २४६९ ॥
32.2469 · p. 183
अनुष्टुप्
तुटिर्द्वयोरल्पकालभेदे वाद्यान्तरे लवे ।सूक्ष्मैलायां संशये च ना त्वेष तुटतौ मतः ॥ २४७० ॥
32.2470 · p. 183
अनुष्टुप्
तुण्डिकेरी कण्ठरुग्भिद्बिम्बीकार्पासिकासु च ।तुण्डी नास्ये तथा शूननाभौ चैव स्त्रियां मता ॥ २४७१ ॥
32.2471 · p. 183
अनुष्टुप्
तुत्थं रसाञ्जने तुत्था नीली सूक्ष्मैलयोः स्त्रियाम् ।तुन्नस्तु व्यथिते त्रि स्यान्नान्दीवृक्षे तु पुंस्ययम् ॥ २४७२ ॥
32.2472 · p. 183
अनुष्टुप्
तुमुलं संकुलरणे तुमुलो व्याकुले स्वरे ।अथ त्रिलिङ्गस्तुमुलो विभीतकमहीरुहे ॥ २४७३ ॥
32.2473 · p. 183
अनुष्टुप्
तुम्बा तु रथचक्रस्य नाभौ स्त्रीत्वे प्रकीर्त्तिता ।तुम्ब्यलाब्वाम्मता स्त्रीत्वे तत्फले तुम्बमिष्यते ॥ २४७४ ॥
32.2474 · p. 183
अनुष्टुप्
तुम्बुरी कथिता स्त्रीत्वे धन्याके कुक्कुरस्त्रियाम् ।तुम्बुरुस्तिन्दुकीवृक्षे तत्फले तु नपुंसकम् ॥ २४७५ ॥
32.2475 · p. 183
अनुष्टुप्
गन्धर्वाऽधिपभेदे तु तुम्बुरुः पुंसि भाषितः ।तुरगी त्वश्वगन्धायां चित्ते ना द्वे तुरङ्गमे ॥ २४७६ ॥
32.2476 · p. 183
अनुष्टुप्
तुरसत्रं षोडशाहोपवासेऽपि प्रकीर्त्तितम् ।तुरनाम्नो देवमुनेः सत्रेऽपि स्यान्नपुंसकम् ॥ २४७७ ॥
32.2477 · p. 183
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दे (wrong syllable)