कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

क (7/7)

क्षारः स्यात्स्वर्जिकाक्षारे गुडे काचाख्यमृद्यपि ।क्षरणे भस्मनि तथा धूर्त्ते च लवणे पुमान् ॥ १६६३ ॥
17.1663 · p. 124
अनुष्टुप्
संजाते मिश्रणात्त्रिस्तु तद्वत्येष प्रकीर्त्तितः ।रसे च तिक्तलवणयोगोत्थे त्रि तु तद्वति ॥ १६६४ ॥
17.1664 · p. 124
अनुष्टुप्
क्षारकः पक्षिमत्स्यादिपिटके पुष्पजालके ।क्षरितृक्षारयित्रोस्तु भेद्यवत्क्षारको मतः ॥ १६६५ ॥
17.1665 · p. 124
अनुष्टुप्
क्षारितः स्राविते क्षारे चाऽभिशस्तेऽपि च त्रिषु ।क्षालनोऽरत्निके षष्ठे यस्य यूपस्य सप्त च ॥ १६६६ ॥
17.1666 · p. 124
अनुष्टुप्
दश चारत्नयोर्मानं तस्य स्त्रीक्लीबयोः पुनः ।क्षालनं क्षालना चेति कृतौ क्षालयतेर्भवेत् ॥ १६६७ ॥
17.1667 · p. 124
अनुष्टुप्
क्षितिर्जने निवासे स्त्री कालभे च क्षये भुवि ।क्षित्वा ना केशवे वायौ क्षित्वरी स्त्री सरिन्निशोः ॥ १६६८ ॥
17.1668 · p. 124
अनुष्टुप्
क्षिपण्युस्तु पुमान्देहे सुरभौ वाच्यलिङ्गकः ।क्षिपण्युस्तडिति स्त्री ना वसन्तार्थायुधेऽनिले ॥ १६६९ ॥
17.1669 · p. 124
अनुष्टुप्
क्षिप्रं तु पादाङ्गुष्ठस्य तर्जन्याश्चान्तरे न पुम् ।असत्त्वेऽपि च शीघ्रार्थे त्रि तु स्यात्सत्त्वगामि चेत् ॥ १६७० ॥
17.1670 · p. 124
अनुष्टुप्
क्षियाक्षये तथाचाराऽतिक्रमे च स्त्रियां मता ।क्षीरं क्ली सलिले दुग्धेऽन्येर्धर्चादिष्वधीयते ॥ १६७१ ॥
17.1671 · p. 124
अनुष्टुप्
क्षीरशुक्ला विदार्यां स्त्री ना तु शृङ्गाटकाह्वये ।कन्दार्थजलजस्तम्बे यौगिके लिङ्गमर्थतः ॥ १६७२ ॥
17.1672 · p. 124
अनुष्टुप्

क्षीराब्धिजम्-क्षेपः

क्षीराब्धिजन्तु सामुद्रलवणे मौक्तिकेऽपि च ।पुमांस्तुषारकिरणे कमलायां तु योषिति ॥ १६७३ ॥
17.1673 · p. 125
अनुष्टुप्
क्षीराशस्तु द्वयोर्हंसे क्षीरस्य त्वाशके त्रिषु ।क्षीरिको राजिलाहौ द्वे क्षीरिका तु स्त्रियामियम् ॥ १६७४ ॥
17.1674 · p. 125
अनुष्टुप्
दुग्धिकासंज्ञकस्तम्बे फलेऽप्यक्षाख्यपादपे ।क्षुणस्त्रिषु स्यादुन्मत्ते क्षोभक्रोधरुजासु ना ॥ १६७५ ॥
17.1675 · p. 125
अनुष्टुप्
क्षुद्रो दरिद्रे कृपणे त्रि क्रूरेऽल्पनिकृष्टयोः ।क्षुद्र इत्येष पुँल्लिङ्ग उत्सवे परिकीर्त्तितः ॥ १६७६ ॥
17.1676 · p. 125
अनुष्टुप्
क्षुद्रकम्फाणिताख्यायां गुडस्य विकृतौ मतम् ।तथैव कूप्यलवणे द्वयोस्तु क्षत्रियान्तरे ॥ १६७७ ॥
17.1677 · p. 125
अनुष्टुप्
क्षुद्रा व्यङ्गानटीकण्टकारिकासरघासु च ।चाङ्गेरीवैश्ययोर्हिंस्रामक्षिकामात्रयोरपि ॥ १६७८ ॥
17.1678 · p. 125
अनुष्टुप्
क्षुप्रं कण्टकिगुल्मे च तुहिने च नपुंसकम् ।क्षुमाऽतसीनीलिकयोः स्त्रियामेषा प्रकीर्त्तिता ॥ १६७९ ॥
17.1679 · p. 125
अनुष्टुप्
क्षुरो नापितशस्त्रे ना कोकिलाक्षे च गोक्षुरे ।क्षुरकः कोकिलाक्षे च गोक्षुरे तिलकद्रुमे ॥ १६८० ॥
17.1680 · p. 125
अनुष्टुप्
क्षुरप्रो नाऽर्धचन्द्राख्यशस्त्रेऽथाश्वान्तरे द्वयोः ।क्षुल्लकोऽल्पे च नीचे च दरिद्रेचाभिधेयवत् ॥ १६८१ ॥
17.1681 · p. 125
अनुष्टुप्
क्षेत्रन्तीर्थे क्षितौ व्योम्नि शरीरे योनिवृन्दयोः ।केदारदारागारेषु नक्षत्रे पुरि राशिषु ॥ १६८२ ॥
17.1682 · p. 125
अनुष्टुप्
क्षेत्रज्ञ आत्मन्यथ स दक्षक्षेत्रविदोस्त्रिषु ।क्षेत्रिको ना तुरुष्काख्यनिर्यासे क्षेत्रिणि त्रिषु ॥ १६८३ ॥
17.1683 · p. 125
अनुष्टुप्
क्षेत्रिया क्षुद्रधान्ये स्याद् गवीथुरिति विश्रुते ।त्रिस्त्वयं दुष्प्रतीकारव्याधादौ धान्यवप्रजे ॥ १६८४ ॥
17.1684 · p. 125
अनुष्टुप्
निराकार्यतृणे पारिदारिके यत्पुनर्विषम् ।देहान्तरे संक्रमय्य चिकित्स्यं तत्र चोच्यते ॥ १६८५ ॥
17.1685 · p. 125
अनुष्टुप्
क्षेत्र्यं त्रि क्षत्रसाधौ स्याल्लवणे क्ल्यूषरोद्भवे ।क्षेपो विलम्बावहेलानिन्दाप्रेरणलेपने ॥ १६८६ ॥
17.1686 · p. 125
अनुष्टुप्

क्षेपणी-खगासनः

क्षेपणी जालभिन्नौकादण्डयोः प्रेरणे तु नप् ।पादाङ्गुष्ठाङ्गुलीमध्ये क्षेपणम्पुन्नपुंसकम् ॥ १६८७ ॥
17.1687 · p. 126
अनुष्टुप्
क्षेपणीयो भिण्डिपाले ना क्षेप्तव्ये त्वयं त्रिषु ।क्षेमश्चण्डौषधौ क्षेमा चण्ड्यां क्षेमं त्रि निर्भये ॥ १६८८ ॥
17.1688 · p. 126
अनुष्टुप्
अस्त्री क्षेमं शुभे मुक्तौ तथा प्राप्तस्य रक्षणे ।क्षोणी तु मेखलायां स्त्री मौञ्ञ्यां भुवि च कीर्त्तिता ॥ १६८९ ॥
17.1689 · p. 126
अनुष्टुप्
द्यावापृथिव्योस्तु क्षोणी इति द्वित्वे प्रयुज्यते ।क्षोदो जले चूर्णने च रजस्यपि पुमान्मतः ॥ १६९० ॥
17.1690 · p. 126
अनुष्टुप्
क्षोभ्यन्नपुंसके वङ्गे क्षोभणीये तु भेद्यवत् ।क्षौद्रम्मधुनि पानीये क्षुद्रयोगिनि तु त्रिषु ॥ १६९१ ॥
17.1691 · p. 126
अनुष्टुप्
क्षौममस्त्री दुकूलेऽट्टे क्षौमन्तु स्यान्नपुंसकम् ।अतसीजे च शणजे तथा वल्कलजेंऽशुके ॥ १६९२ ॥
17.1692 · p. 126
अनुष्टुप्
क्ष्माशब्दो भुवि नद्यां च स्त्रीलिङ्गः परिकीर्त्तितः ।क्ष्वेडः कर्णामये राजकोशातक्यां ध्वनौ विषे ॥ १६९३ ॥
17.1693 · p. 126
अनुष्टुप्
श्वेडं रक्तार्कपर्णस्य फले घोषसुमेऽप्यथ ।दुरासदे च कुटिले क्ष्वेडः स्यादभिधेयवत् ॥ १६९४ ॥
17.1694 · p. 126
अनुष्टुप्
क्ष्वेडा वंशशलाकायां योधसिंहध्वनावपि ॥ १६९४-१/२ ॥
17.753 · p. 126