कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

र (1/2)

रंहः क्ली वेग औत्सुक्ये सान्तोऽदन्तस्तु पुंस्ययम् ॥ ४५९५ ॥
43.4595 · p. 342
रंहसं च समासान्ते सान्तो ना स्याच्छिवे हरौ ।रंहिर्द्वयोर्जविन्यश्वे धारौत्सुक्यजवे स्त्रियाम् ॥ ४५९६ ॥
43.4596 · p. 342
अनुष्टुप्

रः-रक्तपुष्पः

रो रेफे लघुमध्ये रप्रत्याहारे रलात्मके ।प्रेमेच्छाग्निजवे तीक्ष्णदातृधातृषु तु त्रिषु ॥ ४५९७ ॥
43.4597 · p. 343
अनुष्टुप्
रा दाने विभ्रमे स्वर्णे री गतौ रं मतं द्युतौ ।रक्तं कुङ्कुमताम्रासृक् स्त्रीपुष्पे रागवस्तुनि ॥ ४५९८ ॥
43.4598 · p. 343
अनुष्टुप्
पत्राङ्गाख्येऽपि सिन्दूरे हिङ्गुले पद्मकेऽपि च ।भूधात्र्याश्च फले क्लीबं ना तु रोहीतकद्रुमे ॥ ४५९९ ॥
43.4599 · p. 343
अनुष्टुप्
कुसुम्भेऽपि शिवे सूर्यकान्ते स्यान्मङ्गलग्रहे ।वर्णे च लोहिते त्रिस्तु रक्तं तद्वति रागिणि ॥ ४६०० ॥
43.4600 · p. 343
अनुष्टुप्
कृतान्यवर्णे मधुरेऽनुरक्ते चानुनासिके ।रक्तस्तु रक्तिकालाक्षामञ्जिष्ठाश्रुतिभित्सु च ॥ ४६०१ ॥
43.4601 · p. 343
अनुष्टुप्
सप्तानां वह्निजिह्वानामेकस्यां काचसारयोः ।रक्तकोऽम्लानबन्धूकपत्राङ्गे रक्तशिग्रुके ॥ ४६०२ ॥
43.4602 · p. 343
अनुष्टुप्
रक्तवस्त्रे वाच्यवत्तु सानुरागे सविभ्रमे ।सशोणिते रक्तिका तु श्रुतिभिद्गुञ्जयोर्मता ॥ ४६०३ ॥
43.4603 · p. 343
अनुष्टुप्
रक्तकण्ठः कोकिले द्वे त्रिस्तु स्यान्मधुरस्वरे ।रक्तकन्दो विद्रुमे त्रिस्तथा राजपलाण्डुके ॥ ४६०४ ॥
43.4604 · p. 343
अनुष्टुप्
रक्तग्रन्थिर्व्याधिभेदे सल्लकीभेद एव च ।रक्तग्रीवस्तु रक्षोभित्पारावतभिदोर्द्वयोः ॥ ४६०५ ॥
43.4605 · p. 343
अनुष्टुप्
रक्तघ्नो रोहितको दूर्वा रक्तघ्न्युदीरिता ।पत्राङ्गेऽपि कुसुम्भेऽपि योगार्थे रक्तचन्दनम् ॥ ४६०६ ॥
43.4606 · p. 343
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अतिरक्ते रक्ततरस्त्रिः क्लीबं रक्तगैरिके ।रक्तदन्ती तु पार्वत्यां त्रि तु शोणरदे भवेत् ॥ ४६०७ ॥
43.4607 · p. 343
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
रक्तदृष्टिर्द्वयोः पारावतयोगे यथायथम् ।रक्तपा तु जलौकायां डाकिन्यां ना तु राक्षसे ॥ ४६०८ ॥
43.4608 · p. 343
अनुष्टुप्
रक्तपुच्छी त्रि योगार्थे ब्राह्मणीकीटके स्त्रियाम् ।रक्तपुष्पः कोविदारासनयोर्ना त्रियौगिके ॥ ४६०९ ॥
43.4609 · p. 343
अनुष्टुप्

रक्तफला-रङ्गावतारी

स्त्रियां रक्तफला बिम्बीलतायां त्रि तु यौगिके ।रक्तरेणुस्तु सिन्दूरे पलाशस्य च कोरके ॥ ४६१० ॥
43.4610 · p. 344
अनुष्टुप्
रक्तशीर्षो नृनिर्यासे श्रीपिष्टाख्ये त्रियौगिके ।रक्ताक्षः कासरे क्रूरे पारावतचकोरयोः ॥ ४६११ ॥
43.4611 · p. 344
अनुष्टुप्
रक्ताङ्गं विद्रुमं क्लीबं रक्ताङ्गो मङ्गलग्रहे ।स्त्री रक्ताङ्गेति काम्पिल्ल्यजीवन्त्योः परिकीर्त्तिता ॥ ४६१२ ॥
43.4612 · p. 344
अनुष्टुप्
रक्षणा रक्षणं त्राणे विष्णौ स्यात्पुंसि रक्षणः ।रक्षस्तु रक्षके त्रि स्याद्द्विषद्राक्षसयोस्तु नप् ॥ ४६१३ ॥
43.4613 · p. 344
अनुष्टुप्
रक्षा भस्मनि लाक्षायां रक्षणे यन्त्रबन्धने ।स्याद्रक्षापेक्षको द्वारपालेऽन्तःपुररक्षिणि ॥ ४६१४ ॥
43.4614 · p. 344
अनुष्टुप्
रक्षोघ्नो गौरसिद्धार्थभल्लातक्योः क्ली काञ्जिके ।हिङ्गुन्यथ स्त्री रक्षोघ्नी रक्षोहन्तरि वाच्यवत् ॥ ४६१५ ॥
43.4615 · p. 344
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क्ली (wrong syllable)
रक्षिका धार्ययन्त्रादौ स्त्रीत्रातरि तु वाच्ययत् ।रघुर्लघौ वेगवति त्रिर्द्वे तु जविवाजिनि ॥ ४६१६ ॥
43.4616 · p. 344
अनुष्टुप्
पुमान्दिलीपपुत्रेऽपि ककुत्स्थस्य सुतेऽपि वा ।रघुवंशाख्यकाव्येऽपि प्रयुक्तो लक्षणाबलात् ॥ ४६१७ ॥
43.4617 · p. 344
अनुष्टुप्
रङ्कोऽनुदारे लुब्धे त्रिर्मन्दे दीने बुभुक्षिते ।रङ्कुर्द्वे मृगभेदे स्यान्नीवृद्भेदे तु पुंस्ययम् ॥ ४६१८ ॥
43.4618 · p. 344
अनुष्टुप्
रङ्गः स्थाने नृत्तयुद्धस्थाने स्याद्दर्पवर्णयोः ।नासयोच्चारणे हर्षे प्रेम्णि तालान्तरेऽपि च ॥ ४६१९ ॥
43.4619 · p. 344
अनुष्टुप्
टङ्के खदिरसारेऽथ रङ्गा नद्यन्तरे स्त्रियाम् ।रङ्गं तु नागे सीसे च वङ्गवत्स्यान्नपुंसकम् ॥ ४६२० ॥
43.4620 · p. 344
अनुष्टुप्
रङ्गजीवक इत्येष वर्णकारे नटेपि ना ।रङ्गदा स्वर्जिका ना तु टङ्कणे खादिरे रसे ॥ ४६२१ ॥
43.4621 · p. 344
अनुष्टुप्
रङ्गमाता तु कुट्टिन्यां लाक्षायां च त्रुटावपि ।रङ्गाजीवश्चित्रकरे पुंसि त्रिषु तु यौगिके ॥ ४६२२ ॥
43.4622 · p. 344
अनुष्टुप्
रङ्गावतारी तु नटे वाच्यवत्परिकीर्त्तितः ।पुमांस्तु तस्मिन्संप्राप्तो यो नाट्ये रुद्रभूमिकाम् ॥ ४६२३ ॥
43.4623 · p. 344
अनुष्टुप्

रचनं-रण्डा

रचनं स्यात्प्रणयने करणे रचना पुनः ।रीतौ च रचनार्थे च त्वष्टुः पत्न्यामपि स्त्रियाम् ॥ ४६२४ ॥
43.4624 · p. 345
अनुष्टुप्
रजस्त्वदन्तः स्त्रीपुष्पे पांसावपि रजोगुणे ।रजकस्तु शुके चापि पुंसि निर्णेजके द्वयोः ॥ ४६२५ ॥
43.4625 · p. 345
अनुष्टुप्
रजकस्त्रिर्मृगाणां स्यादयं रमयितर्यपि ।रजतोऽस्त्री मतो रूप्ये शोणिते ह्रदहारयोः ॥ ४६२६ ॥
43.4626 · p. 345
अनुष्टुप्
अथ श्वेते त्रिलिङ्गोऽयं रजतः परिकीर्त्तितः ।रजती स्त्री हरिद्रायां तथा नील्योषधौ निशि ॥ ४६२७ ॥
43.4627 · p. 345
अनुष्टुप्
जतुकृत्संज्ञवल्यां च रागद्रव्ये तु नप्स्मृतम् ।रजःपूता सुरभ्यां स्याद्यौगिके तु यथायथम् ॥ ४६२८ ॥
43.4628 · p. 345
अनुष्टुप्
रजोऽह्नि शरदि क्ली स्त्री पुष्पे रेणौ जले स्रजि ।सत्त्वाद्यन्यतमे रात्रौ लोहे तेजसि रेतसि ॥ ४६२९ ॥
43.4629 · p. 345
अनुष्टुप्
रजस्वलो द्वे महिष उदक्यायां रजस्वला ।रजस्वलस्तु रजसा युक्ते स्यादभिधेयवत् ॥ ४६३० ॥
43.4630 · p. 345
अनुष्टुप्
रजिर्नेन्द्रपराभूते नृपे वा दानवान्तरे ।कस्यांचिद्वनितायां वा राज्ये वेत्याह सायणः ॥ ४६३१ ॥
43.4631 · p. 345
अनुष्टुप्
आयोः पुत्रेऽप्याङ्गिरसे रोदस्योर्वेन्दुसूर्ययोः ।उभारजी रजिः स्त्रीत्वे ऋक्षुदृष्टा दिगर्थिका ॥ ४६३२ ॥
43.4632 · p. 345
अनुष्टुप्
रज्जूर्वराटके स्त्र्यष्टहस्तमानेऽपि रज्जुवत ।नाडीभेदेऽपि पृष्ठास्थिनिर्गते तारकान्तरे ॥ ४६३३ ॥
43.4633 · p. 345
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रञ्जनं नील्योषधौ च क्लीबं स्याद्रक्तचन्दने ।मनःशिलायां तु स्त्री स्याद्धरिद्रायां च रञ्जनी ॥ ४६३४ ॥
43.4634 · p. 345
अनुष्टुप्
अथ रञ्जयतेरर्थे रञ्जना रञ्जनं द्वयम् ।रञ्जसानः पुमान्मेघे घर्मेऽपि परिकीर्त्तितः ॥ ४६३५ ॥
43.4635 · p. 345
अनुष्टुप्
रणोऽस्त्रियां मतो युद्धेऽतिशब्दे शब्द एव च ।रणकस्तु वियोगे स्यात्पुंस्यप्यौत्सुक्य इष्यते ॥ ४६३६ ॥
43.4636 · p. 345
अनुष्टुप्
रण्डा मूषिकपर्ण्यां स्याद्विधवायामपि स्त्रियाम् ।स्वसम्बन्धार्थशून्येऽन्तःकरणे क्ली नरे तु ना ॥ ४६३७ ॥
43.4637 · p. 345
अनुष्टुप्

रतः-रमणा

रतस्त्रि कृतरामे च तन्निष्ठे सुरते तु न ।स्मरे तु रतनारी च नारीणां सीत्कृतौ शुनि ॥ ४६३८ ॥
43.4638 · p. 346
अनुष्टुप्
रतर्द्धिकं स्याद्दिवसे सुखस्थानेष्टमङ्गले ।रतिस्तु सुरतोत्कण्ठापरमप्रीतिषु स्मृता ॥ ४६३९ ॥
43.4639 · p. 346
अनुष्टुप्
रागे कामस्य भार्यायां गुह्यरत्ननदीसृतौ ।रतुर्दूते पुमान्स्त्री तु नद्यां पथि च बन्धने ॥ ४६४० ॥
43.4640 · p. 346
अनुष्टुप्
रत्नं स्वजातिश्रेष्ठेऽपि माणिक्यादौ धनेऽम्बुनि ।रत्नगर्भा भुवि स्त्री ना कुबेरे त्रि तु यौगिके ॥ ४६४१ ॥
43.4641 · p. 346
अनुष्टुप्
भवेद्रत्नवरं स्वर्णे रत्नानां प्रवरेऽपि च ।रत्नाकरस्तु रत्नानामाकरेऽम्भोनिधावपि ॥ ४६४२ ॥
43.4642 · p. 346
अनुष्टुप्
रथस्तु स्यन्दने पुंसि वेतसे च प्रकीर्त्तितः ।द्वयोस्तु चक्रवाके स्याद्गन्त्र्यां तु स्त्री रथी स्मृता ॥ ४६४३ ॥
43.4643 · p. 346
अनुष्टुप्
रथकारस्त्रि तक्ष्णि द्वे माहिष्यात्करणीसुते ।रथाङ्गं रथचक्रे क्ली स्यन्दनावयवेऽपि च ॥ ४६४४ ॥
43.4644 · p. 346
अनुष्टुप्
चक्रवाकाह्वये तु स्यात्पक्षिभेदे द्वयोरयम् ।रथ्या रथसमूहे च प्रतोल्यां पथि च स्त्रियाम् ॥ ४६४५ ॥
43.4645 · p. 346
अनुष्टुप्
रथस्य वोढृस्वीयादौ रथ्यः स्यादभिधेयवत् ।रदो विलेखने पुंसि तथा दन्तेऽपि कीर्त्तितः ॥ ४६४६ ॥
43.4646 · p. 346
अनुष्टुप्
रन्तिदेवः पुमान्विष्णौ तथैव स्यान्नृपान्तरे ।रन्ध्रं स्याद्विवरे क्लीबमपराधे च दूषणे ॥ ४६४७ ॥
43.4647 · p. 346
अनुष्टुप्
राशौ लग्नाऽष्टमे द्वे तु विप्रमैत्रीसमुद्भवे ।रप (पा) ठस्तु द्वयोर्ज्ञेयो मण्डूके विदुषि त्रिषु ॥ ४६४८ ॥
43.4648 · p. 346
अनुष्टुप्
रभसो वेजसरम्भहर्षेऽथ महति द्वयोः ।रमठस्तु द्वयोर्म्लेच्छे त्रिषु क्रीडनशीलके ॥ ४६४९ ॥
43.4649 · p. 346
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
रमणस्तु धवे [कामे नपि क्रीडानितम्बयोः] ।[पटोलमूले नार्यां स्त्री रमणी रमणा न ना] ॥ ४६५० ॥
43.4650 · p. 346
अनुष्टुप्

रमतिः-रसज्ञः

रमतिस्तु सभायां [ना] स्वर्गे कामे [च नायके] ।रमा लक्ष्म्यां रमः कान्ते रक्ताशोकद्रुमे स्मरे ॥ ४६५१ ॥
43.4651 · p. 347
अनुष्टुप्
रम्भा गौरकदल्यां च कदल्यामप्सरोऽन्तरे ।सौत्र्यां च मेखलायां स्त्री वेणौ रम्भ [श्च वानरे] ॥ ४६५२ ॥
43.4652 · p. 347
अनुष्टुप्
रम्या रात्रौ चम्पके ना मनोज्ञे त्वभिधेयवत् ।नपुंसकं पटोलस्य मूले रम्यं प्रकीर्त्तितम् ॥ ४६५३ ॥
43.4653 · p. 347
अनुष्टुप्
रयिर्जले धने चापि नृस्त्रियोः परिकीर्त्तितः ।रल्लकः कम्बले पुंसि मृगभेदे द्वयोर्मतः ॥ ४६५४ ॥
43.4654 · p. 347
अनुष्टुप्
रवणो वल्लभे शब्दे शब्दे पटोलाख्यलतान्तरे ।पटोलमूले क्लीबं स्यात् कांस्यलोहे रुतेऽपि च ॥ ४६५५ ॥
43.4655 · p. 347
अनुष्टुप्metre not read in every line
भृङ्गोष्ट्रगर्दभेषु द्वे त्रिस्तु शब्दनशीलके ।रशना त्वङ्गुलौ स्त्रीत्वे काञ्च्यां चापि प्रकीर्त्तिता ॥ ४६५६ ॥
43.4656 · p. 347
अनुष्टुप्
रश्मिः पुमान्दीधितौ स्यात्पक्ष्मप्रग्रहयोरपि ।रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ॥ ४६५७ ॥
43.4657 · p. 347
अनुष्टुप्
रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ।देहधातुविशेषे च शृङ्गारादौ फले जले ॥ ४६५८ ॥
43.4658 · p. 347
अनुष्टुप्
कषायभोजनान्नेषु लोहे हिङ्गुलबोलयोः ।लशुने च हरिद्वर्णे शाकस्तम्बान्तरे तथा ॥ ४६५९ ॥
43.4659 · p. 347
अनुष्टुप्
देवमारिषनाम्नीक्षुमांसशुक्तसुरेषु ना ।शण्डेऽपि वा रसा तु स्त्री दूर्वापातालभूमिषु ॥ ४६६० ॥
43.4660 · p. 347
अनुष्टुप्
द्राक्षायामपि पाठायां तथैव परिकीर्त्तिता ।रसकस्त्वयसःसारे मांसनिष्क्वाथ एव च ॥ ४६६१ ॥
43.4661 · p. 347
अनुष्टुप्
अथ धातो रसयतेर्भेद्यलिङ्गः प्रकीर्त्तितः ।वेधके वकुले नागपुष्पेऽपि रसकेसरम् ॥ ४६६२ ॥
43.4662 · p. 347
अनुष्टुप्
रसज्ञा रसनायां स्त्री रसवेदिनि तु त्रिषु ।वैकृन्ताख्पे त्वयोभेदे रसज्ञः पुंसि कीर्त्तितः ॥ ४६६३ ॥
43.4663 · p. 347
अनुष्टुप्

रसनं-राक्षसी

रसनं तु फले स्नेहे निर्यासे हेमरूप्ययोः ।स्यात्कषायद्रवेऽन्ने च विषेऽपि च नपुंसकम् ॥ ४६६४ ॥
43.4664 · p. 348
अनुष्टुप्
आस्वादने तु जिह्वायां शब्दने रसना न ना ।रसवत्त्रि रसाख्ये रसवती स्त्री महानसे ॥ ४६६५ ॥
43.4665 · p. 348
अनुष्टुप्
रसायनं दीर्घायुष्ट्वभेषजेऽपि रसाश्रये ।रसायनं विषेऽपि स्याज्जराव्याधिजिदौषधौ ॥ ४६६६ ॥
43.4666 · p. 348
अनुष्टुप्
पुँल्लिङ्गः पक्षिराजे च विडङ्गाख्यौषधेऽपि च ।रसालस्तु पुमानिक्षावाम्रेऽपि वरुणद्रुमे ॥ ४६६७ ॥
43.4667 · p. 348
अनुष्टुप्
सम्मिश्ररसभेदे च कटुतिक्तकषायके ।त्रि तु स्यात्तद्वति स्त्री तु रसाला पानकान्तरे ॥ ४६६८ ॥
43.4668 · p. 348
अनुष्टुप्
अपक्वतक्रं सव्योषचतुर्जातगुडार्द्रकम् ।सजीरकं यन्निर्दिष्टं पानकन्तत्र सा भवेत् ॥ ४६६९ ॥
43.4669 · p. 348
अनुष्टुप्
रसाला रसनादूर्वाविदारीमार्जितासु च ।रसिको मद्यभेदे स्यादपक्वेक्षुरसैः कृते ॥ ४६७० ॥
43.4670 · p. 348
अनुष्टुप्
रसिकस्तु रसज्ञेऽयमभिधेयवदिष्यते ।रसिका स्त्री रसालेक्षुरसयोः सरसे त्रिषु ॥ ४६७१ ॥
43.4671 · p. 348
अनुष्टुप्
रसितं मेघनिर्घोषे रुते च स्यान्नपुंसकम् ।त्रिषु त्वास्वादिते चैव स्वर्णादिरचितेऽपि च ॥ ४६७२ ॥
43.4672 · p. 348
अनुष्टुप्
रसोनो लशुने पुंसि रसहीने तु स त्रिषु ।रस्नो दण्डे पुमानश्वे द्वयो रस्नः प्रकीर्त्तितः ॥ ४६७३ ॥
43.4673 · p. 348
अनुष्टुप्
रहोऽव्ययं वा विजने [नप्तत्वे रतिगुह्ययोः] ।रहस्या तु नदीभेदे स्त्रियां त्रिस्तु रहोभवे ॥ ४६७४ ॥
43.4674 · p. 348
अनुष्टुप्
राकः स्यादातपे सूर्ये पुमान् राका त्वियं स्त्रियाम् ।नद्यन्तरे च कच्छ्वां च नवजातरजःस्त्रियाम् ॥ ४६७५ ॥
43.4675 · p. 348
अनुष्टुप्
सम्पूर्णेन्दुतिथौ पूर्णिमा चेत् प्रतिपद्युता ।राक्षसो यातुधाने द्वे राक्षसी गन्धवस्तुनि ॥ ४६७६ ॥
43.4676 · p. 348
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

राक्षसः-राजपुत्री

चण्डासंज्ञे तथा रात्रौ लङ्काद्वीपेऽपि च स्त्रियाम् ।सायाह्नत्रिमुहूर्ते च दंष्ट्रायां च प्रकीर्त्तिता ॥ ४६७७ ॥
43.4677 · p. 349
अनुष्टुप्
नन्दाऽमात्ये विवाहस्य भेदे वर्षमुहूर्त्तयोः ।योगस्य ना राक्षसस्तु रक्षः सम्बन्धिनि त्रिषु ॥ ४६७८ ॥
43.4678 · p. 349
अनुष्टुप्
रागोऽनुरागे मात्सर्ये रक्तवर्णे रजस्यपि ।लाक्षादिरञ्जनद्रव्ये दीप्तौ क्लेशादिकेऽपि च ॥ ४६७९ ॥
43.4679 · p. 349
अनुष्टुप्
लोहितादिषु वर्णेषु गीतिधर्मान्तरेऽपि च ।रागचूर्णः पुमान्दन्तधावने मकरध्वजे ॥ ४६८० ॥
43.4680 · p. 349
अनुष्टुप्
रागवान्पूगवृक्षे ना त्रि तु रागवति स्मृतः ।रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि कीर्त्तितम् ॥ ४६८१ ॥
43.4681 · p. 349
अनुष्टुप्
रागी रक्ते कामुके च वाच्यवत्परिकीर्त्तितः ।राघवो द्वे महातिम्यन्तरे वंश्ये रघोरपि ॥ ४६८२ ॥
43.4682 · p. 349
अनुष्टुप्
रघुसम्बन्धिमात्रे तु राघवस्त्रिषु कीर्त्तितः ।राट् तु छन्दोविशेषे स्त्री द्वाविंशत्यक्षरे मता ॥ ४६८३ ॥
43.4683 · p. 349
अनुष्टुप्
अथ राट् ऋतुभेदे च पार्थिवेऽपि पुमान्मतः ।राजकन्या तु राज्ञश्च कन्यायां च नपुंसके ॥ ४६८४ ॥
43.4684 · p. 349
अनुष्टुप्
अपि केसरमालाख्यझाटे सा परिकीर्त्तिता ।राजजम्बूस्तु जम्बूभित्पिण्डखर्जूरयोः स्त्रियाम् ॥ ४६८५ ॥
43.4685 · p. 349
अनुष्टुप्
अथ राजतरुः कर्णिकारारग्वधवृक्षयोः ।राजा ना सोमवल्ल्यां च चन्द्रे शक्रे तु पार्थिवे ॥ ४६८६ ॥
43.4686 · p. 349
अनुष्टुप्
क्षत्रिये द्वे प्रभौ तु [र्यक्षे नाऽथ भवेत्स्त्रियाम् ] ।राज्ञी लोहे ब्रह्मरीतिनाम्नि रूपं स्त्रियामिदम् ॥ ४६८७ ॥
43.4687 · p. 349
metre not recognisednearly अनुष्टुप्
राजनं सामभेदे क्ली राज्ञः शूद्रासुते द्वयोः ।राजन्यः क्षत्रिये राजपुत्रेऽग्नौ क्षीरिकाद्रुमे ॥ ४६८८ ॥
43.4688 · p. 349
अनुष्टुप्
राजपुत्रो महाराजाम्रे बुधे राजनन्दने ।राजपुत्री तु मालत्यां तिक्तालाब्वां च कीर्त्तिता ॥ ४६८९ ॥
43.4689 · p. 349
अनुष्टुप्

राजबदरम्-रात्रिजागरः

चुछुन्दर्यामपि स्त्रीत्वे योगार्थे तु यथायथम् ।स्याद्राजबदरं रक्तामलके लवणेऽपि च ॥ ४६९० ॥
43.4690 · p. 350
अनुष्टुप्
राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे ।राजवृक्षः समाख्यातः सुवर्णाकपिपालयोः ॥ ४६९१ ॥
43.4691 · p. 350
अनुष्टुप्
मन्थानके समाख्यातो राजवृक्षस्तृणाधिपे ।स्त्रियां राजसभाराष्ट्रे राज्ञश्चास्थान इष्यते ॥ ४६९२ ॥
43.4692 · p. 350
अनुष्टुप्
राजसी निशि शैशिर्यां रजोयोगिनि तु त्रिषु ।राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ४६९३ ॥
43.4693 · p. 350
अनुष्टुप्
द्वयोः स्त्रियां राजहंसी रसालाभिदि कीर्त्तिता ।राजादनं प्रियालद्रौ क्ली पलाशद्रुमे तु ना ॥ ४६९४ ॥
43.4694 · p. 350
अनुष्टुप्
फलाध्यक्षद्रुमे त्वेष न स्त्री राजादनो मतः ।राजार्हं राजयोग्ये त्रिः कस्तूर्यण्डे नपुंसकम् ॥ ४६९५ ॥
43.4695 · p. 350
अनुष्टुप्
जोङ्गके चाथ राजार्हा स्त्रीत्वे जम्ब्वां प्रकीर्त्तिता ।राजिस्तु राजसर्पे चाधोभागे रसनस्य च ॥ ४६९६ ॥
43.4696 · p. 350
अनुष्टुप्
क्षेत्रे कारादिलेखायां पङ्क्तावपि भवेत्स्त्रियाम् ।केदारेऽपि च पङ्क्तौ च राजवृन्दे तु राजकम् ॥ ४६९७ ॥
43.4697 · p. 350
अनुष्टुप्
राजको राजितर्येष त्रिलिङ्गः परिकीर्त्तितः ।राजिकाक्षवसंज्ञे स्त्री विज्ञेया सर्षपान्तरे ॥ ४६९८ ॥
43.4698 · p. 350
अनुष्टुप्
राजीवं कमले क्लीबं त्रिस्तु तद्वति वस्तुनि ।राजोपजीविनि द्वे तु मत्स्ये हस्तिनि सारसे ॥ ४६९९ ॥
43.4699 · p. 350
अनुष्टुप्
राजीवो हरिणाख्येपि राजीमतिमृगान्तरे ।राठा नीवृतिसुह्मेषु शोभायामपि च स्त्रियाम् ॥ ४७०० ॥
43.4700 · p. 350
अनुष्टुप्
रातोऽभिधेयवद्दत्ते राती त्री रतयोगिनि ।विहारशीलकन्यायां रातादानं तु नप्स्मृतम् ॥ ४७०१ ॥
43.4701 · p. 350
अनुष्टुप्
रात्रकं पञ्चरात्रे ना वेश्यावेश्माब्दवासिनि ।द्वे राक्षसे रात्रिचरी रात्रिचारिणि तु त्रिषु ॥ ४७०२ ॥
43.4702 · p. 350
अनुष्टुप्
रात्रिजं तारके क्लीबं रात्रिजाते त्रिषु स्मृतम् ।रात्रिजागर उक्तो द्वे शुनके त्रिस्तु यौगिके ॥ ४७०३ ॥
43.4703 · p. 350
अनुष्टुप्

राधा-रिक्ता

राधा बिशाखानक्षत्रे तद्युक्ते कालमात्रके ।कर्णमातरि च स्त्री स्याद्विशाखासम्भवे त्रिषु ॥ ४७०४ ॥
43.4704 · p. 351
अनुष्टुप्
राधस्तु मासे वैशाखे राधी तत्पूर्णिमा मता ।राधो मासान्तरे राधा चित्रभेदे च धन्विनाम् ॥ ४७०५ ॥
43.4705 · p. 351
अनुष्टुप्
गोपीविशाखामलकीविष्णुक्रान्तासु विद्युति ।राधनं साधने प्राप्तौ राधना भाषणे स्त्रियाम् ॥ ४७०६ ॥
43.4706 · p. 351
अनुष्टुप्
राधस्तु सान्तं क्लीबं स्यात्प्ररूढे च धनेऽपि च ।राधेरकः पुमान्सीरे सीरके च घनोपले ॥ ४७०७ ॥
43.4707 · p. 351
अनुष्टुप्
रामः परशुरामे ना विष्णौ दाशरथौ रतौ ।बलभद्रे ध्वजे शब्दे मौलौ लक्ष्मणि कीर्त्तितः ॥ ४७०८ ॥
43.4708 · p. 351
अनुष्टुप्
वर्णेषु शुक्लशबलकृष्णेषु त्रि तु तद्वति ।चारुप्रधानयोश्चापि रामा तु स्त्र्यन्तरे स्त्रियाम् ॥ ४७०९ ॥
43.4709 · p. 351
अनुष्टुप्
हिङ्गुनद्योस्तथा क्लीबं कुष्ठवास्तूकयोरथ ।ना हये पशुभेदे च वरुणे च प्रकीर्त्तितः ॥ ४७१० ॥
43.4710 · p. 351
अनुष्टुप्
रामको रक्तरि त्रि स्यान्मर्त्त्यजात्यन्तरे द्वयोः ।रामिलो रमणे कामे पुँल्लिङ्गः परिकीर्त्तितः ॥ ४७११ ॥
43.4711 · p. 351
अनुष्टुप्
राम्भो ना वैणवे दण्डे रम्भासम्बन्धिनि त्रिषु ।राशिः क्रत्वन्तरे पुञ्जे मेषादावाढकेऽपि ना ॥ ४७१२ ॥
43.4712 · p. 351
अनुष्टुप्
साम्नोस्त्वग्निं नरोवर्गगीतयोः स्यान्नपुंसकम् ।राष्ट्रस्त्वजन्ये विषयेऽप्यस्त्रियां परिकीर्त्तितः ॥ ४७१३ ॥
43.4713 · p. 351
अनुष्टुप्
रासः कोलाहले ध्वाने भाषाशृङ्खलकेऽपि च ।क्रीडाभेदे यादवानां पुँल्लिङ्गः परिकीर्त्तितः ॥ ४७१४ ॥
43.4714 · p. 351
अनुष्टुप्