कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

अ (3/4)

ऋत्विक् प्रोत्साहनायां तत्कर्त्तर्यभिगरः पुमान् ।अभिगानं तु गानेभिलक्ष्यः स्यान्मोहनेपि च ॥ २४१ ॥
3.241 · p. 20
अनुष्टुप्
अभिग्रहोऽभिग्रहणेऽभियोगेऽपि च गौरवे ।अधिकारेऽपि शपथे घर्षणास्कन्दलुण्ठने ॥ २४२ ॥
3.242 · p. 20
अनुष्टुप्
घर्षणेऽपि तथा प्रेताद्यावेशेष्वभिघर्षणम् ।अभिघातः प्रतिहतौ ताडनेपि क्षतावपि ॥ २४३ ॥
3.243 · p. 20
अनुष्टुप्
अभिगृह्योच्चारणे च क्ली घादेः कादिभिर्युतौ ।अभिघाती तु शत्रौ नाऽभिहन्तरि तु वाच्यवत् ॥ २४४ ॥
3.244 · p. 20
अनुष्टुप्

अभिघारः-अभिप्लवः

अभिघारो घृतेपि स्यात्सेकेपि च घृतादिभिः ।अभिचक्षणमाक्रोश आह्वानेप्यवलोकने ॥ २४५ ॥
3.245 · p. 21
अनुष्टुप्
सानुग्रहावलोकेथ शकुनेक्षाभिचक्षणम् ।अथाभिचरणं द्रोहे चापल्ये मोहने गमे ॥ २४६ ॥
3.246 · p. 21
अनुष्टुप्
ख्यातावभिजनो जन्मभूकुलध्वजयोः कुले ।कुलजे पूर्वजे कीर्त्तौ कुलीनेपि प्रकीर्त्तितः ॥ २४७ ॥
3.247 · p. 21
अनुष्टुप्
अथाभिधेयवच्चैष प्रवीणाभिजनो मतः ।अभिजातः कुलीने स्यान्न्याय्यपण्डितयोस्त्रिषु ॥ २४८ ॥
3.248 · p. 21
अनुष्टुप्
जन्मलब्धेऽथाऽभिजातमभिरूपे [तु वाच्यवत्] ।अभिजित्क्रतुभेदे च स्यान्मुहूर्त्तान्तरे पुमान् ॥ २४९ ॥
3.249 · p. 21
अनुष्टुप्
नक्षत्रभेदे तद्युक्तकालमात्रे च कीर्त्तितः ।अभिजिन्नक्षत्रजाते त्वभिजिद्वाच्यवद्भवेत् ॥ २५० ॥
3.250 · p. 21
अनुष्टुप्
अभिज्ञा तु स्त्रियां स्मृत्यां निपुणे त्वभिधेयवत् ।अभिज्ञा तु भवेज्ज्ञानेऽङ्गीकारे स्मरणेपि च ॥ २५१ ॥
3.251 · p. 21
अनुष्टुप्
पञ्चात्मके बुद्धगुणे यत्र स्यात्कामरूपता ।सर्वशब्दश्रुतिः सर्वदृष्टिरन्यमनोग्रहः ॥ २५२ ॥
3.252 · p. 21
अनुष्टुप्
भूतभव्यजनुर्ज्ञानपञ्चभिर्घटिता च सा ।अभितः शीघ्रसाकल्यसम्मुखोभयतोऽन्तिके ॥ २५३ ॥
3.253 · p. 21
अनुष्टुप्
अभितापस्तु तापेपि ज्वरेप्यश्वस्य कीर्त्तितः ।अभिधा तु भवेदुक्तौ संज्ञायामपि च स्त्रियाम् ॥ २५४ ॥
3.254 · p. 21
अनुष्टुप्
अभिधानं नामवचोबन्धनेषु नपुंसकम् ।अभिधानी तु रज्जौ स्त्री पशूनां परिकीर्त्तिता ॥ २५५ ॥
3.255 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ना (wrong syllable)
व्यञ्जकोभिनयो यस्तु सूच्यार्थाभिनयः स च ।वर्णमात्रे विसर्गे चाभिनिष्टानः प्रकीर्त्तितः ॥ २५६ ॥
3.256 · p. 21
अनुष्टुप्
अभिनीतं त्रिषु न्याय्ये संस्कृतामर्षिणोरपि ।अभिपन्नोपराद्धेभिग्रस्ते चापद्गते त्रिषु ॥ २५७ ॥
3.257 · p. 21
अनुष्टुप्
अभिप्लवस्त्वनुचरे त्रिलिङ्गः परिकीर्त्तितः ।पुमांस्त्वभिमुखप्लुत्यक्रतोश्चाहर्गणान्तरे ॥ २५८ ॥
3.258 · p. 21
अनुष्टुप्

अभिमरः-अभीक्ष्णं

भवेदभिमरो युद्धे वधे स्वबलसाध्वसे ।अभिमर्दस्तु पुंसि स्यात्संपरायेऽवमर्दने ॥ २५९ ॥
3.259 · p. 22
अनुष्टुप्
अभिमानो भवेद्दर्पाज्ञानप्रणयहिंसने ।अभियुक्तः परिचिते चाप्ते रुद्धे परैरपि ॥ २६० ॥
3.260 · p. 22
अनुष्टुप्
व्यवहारप्रवृत्तानां तथैवोत्तरवादिनि ।अभियोक्ता विवादेषु पूर्ववादिन्यपि द्विषः ॥ २६१ ॥
3.261 · p. 22
अनुष्टुप्
परिक्षेप्तरि सैन्यैश्च संप्रयुक्तोभिधेयवत् ।अभियोगः पृतनया यानेप्यन्यायधर्षितैः ॥ २६२ ॥
3.262 · p. 22
अनुष्टुप्
वेदने प्राड्विवाकाय पुमान्परिचयेपि च ।अभिरूपो बुधे तद्वद्रमणीयेभिधेयवत् ॥ २६३ ॥
3.263 · p. 22
अनुष्टुप्
अभिशस्तोऽभिशप्ते त्रिर्विवाद्युत्तरवादिनि ।अभिशस्तिः प्रार्थनायामभिशापे च दूषणे ॥ २६४ ॥
3.264 · p. 22
अनुष्टुप्
अभिषङ्गः पुमान् दुःखे शापे सङ्गे पराभवे ।आक्रोशेपि तथैवाभि…वणेपि प्रयुज्यते ॥ २६५ ॥
3.265 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्नानेऽभिषवो मद्यसंधाने सवने पुमान् ।अभिषिक्तो द्वयोर्विप्रक्षत्रियाव्यभिचारजे ॥ २६६ ॥
3.266 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्ना (syllables merged)
कृताभिषेके शब्दोयं वाच्यवत्परिकीर्त्तितः ।काञ्जिकेऽभिषवे चाभिषुतं त्रित्वस्य कर्मणि ॥ २६७ ॥
3.267 · p. 22
अनुष्टुप्
अभिष्यन्दोऽतिवृद्धौ स्यादास्रावेऽक्षिगदेपि च ।अभिसंधानमुदितमभिसंधिशराख्ययोः ॥ २६८ ॥
3.268 · p. 22
अनुष्टुप्
अभिसारक इत्येष स्यात्त्रिलिङ्गोभिगन्तरि ।कान्तार्थिनी तु या याति संकेतं साऽभिसारिका ॥ २६९ ॥
3.269 · p. 22
अनुष्टुप्
देवरे च नियुक्तायां यात्यन्यं साऽभिसारिका ।अभिहारः संनहने चौर्ये वैराभियोगयोः ॥ २७० ॥
3.270 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
गजशायनकालेपि पुँल्लिङ्गः परिकीर्त्तितः ।पुमांस्तु ऋषिभेदे स्यात्सामगेपि कवौ तथा ॥ २७१ ॥
3.271 · p. 22
अनुष्टुप्
अभीक्ष्णस्तु भृशे नित्यतद्युक्तक्रिययोस्त्रिषु ।अभीक्ष्णं मुहुरश्रान्ते प्रकर्षे त्वरितेऽव्ययम् ॥ २७२ ॥
3.272 · p. 22
अनुष्टुप्

अभीतः-अमा

अभीतोऽभिगतेपि स्यान्निर्भयेप्यभिधेयवत् ।अभीसुः प्रग्रहे रश्मौ बाहौ नाऽथाऽङ्गुलौ स्त्रियाम् ॥ २७३ ॥
3.273 · p. 23
अनुष्टुप्
अभ्यग्रोऽभिमुखे नव्ये समीपेऽप्यभिधेयवत् ।सामीप्ये पुनरभ्यग्रं नपुंसकमुदीरितम् ॥ २७४ ॥
3.274 · p. 23
अनुष्टुप्
अभ्यागमो विरोधाभिघाताभ्युद्गगमनान्तिके ।अभ्याधानमभिन्यासे वह्न्यर्थं चेध्मसंग्रहे ॥ २७५ ॥
3.275 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 द्गग (syllable split)
स्यादभ्यारूढमारूढे सातिरेके च संपदा ।अभ्याशो व्यसने पुंसि सामीप्येप्यन्तिकेपि च ॥ २७६ ॥
3.276 · p. 23
अनुष्टुप्
अभ्यासो गुणने घातो द्वित्रे पूर्वत्र च स्मृतः ।पुंस्यभ्युपगमः स्कीकारेऽन्तिकोपगमेपि च ॥ २७७ ॥
3.277 · p. 23
अनुष्टुप्
लाजेषु क्लीबमभ्योषं नाऽऽज्याम्भः पेयसक्तुषु ।अभ्रं मुस्ताम्बुदव्योमकाञ्चनाभ्रकधातुषु ॥ २७८ ॥
3.278 · p. 23
अनुष्टुप्
अभ्रिः स्त्री काष्ठकुद्दाले स्यात्कूपे तु पुमानयम् ।ग्रावाणो ये च सुत्यार्थमभयस्ते प्रकीर्त्तिताः ॥ २७९ ॥
3.279 · p. 23
अनुष्टुप्
अभ्वा तु गमने चैव सलिले च स्त्रियां मता ।अमतः पुंसि मृत्यौ स्याद् द्वे मर्त्ये त्रिर्मतेतरे ॥ २८० ॥
3.280 · p. 23
अनुष्टुप्
अमतिस्त्वभिघाते ना द्वयोश्छागे च चातके ।अज्ञानलिङ्गरूपे च प्रावृषि त्रिस्तु निर्मतौ ॥ २८१ ॥
3.281 · p. 23
अनुष्टुप्
अमतिः पुंस्त्रियोरग्नौ रोगे च परिकीर्त्तितः ।अमनिः पशुवङ्क्षण्यां जलपात्रे च दारवे ॥ २८२ ॥
3.282 · p. 23
अनुष्टुप्
अमरस्त्वस्थिसंहारकुलिशद्रुमयोः पुमान् ।देवानां कवचे मेकलाद्रौ चामरकण्टकः ॥ २८३ ॥
3.283 · p. 23
अनुष्टुप्
अमरा स्त्र्यमरावत्यां स्थूणादूर्वाजरायुषु ।गुडूच्यां चामरी तु स्त्रीपुंसयोर्देव इष्यते ॥ २८४ ॥
3.284 · p. 23
अनुष्टुप्
अमलं त्वभ्रके लक्ष्म्यां त्वमला त्रिस्तु निर्मले ।अमाऽव्ययं सहार्थे च समीपार्थे च कीर्त्तितम् ॥ २८५ ॥
3.285 · p. 23
अनुष्टुप्

अमात्यः-अम्बा

अमात्यः स्याद्धि सचिवे राज्ञोऽथ त्रिष्वमाभवे ।अमावास्या स्त्रियां दर्शे जाते त्वत्र त्रिषु स्मृता ॥ २८६ ॥
3.286 · p. 24
अनुष्टुप्
अमृतं व्योम्नि देवान्ने यज्ञशेषे रसायने ।अयाचिते जले जग्धौ मोक्षे हेम्नि च गोरसे ॥ २८७ ॥
3.287 · p. 24
अनुष्टुप्
धारोष्णदुग्धेप्यमृतौ दुग्धमात्रे नपुंसकम् ।अमृतस्तु द्वयोर्देवे पुंसि धन्वन्तरौ स्मृतः ॥ २८८ ॥
3.288 · p. 24
अनुष्टुप्
अमृता मागधी पथ्या गुडूच्यामलकीषु च ।स्यात्सुरामिक्षयोः सूर्यरश्मिभित्स्वमृताः स्मृताः ॥ २८९ ॥
3.289 · p. 24
अनुष्टुप्
आनन्दनाश्च मेध्याश्च नूतनाः पूतना इति ।शते शतं वृष्टिवहा आख्याता याश्चिरन्तनैः ॥ २९० ॥
3.290 · p. 24
अनुष्टुप्
अमृतोद्भवमेतत् क्ली लशुने त्रिः सुधोद्भवे ।अमोघः सफले वाच्यलिङ्गः स्यात्स्त्री तु पाटलौ ॥ २९१ ॥
3.291 · p. 24
अनुष्टुप्
पथ्याविडङ्गयोश्चैवाऽमोघा ग्राहे त्वयं द्वयोः ।अम्बकं नयने क्लीबमम्बिका मातरि स्मृता ॥ २९२ ॥
3.292 · p. 24
अनुष्टुप्
पार्वत्यां मातुलान्यां च कनिष्ठायां स्वसर्यपि ।अम्बरं वाससि व्योम्नि सुगन्धिद्रव्यकान्तरे ॥ २९३ ॥
3.293 · p. 24
अनुष्टुप्
अम्बरीषोनुतापेऽश्वसाधके निरयान्तरे ।आम्रातके तैलपर्ण्यां सूर्ये राजान्तरे पुमान् ॥ २९४ ॥
3.294 · p. 24
अनुष्टुप्
क्ली रणे तृणभेदे च वर्षे रोधसि वाससि ।चुल्ल्यां भ्राष्टमहाभ्राष्टे कुले द्वे तु किशोरके ॥ २९५ ॥
3.295 · p. 24
अनुष्टुप्
अम्बष्ठो देशभेदे नाम्बष्ठ्यम्बष्ठा द्वयोर्भवेत् ।विप्रोढवैश्याजे किं वा विप्रोढक्षत्रियाभवे ॥ २९६ ॥
3.296 · p. 24
अनुष्टुप्
सवर्णनाम्नि महिष्याख्ये वैश्याजे च हस्तिपे ।अम्बष्ठा शार्ङ्गष्ठिकायां पाठायूथिकयोर्भवेत् ॥ २९७ ॥
3.297 · p. 24
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
चाङ्गेरी चुक्रिकाकाकीमयूरविदलासु च ।अम्बा मातरि चाप्युक्ता ज्येष्ठस्वसरि च स्त्रियाम् ॥ २९८ ॥
3.298 · p. 24
अनुष्टुप्

अम्बु-अयि

वाचां मध्यमिकानां च सप्तानामेकवाचि च ।अम्बुच्छन्दोविशेषे क्ली नवत्यक्षरलक्षिते ॥ २९९ ॥
3.299 · p. 25
अनुष्टुप्
लग्नाच्चतुर्थराशौ च ह्रीबेरे सलिलेपि च ।अम्बुकः काकनासायामेरण्डेपि पुमान्मतः ॥ ३०० ॥
3.300 · p. 25
अनुष्टुप्
अम्बुजं कमले क्लीबे कोटेर्दशगुणोत्तरे ।संख्याभेदे सप्तमेऽथ पुमान्निचुलशङ्खयोः ॥ ३०१ ॥
3.301 · p. 25
अनुष्टुप्
स्यादम्बुजोम्बुजा तु स्त्री कमलायां प्रकीर्त्तिता ।अम्बुप्रियो वेतसेना त्रिलिङ्गः सलिलप्रिये ॥ ३०२ ॥
3.302 · p. 25
अनुष्टुप्
अम्भः सान्तं भवेत् क्लीबं ह्रीबेरे सलिलेपि च ।द्व्यशीतिस्वरकेच्छन्दस्यष्टाशीत्यक्षरेपि च ॥ ३०३ ॥
3.303 · p. 25
अनुष्टुप्
अम्भसी इति तु द्यावा पृथिव्योर्द्विवचोन्तकम् ।अम्ली स्त्री चुक्रिकायां त्रिः साम्लेऽम्लो ना रसान्तरे ॥ ३०४ ॥
3.304 · p. 25
अनुष्टुप्
अम्लानोऽम्लानिमत्येष भेद्यवत्परिकीर्त्तितः ।महासहायां त्वम्लानोऽम्लानं तु प्रसवेस्य च ॥ ३०५ ॥
3.305 · p. 25
अनुष्टुप्
अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च ।अयः शुभावहे दैवे द्यूतेऽक्षपतने गतौ ॥ ३०६ ॥
3.306 · p. 25
अनुष्टुप्
पुमान्गन्तरि तु प्रोक्तोऽयशब्दोऽयं त्रिलिङ्गकः ।अयतेरप्ययेरेतेरीयतेश्च पचाद्यचि ॥ ३०७ ॥
3.307 · p. 25
अनुष्टुप्
अयतिस्तु पुमानुक्तश्चन्द्रे काले तथैव च ।अयनं निलये मार्गे सूर्योदग्दक्षिणागतौ ॥ ३०८ ॥
3.308 · p. 25
अनुष्टुप्
स्यात्सांवत्सरिकाद्येषु सत्याख्यक्रतुकर्मसु ।एषां प्रयोगभेदे च गतिमात्रे च दृश्यते ॥ ३०९ ॥
3.309 · p. 25
अनुष्टुप्
अयोऽगरुणि लोहे च पर्पटे मरिचे च नप् ।अयि प्रश्नानुनययोस्तथा संबोधनेपि च ॥ ३१० ॥
3.310 · p. 25
अनुष्टुप्

अयुतं-अरिष्टः

अयुतं दशसाहस्रे क्लीबं त्रिषु युतेतरे ।अये क्रोधे विषादे च संभ्रमे स्मरणेपि च ॥ ३११ ॥
3.311 · p. 26
अनुष्टुप्
अयोगो ना वियोगे त्रिर्विधुराश्लिष्टलोहगे ।अयोमयस्त्वयस्कान्ते रत्ने तन्नाम्नि पुंस्त्रियोः ॥ ३१२ ॥
3.312 · p. 26
अनुष्टुप्
अरं तु त्वरिते मेघवदसत्त्वेऽत्र नप्स्मृतम् ।चक्रनमेस्तु विष्कम्भकाष्ठेऽरः पुंसि कीर्त्तितः ॥ ३१३ ॥
3.313 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
अरणिर्वह्निमन्थेपि ना मुहुर्लपनेपि च ।यज्ञाग्निमन्थकाष्ठे तु पुंस्त्रियोररणिर्मतः ॥ ३१४ ॥
3.314 · p. 26
अनुष्टुप्
अथाविवाह्यकन्यायां निस्पृहायां स्वतः स्त्रियाम् ।अरतिस्तु स्त्रियां क्रोधे चाऽसुखे त्रिस्तु नीरतौ ॥ ३१५ ॥
3.315 · p. 26
अनुष्टुप्
अरत्निः पुंस्त्रियोर्हस्ते सप्रकोष्ठतताङ्गुलौ ।चतुर्विंशत्यङ्गले च माने कीले च कूर्परे ॥ ३१६ ॥
3.316 · p. 26
अनुष्टुप्
अररः सोमसंज्ञे स्याद्यज्ञाङ्गेऽग्नौ रणे पुनः ।पुँल्लिङ्गक्लीबयोस्तद्वल्लोहलोहशलाकयोः ॥ ३१७ ॥
3.317 · p. 26
अनुष्टुप्
अथारर्यररं चेति कवाटे स्त्रीनपुंसके ।आरायामररास्त्र्येव शीघ्रे स्याद्भेद्यलिङ्गकम् ॥ ३१८ ॥
3.318 · p. 26
अनुष्टुप्
अररुस्त्वसुरे द्वे च मन्थनेऽथायुधे नपि ।अरविन्दं जले प्रोक्तमम्बुजेपि नपुंसकम् ॥ ३१९ ॥
3.319 · p. 26
अनुष्टुप्
अरालो यक्षधूपाख्यनिर्यासे पुंस्ययं तथा ।नटानां हस्तविन्यासभेदे भुग्ने तु भेद्यवत् ॥ ३२० ॥
3.320 · p. 26
अनुष्टुप्
अतिप्रमाणकाये तु गजभेदे द्वयोरयम् ।अरिर्ना खदिरे शत्रौ द्वे मर्त्त्येऽथ त्रिरीश्वरे ॥ ३२१ ॥
3.321 · p. 26
अनुष्टुप्
अरिष्टस्तु पुमान्निम्बे फेनिलाख्ये महीरुहे ।लशुने दैत्यभेदे च कृष्णेन विनिपातिते ॥ ३२२ ॥
3.322 · p. 26
अनुष्टुप्
स्याद्देशबन्धने चाथ क्लीबं मरणलाञ्छने ।अप्यारण्यकयोः साम्नोः पवित्रे तक्रगुत्थयोः ॥ ३२३ ॥
3.323 · p. 26
अनुष्टुप्
अशुभे च शुभे वर्णविकारेऽञ्जनसंनिभे ।वर्णे निकारे मद्ये च सूतिगेहे स्त्रियां पुनः ॥ ३२४ ॥
3.324 · p. 26
अनुष्टुप्

अरिष्टनेमिः-अर्घ्या

अरिष्टनेमिर्विष्णौ ना बहुव्रीहौ तु वाच्यवत् ।अरिष्टा कटुकानागबलयोरस्त्रियां त्विदम् ॥ ३२५ ॥
3.325 · p. 27
अनुष्टुप्
तक्रौषधद्रवभिदोर्द्वे तु काके त्रिषु त्वयम् ।अरुणा स्त्री विषायां च मञ्जिष्ठात्रिवृतोरपि ॥ ३२६ ॥
3.326 · p. 27
अनुष्टुप्
क्ली तु ताम्रे पुमांस्तु स्यात्सूर्ये सूर्यस्य सारथौ ।शशिजे चाप्युषसि च काण्डर्षिष्वपि केषुचित् ॥ ३२७ ॥
3.327 · p. 27
अनुष्टुप्
अव्यक्तरागवर्णे च संध्यारागे च लोहिते ।कपिले चाथोक्तवर्णवत्सु त्रिष्वपि नीरवे ॥ ३२८ ॥
3.328 · p. 27
अनुष्टुप्
अरुन्धद्वाच्यवदरोधके स्यात्स्त्री त्वरुन्धती ।वचायां च वसिष्ठस्य भार्यायामपि कीर्त्तिता ॥ ३२९ ॥
3.329 · p. 27
अनुष्टुप्
अरुलं सलिलेपि स्यात्पोतेपि च नपुंसकम् ।अरुषस्तु पुमान्सूर्ये वर्णेपि त्रिस्तु निष्क्रुधि ॥ ३३० ॥
3.330 · p. 27
अनुष्टुप्
रूपवत्यप्यथाश्वे द्वे अरुषीत्युषसि स्त्रियाम् ।अरुष्करः पुमान्भल्लातके त्रिर्व्रणकारिणि ॥ ३३१ ॥
3.331 · p. 27
अनुष्टुप्
अरूषस्तु यवे त्रिस्तु रूढभिन्नेप्यरोहणे ।अरेऽव्ययमसूयायां तथैवापाकृतावपि ॥ ३३२ ॥
3.332 · p. 27
अनुष्टुप्
अरोचकस्त्रिष्वरोचि तदिनात्यरुचौ मतः ।अर्कः सूर्ये च ताम्रे च चन्द्रे चेन्द्रे च पावके ॥ ३३३ ॥
3.333 · p. 27
अनुष्टुप्
ज्येष्ठे भ्रातरि वज्रेऽन्ने स्फटिके स्तुतिमन्त्रयोः ।अध्वर्युक्रमभेदेर्कपर्णसंज्ञे च गुल्मके ॥ ३३४ ॥
3.334 · p. 27
अनुष्टुप्
वसिष्ठजमदग्न्यादिसामभेदेषु केषुचित् ।नपुंसके त्वर्कपर्णगुल्मस्य फलपुष्पयोः ॥ ३३५ ॥
3.335 · p. 27
अनुष्टुप्
अर्कपुष्पं त्वर्कपुष्पे न स्त्री साम्नोर्द्वयोरपि ।अर्गला चार्गलं द्वारकवाटद्वयबन्धने ॥ ३३६ ॥
3.336 · p. 27
अनुष्टुप्
क्लीबं तु द्वारपटले विदण्डे तु त्रिलिङ्गिका ।अर्घः पुमान्भवेन्मूल्ये तथा पूजाविधावपि ॥ ३३७ ॥
3.337 · p. 27
अनुष्टुप्
अर्घ्यं त्रिषु जलेऽर्घार्थेऽर्घार्हे च बहुमूल्यके ।क्लीबमापाण्डुतिक्ते स्यान्मद्येऽर्घ्या तु स्त्रियां गवि ॥ ३३८ ॥
3.338 · p. 27
अनुष्टुप्

अर्चा-अर्धचन्द्रः

अर्चा तु प्रतिमायां स्त्री पूजायामपि कीर्त्तिता ।अर्चिर्न ना भासि शस्त्रे ज्वालायामपि कीर्त्तिता ॥ ३३९ ॥
3.339 · p. 28
अनुष्टुप्
अर्जकस्त्र्यर्जयितरि पुमान्सितकठिञ्जरे ।अर्जुनस्तु पुमान्कार्त्तवीर्ये मध्यमपाण्डवे ॥ ३४० ॥
3.340 · p. 28
अनुष्टुप्
मातुरेकसुते शौक्ल्ये यमेपि ककुभद्रुमे ।क्ली त्वर्जुनं तृणे रूपे हेम्नि दृष्टिरुजान्तरे ॥ ३४१ ॥
3.341 · p. 28
अनुष्टुप्
अर्जुनी बाहुदा नद्यां कुट्टिन्यां सुरभावपि ।रात्रावुषस्यथ स्यात्त्रिप्व्यग्रे शुक्लेपि चार्जुनः ॥ ३४२ ॥
3.342 · p. 28
अनुष्टुप्
मयूरे त्वर्जुनः स्त्रीपुंसयोरेष प्रयुज्यते ।अर्णश्छन्दस्यष्टसप्ततिस्वरे क्ली जलेपि च ॥ ३४३ ॥
3.343 · p. 28
अनुष्टुप्
अर्णवोऽब्धौ षण्णवतिस्वरेच्छन्दोत्तरेपि च ।अर्त्तिर्ना ऋच्छतौ धातौ स्त्री धनुष्कोटिपीडयोः ॥ ३४४ ॥
3.344 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
अर्थः फले धने शास्त्रे वस्तुमात्रे प्रयोजने ।हृदये साधने मोक्षे कार्यैश्वर्यनिवृत्तिषु ॥ ३४५ ॥
3.345 · p. 28
अनुष्टुप्
वाच्ये हेतावभिप्राये याचने विषये तथा ।अर्थवादः परार्थोक्तैर्वेदांशे च विधीतरे ॥ ३४६ ॥
3.346 · p. 28
अनुष्टुप्
अर्थी ना याचके दासे व्यवहाराभियोक्तरि ।अर्थ्यस्त्रिष्वनपेतेऽर्थाद्विद्वदात्मवतोरपि ॥ ३४७ ॥
3.347 · p. 28
अनुष्टुप्
न्याप्ये कृकणाख्ये तुर्यक्षभेदे द्वयोरयम् ।शिलाजतुनि तु क्लीबमर्थ्यमित्येतदिष्यते ॥ ३४८ ॥
3.348 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 न्या (syllables merged)
अर्दो गतौ याचनेऽथ वैराग्येर्दं नपुंसकम् ।अर्दनं तु गतौ क्लीबं याचनाहिंसयोर्न ना ॥ ३४९ ॥
3.349 · p. 28
अनुष्टुप्
अर्दितं याचने गत्यां हिंसने वातजामये ।त्रिलिङ्गं तु गते चैव हिंसिते याचिते तथा ॥ ३५० ॥
3.350 · p. 28
अनुष्टुप्
अर्दितिः स्यात्पुमानग्नौ शस्त्रभेदे च याचने ।अर्थः पुमान्स्यात्शकले समांशे तु नपुंसकम् ॥ ३५१ ॥
3.351 · p. 28
अनुष्टुप्
रूपकार्धेप्यर्धमेतत्क्लीबं रूढित उच्यते ।अर्धचन्द्रः क्षुरप्रेषौ गलहस्तेर्धचन्द्रके ॥ ३५२ ॥
3.352 · p. 28
अनुष्टुप्

अर्धचन्द्रः-अलकाः

अर्धचन्द्रा लताभेदे मसूरविदलाह्वये ।अर्धजाह्नव्यर्धगङ्गाकावेर्योः परिकीर्त्तिता ॥ ३५३ ॥
3.353 · p. 29
अनुष्टुप्
अर्धपारावतश्चित्रकण्ठे तित्तिरिपक्षिणि ।अर्धसूचीति सूच्यर्धे चासने यत्र संहतौ ॥ ३५४ ॥
3.354 · p. 29
अनुष्टुप्
मुखात्पाणितलावूर्ध्वक्षौ प्रदेशान्तरस्थितौ ।अर्धहस्ता पञ्चहस्तमानेनार्धकरे नृनप् ॥ ३५५ ॥
3.355 · p. 29
अनुष्टुप्
अर्धेन्दुः स्यादतिप्रौढस्त्रीयोन्यङ्गुलियोजने ।अर्पिषं बालवत्साया दुग्धे स्यादग्रमांसके ॥ ३५६ ॥
3.356 · p. 29
अनुष्टुप्
अर्पिषश्चार्पिषी चेति प्राहुर्दन्तावले द्वयोः ।अर्वुदो स्त्री मांसकीलरोगे चाक्षिरुजान्तरे ॥ ३५७ ॥
3.357 · p. 29
अनुष्टुप्
ना शैलभेदे क्लीकोटौ कोटीनां दशकेपि वा ।अर्भोऽल्पके बालके च वाच्यवत् संप्रयुज्यते ॥ ३५८ ॥
3.358 · p. 29
अनुष्टुप्
अर्भमस्त्रीस्थले ग्रामे नेत्रे रोगान्तरेपि च ।अर्भकः कथितो बाले मुर्खेपि च कृशेपि च ॥ ३५९ ॥
3.359 · p. 29
अनुष्टुप्
अर्यो महाशास्तरि ना द्वयोर्वैश्ये यदा त्वयम् ।वैश्यजातिस्त्रियामर्या स्यादर्याणी च सा तदा ॥ ३६० ॥
3.360 · p. 29
अनुष्टुप्