कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ह (2/2)

हेम कुड्ये पुनः क्लीबे द्वीपभेदेऽम्बुधीकृते ।खाते भारतवर्षस्य प्रदेशे सगरैः स्थिते ॥ ६७८५ ॥
49.6785 · p. 501
अनुष्टुप्
हेमपुष्पी पीतयूथ्यां ना तु स्याच्चम्पकद्रुमे ।हेमलो ना शिलाभेदे द्वयोस्तु कृकलासके ॥ ६७८६ ॥
49.6786 · p. 501
अनुष्टुप्
हेमलस्तु त्रिषु स्वर्णकृत्येष परिकीर्त्तितः ।हेरम्बस्तु द्वयोरेष महिषे कीर्त्तितोऽथ ना ॥ ६७८७ ॥
49.6787 · p. 501
अनुष्टुप्
प्रमथानां प्रभेदे च हेरम्बो विघ्ननायके ।हेरुको बुद्धभेदे च महाकालाह्वये गणे ॥ ६७८८ ॥
49.6788 · p. 501
अनुष्टुप्
हेला विलासप्रस्तावावज्ञासु स्त्री प्रकीर्त्तिता ।हेलिः पुमान्स्यान्मार्त्तण्डे तथोक्त उपगूहने ॥ ६७८९ ॥
49.6789 · p. 501
अनुष्टुप्
अथ हैमवती गङ्गापार्वत्योश्च स्त्रियां मता ।स्वर्णक्षीरीहरीतक्योः शुक्ले चैव वचान्तरे ॥ ६७९० ॥
49.6790 · p. 501
अनुष्टुप्
क्ली तु हैमवतं वर्षे भारते भेद्यवत्पुनः ।हिमवद्भिदि सम्बन्धिमात्रे हैमवतं मतम् ॥ ६७९१ ॥
49.6791 · p. 501
अनुष्टुप्
होता तु हावके त्रि स्यादृत्विग्भेदे पुमानयम् ।होत्रं क्ली भवने होत्रा वाचि यज्ञेऽथ नार्त्वृजि ॥ ६७९२ ॥
49.6792 · p. 501
अनुष्टुप्
होत्वं स्याद्यजमानेऽपि समुद्रेऽपि नपुंसकम् ।होमं हव्येऽग्निहोत्रस्य शालायां च नपुंसकम् ॥ ६७९३ ॥
49.6793 · p. 501
अनुष्टुप्
होरा लग्ने च लग्नार्धेऽहोरात्रेऽपि स्त्रियां मता ।ह्रदो मेषे द्वयोरुक्तः पुंस्यगाधजलाशये ॥ ६७९४ ॥
49.6794 · p. 501
अनुष्टुप्
ह्रस्वोऽल्पे वामने चैकमात्रवर्णे यमे तु ना ।ह्रादिनी तु स्त्रियां वज्रे तथा तडिति कीर्त्तिता ॥ ६७९५ ॥
49.6795 · p. 501
अनुष्टुप्

ह्रीकः-ह्रीरुः

ह्रीकस्त्रिर्ह्लीकवल्लज्जाशीलेऽथ नकुले द्वयोः ।ह्रीकुर्लज्जावति त्रि स्याद्वनमार्जारके द्वयोः ॥ ६७९६ ॥
49.6796 · p. 502
अनुष्टुप्
ह्रीरुर्लज्जावति त्रि स्याद्द्वयोस्तु बक इष्यते ॥ ६७९६-१/२ ॥
49.133 · p. 502
-------------------
49.134 · p. 502