कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

भ (1/2)

भं-भट्टारिका

भं नक्षत्रे च मेषादौ संख्यायां सप्तविंशतौ ॥ ३९२७ ॥
40.3927 · p. 292
भस्तु भ्रान्तौ तथा शुक्रग्रहेऽप्यादिगुरौ गणे ।संज्ञान्तरे पाणिनेश्च भा तु भासि स्त्रियां मता ॥ ३९२८ ॥
40.3928 · p. 292
अनुष्टुप्
भक्षणाऽभ्यवहारे स्त्री भक्षणं च नपुंसकम् ।गवीथुकाख्यधान्ये तु भक्षणीति स्त्रियां मता ॥ ३९२९ ॥
40.3929 · p. 292
अनुष्टुप्
भक्तस्त्रिः सेविते सेवकेऽथ क्ल्योदनसेवयोः ।भक्तिर्भागे सेव्यमाने लक्षणासेवयोः स्त्रियाम् ॥ ३९३० ॥
40.3930 · p. 292
अनुष्टुप्
भगोऽस्त्री स्याद्यशोवीर्ययोनियत्नार्कभूतिषु ।कान्तीच्छाज्ञानवैराग्यधर्मैश्वर्यतपः सु च ॥ ३९३१ ॥
40.3931 · p. 292
अनुष्टुप्
धैर्यसौभाग्यमाहात्म्यधनशुक्रमतिश्रुते ।पुमांस्तु सूर्ये चादित्यभेदानामपि कुत्रचित् ॥ ३९३२ ॥
40.3932 · p. 292
अनुष्टुप्
भगवांस्तु महादेवे शिवे च सुगते पुमान् ।स्त्री पार्वत्यां भगवती पूज्ये तु भगवांस्त्रिषु ॥ ३९३३ ॥
40.3933 · p. 292
अनुष्टुप्
भङ्गः पुमांस्तरङ्गे च भञ्जने च प्रकीर्त्तितः ।धान्ये तु मातुलान्याख्ये स्त्रियां भङ्गा प्रकीर्त्तिता ॥ ३९३४ ॥
40.3934 · p. 292
अनुष्टुप्
भङ्गिर्भङ्गेऽप्याकृतौ च विच्छित्तौ च स्त्रियाम्मता ।भङ्गुरो नश्वरे चापि नम्रे स्यादभिधेयवत् ॥ ३९३५ ॥
40.3935 · p. 292
अनुष्टुप्
भङ्ग्यो भाङ्गीनभङ्क्तव्यभङ्गसाध्वादिषु त्रिषु ।भञ्जनं क्लीबमामर्देऽथार्थे भञ्जयतेर्न ना ॥ ३९३६ ॥
40.3936 · p. 292
अनुष्टुप्
भञ्जना तु स्त्रियामेव विवृत्य वचने भवेत् ।भटस्तु योधे ना मर्त्ये नटीविप्रोद्भवे द्वयोः ॥ ३९३७ ॥
40.3937 · p. 292
अनुष्टुप्
भटालं तु कपाले क्ली भटालः सेवके त्रिषु ।भटिलः सेवके त्रि स्याद्द्वयोस्तु शुनके मतः ॥ ३९३८ ॥
40.3938 · p. 292
अनुष्टुप्
भट्टारको ना नाट्योक्तौ राज्ञि पूज्ये च पूरुषे ।स्त्री तु भट्टारिका ज्ञेया नाट्योक्तावेव मातरि ॥ ३९३९ ॥
40.3939 · p. 292
अनुष्टुप्

भट्टिनी-भरद्वाजः

भट्टिनी द्विजभार्यायां नाट्योक्त्यां राजयोषिति ।भण्डं धनवतां कोशस्थितेऽर्थे स्यान्नपुंसकम् ॥ ३९४० ॥
40.3940 · p. 293
अनुष्टुप्
परिहासे द्वयोर्भण्डा हास्यकारिणि तु त्रिषु ।भण्डी मण्डूकपर्ण्याख्यतृणस्तम्बे स्त्रियाम्मता ॥ ३९४१ ॥
40.3941 · p. 293
अनुष्टुप्
भण्डनं परिहासे क्ली दुग्धे च कवचे रणे ।भण्डिलस्तु शिरीषे ना द्वयोः पुत्र तथा शुनि ॥ ३९४२ ॥
40.3942 · p. 293
अनुष्टुप्
भण्डीरी मण्डूकपर्ण्यां भण्डीरो योद्धरि त्रिषु ।भदन्तः पुंसि संन्यासिन्यपि स्यात्पूजनीयके ॥ ३९४३ ॥
40.3943 · p. 293
अनुष्टुप्
शाक्यक्षपणकानां च त्रिस्तु ताराभदन्तके ।भद्रः पुमान्स्यादृषभे गजभेदे द्वयोर्मतः ॥ ३९४४ ॥
40.3944 · p. 293
अनुष्टुप्
नपुंसकं तु भद्रं स्यात्सामभेदे शुभे सुखे ।भद्रस्तु कीर्त्तितः साधौ बृहत्यप्यभिधेयवत् ॥ ३९४५ ॥
40.3945 · p. 293
अनुष्टुप्
स्त्रियां तु भद्रा दूर्वायां शारिबारास्नयोरपि ।द्वितीयासप्तमीद्वादश्याख्यासु च तिथिष्वपि ॥ ३९४६ ॥
40.3946 · p. 293
अनुष्टुप्
भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रियाम् ।भयं प्रतिभये घोरे प्रसूने कुब्जकस्य च ॥ ३९४७ ॥
40.3947 · p. 293
अनुष्टुप्
भयानको द्वे वराहे व्याघ्रे स्यान्मूषिकान्तरे ।रसभेदे तु राहौ च पुमांस्त्रिषु तु भीषणे ॥ ३९४८ ॥
40.3948 · p. 293
अनुष्टुप्
भरस्त्वतिशये भारे संग्रामे गरिमण्यपि ।घोषके भरणं तु क्ली धारणे पोषणेऽपि च ॥ ३९४९ ॥
40.3949 · p. 293
अनुष्टुप्
भरणी घोषके ऋक्षे भरणं वेतने भृतौ ।भरतस्त्वृत्विजि नटे रामस्य च कनीयसि ॥ ३९५० ॥
40.3950 · p. 293
अनुष्टुप्
आद्यक्षत्रियभेदे च वर्षेऽस्मिन्नृत्तशास्त्रके ।भरद्वाजो गुरोः पुत्रे व्याघ्राटाख्यविहङ्गमे ॥ ३९५१ ॥
40.3951 · p. 293
अनुष्टुप्

भरुः-भवन्ती

भरुः सुवर्णे च शिवे भर्त्तरि त्वभिधेयवत् ।भरुजो द्वे शृगालेऽपि स्नेहसम्मृष्टतण्डुले ॥ ३९५२ ॥
40.3952 · p. 294
अनुष्टुप्
भक्ष्यभेदेऽपि तत्राऽन्त्ये भरुजी भरुजा स्त्रियाम् ।भरुटः कुम्भकारे द्वे कपर्दे तु पुमान्मतः ॥ ३९५३ ॥
40.3953 · p. 294
अनुष्टुप्
भर्गशब्दस्त्वदन्तः स्यात्सामभेदे महेश्वरे ।भर्गस्तेजसि च क्लीबं सान्तं रेतस्यपीष्यते ॥ ३९५४ ॥
40.3954 · p. 294
अनुष्टुप्
भर्त्ता धवे ना त्रिषु तु स्वामिपोषकधर्त्तृषु ।भर्त्तृदारक उक्तो ना नाट्योक्तौ युवराजके ॥ ३९५५ ॥
40.3955 · p. 294
अनुष्टुप्
राजपुत्र्यां तु नाट्योक्तौ स्त्रीलिङ्गा भर्त्तृदारिका ।भर्म स्याद्वेतने चापि काञ्चनेऽपि नपुंसकम् ॥ ३९५६ ॥
40.3956 · p. 294
अनुष्टुप्
भर्मकं रोगभेदे स्याद्विडङ्ककलधौतयोः ।भल्लः स्यात्पुंसि भल्लूके शस्त्रभेदे पुनर्द्वयोः ॥ ३९५७ ॥
40.3957 · p. 294
अनुष्टुप्
भल्लीति भल्लातक्यां च स्त्रियामेव प्रकीर्त्तिता ।भल्लको वानरे चापि तथा ऋक्षमृगे द्वयोः ॥ ३९५८ ॥
40.3958 · p. 294
अनुष्टुप्
भल्लाटस्तु द्वयोर्ऋक्षे ना देवे वास्तुवासिनि ।उदक्पार्श्वस्थकोष्ठानां प्रत्यगारभ्य तुर्यके ॥ ३९५९ ॥
40.3959 · p. 294
अनुष्टुप्
भल्लूकष्टुण्डुवृक्षे ना द्वयोस्त्वृक्षमृगे मतः ।भवः शिवप्राप्तिसत्रजगज्जन्मशुभक्रुधि ॥ ३९६० ॥
40.3960 · p. 294
अनुष्टुप्
भवस्तु भावितर्येष भेद्यवत्परिकीर्त्तितः ।भवत्पूज्ये सर्वनाम त्रिष्वत्र भवती स्त्रियाम् ॥ ३९६१ ॥
40.3961 · p. 294
अनुष्टुप्
त्रि त्वेव जायमाने च विद्यमाने च तत्र च ।स्त्रीत्वे भवन्तीत्येतत्स्यान्ना तु गोत्रस्य कर्त्तरि ॥ ३९६२ ॥
40.3962 · p. 294
अनुष्टुप्
ऋषिभेदे भवन्ती तु स्त्रीलिङ्गा लट्श्रुतौ स्मृता ।भवनं क्लीबमुत्पत्तौ गृहे भवनमस्त्रियाम् ॥ ३९६३ ॥
40.3963 · p. 294
अनुष्टुप्
स्त्रीपुंसयोस्तु भवनः कुक्कुटे परिकीर्त्तितः ।भवन्तः पुंसि काले त्रिर्भवन्ती भवितर्यपि ॥ ३९६४ ॥
40.3964 · p. 294
अनुष्टुप्

भविलः-भानुः

भविलस्त्रिषु भव्ये क्ली गृहे मुन्यन्तरे तु ना ।भविष्यत्सलिले क्लीबं भाविनि त्वभिधेयवत् ॥ ३९६५ ॥
40.3965 · p. 295
अनुष्टुप्
भव्यो ना कर्मरङ्गद्रौ क्लीबं तस्य फले धने ।कल्याणाख्यगुणे च स्याद्भेद्यलिङ्गं तु तद्वति ॥ ३९६६ ॥
40.3966 · p. 295
अनुष्टुप्
योग्ये भवितरि प्राप्ये भवितव्ये तु तन्नपि ।भषणः कुक्कुरे द्वे स्यात्क्ली तु बुक्कणकर्मणि ॥ ३९६७ ॥
40.3967 · p. 295
अनुष्टुप्
भसद्दान्ता स्त्रियां विष्ठा गुह्यकोष्ठेषु नप् मुखे ।भस्त्रा तु वह्निध्मानार्थाऽयस्कारादिदृतौ स्त्रियाम् ॥ ३९६८ ॥
40.3968 · p. 295
अनुष्टुप्
भेदे सप्तदशस्तोमविच्युतेरिषुधावपि ।भस्मकं व्याधिभेदेऽपि विडङ्गेऽपि नपुंसकम् ॥ ३९६९ ॥
40.3969 · p. 295
अनुष्टुप्
भस्मतूलं ग्रामकूटे पांशुवर्षे हिमेऽपि च ।भाकूटः शैलभेदेऽपि तथैव निमिषान्तरे ॥ ३९७० ॥
40.3970 · p. 295
अनुष्टुप्
भाक्तस्तु भक्तसाधौ स्यात्त्रिषु लाक्षणिकेऽपि च ।भागौ भाग्ये तुरीयांशे रूपकाऽर्धेंऽशमात्रके ॥ ३९७१ ॥
40.3971 · p. 295
अनुष्टुप्
भागन्तु सामभेदे क्ली भगसम्बन्धिनि त्रिषु ।भागधेयन्तु भाग्ये क्ली दायादे तु पुमानयम् ॥ ३९७२ ॥
40.3972 · p. 295
अनुष्टुप्
स्त्रीपुंसयोर्भागधेयी राजदेयकरे मता ।अथ भागवतः प्रोक्तो भगवद्योगिनि त्रिषु ॥ ३९७३ ॥
40.3973 · p. 295
अनुष्टुप्
द्वयोः क्षत्रियपूर्वायां वैश्यायां व्रात्यतः सुते ।भाग्यं शुभाशुभे जन्मान्तरकर्मणि कर्मणि ॥ ३९७४ ॥
40.3974 · p. 295
अनुष्टुप्
शुभाशुभेऽथ भक्तव्ये त्रिषु तत्र च साधुनि ।प्रदीयते यो वृद्ध्यायलाभशुल्को पदात्मना ॥ ३९७५ ॥
40.3975 · p. 295
अनुष्टुप्
भाजनं तु मतं योग्ये पात्रे चापि नपुंसकम् ।भाण्डं क्लीबममत्रेऽश्वभूषणे भूषणेऽपि च ॥ ३९७६ ॥
40.3976 · p. 295
अनुष्टुप्
वणिङ्मूलधने पण्ये तथैवोपस्करे स्मृतम् ।भाण्डी तु स्त्री शिरीषद्रौ भण्डसम्बन्धिनि त्रिषु ॥ ३९७७ ॥
40.3977 · p. 295
अनुष्टुप्
भातुः शरीरावयवे दैवे चापि पुमान्मतः ।भानुर्ना भास्करे घस्रे नृस्त्रियोस्तु गभस्तिषु ॥ ३९७८ ॥
40.3978 · p. 295
अनुष्टुप्

भामः-भालाङ्कः

भामः क्रोधे च भगिनीपतौ भामा तु योषिति ।स्त्रीत्वे च सत्यभामायामीर्ष्यावति तु स त्रिषु ॥ ३९७९ ॥
40.3979 · p. 296
अनुष्टुप्
भारः सहस्रद्वितये पलानां च गरिम्णि च ।वोढव्ये भरणे चापि पुँल्लिङ्गः परिकीर्त्तितः ॥ ३९८० ॥
40.3980 · p. 296
अनुष्टुप्
भारतं त्वस्त्रियामस्मिन्वर्षे स्यात्स्त्री तु भारती ।यक्षिणीतुलसीवाणीनाट्यवृत्त्यन्तरेषु च ॥ ३९८१ ॥
40.3981 · p. 296
अनुष्टुप्
क्लीबं तु भारतमिति महाभारत इष्यते ।भारद्वाजः पक्षिभेदे व्याघ्राटाख्ये द्वयोर्मतः ॥ ३९८२ ॥
40.3982 · p. 296
अनुष्टुप्
भारद्वाजी स्त्रियां वन्यकार्पास्यां ना क्वचिन्मुनौ ।भरद्वाजस्य वंश्ये द्वे त्रि तु सम्बन्धिनि स्मृतः ॥ ३९८३ ॥
40.3983 · p. 296
अनुष्टुप्
भारवाहो रेचिताख्याऽश्वगतौ पुंसि कीर्त्तितः ।अथ तद्वति भारस्य वोढर्यपि च वाच्यवत् ॥ ३९८४ ॥
40.3984 · p. 296
अनुष्टुप्
भारुण्डं सामभेदेषु क्ली भारुण्डः पुनर्द्वयोः ।एकोदरपृथग्ग्रीवे पक्षिण्यम्बुधिचारिणि ॥ ३९८५ ॥
40.3985 · p. 296
अनुष्टुप्
भार्गवी पार्वतीलक्ष्मीदूर्वासु स्यात्स्त्रियामथ ।शुक्रे परशुरामे च गजे धन्विनि भार्गवः ॥ ३९८६ ॥
40.3986 · p. 296
अनुष्टुप्
भार्त्रं पोषे त्रि तु भृतेर्ग्राहके भर्तृयोगिनि ।भार्या स्त्री सहधर्मिण्यां भार्यस्त्वादिनृपान्तरे ॥ ३९८७ ॥
40.3987 · p. 296
अनुष्टुप्
भारसाध्वादिके त्वेष भार्यः स्यादभिधेयवत् ।भार्याटिकः पुमान्भार्यानिर्जिते हरिणान्तरे ॥ ३९८८ ॥
40.3988 · p. 296
अनुष्टुप्
भार्यारुः शैलभेदे स्यान्मृगभेदे च तत्र च ।क्रीडया परभार्यायाम्पुत्रो येनोपपादितः ॥ ३९८९ ॥
40.3989 · p. 296
अनुष्टुप्
भालन्तु तेजसि क्लीबं ललाटे च प्रकीर्त्तितम् ।भालाङ्कस्तु शिवे शाकभेदेऽपि करपत्रके ॥ ३९९० ॥
40.3990 · p. 296
अनुष्टुप्

भावः-भास्वान्

महालक्षणसम्पन्नपुरुषे रोहिते च ना ।कच्छपे च द्वयोस्त्रिस्तु रोहिते गुणिनि स्मृतः ॥ ३९९१ ॥
40.3991 · p. 297
अनुष्टुप्
भावस्तु भास्करे ज्येष्ठभ्रातर्यपि पुमान्मतः ।भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु ॥ ३९९२ ॥
40.3992 · p. 297
अनुष्टुप्
पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः ।आत्मन्यपि च योनौ च प्राप्तिसंस्कारजन्मसु ॥ ३९९३ ॥
40.3993 · p. 297
अनुष्टुप्
शृङ्गारादे रसस्यापि कारणे चान्तरात्मनि ।नाट्योक्तिविषये प्राज्ञे पुंसि त्रिषु तु मानिनि ॥ ३९९४ ॥
40.3994 · p. 297
अनुष्टुप्
भवसम्बन्धिनि बुधे भावः स्याद्भवितर्यपि ।भावज्ञा स्त्री प्रियङ्गुद्रौ भेद्यवद्भाववेदिनि ॥ ३९९५ ॥
40.3995 · p. 297
अनुष्टुप्
भावनोत्पादने चापि तथा गन्धाधिवासने ।प्रवर्त्तनायामपि च नप्स्त्रियोः परिकीर्त्तिता ॥ ३९९६ ॥
40.3996 · p. 297
अनुष्टुप्
भावाटस्तु त्रिषु ज्ञेयो भावके कामुकेऽपि च ।ना तु साधुनिवेशे स्याद्भावाटस्तु द्वयोर्नटे ॥ ३९९७ ॥
40.3997 · p. 297
अनुष्टुप्
भावित्रं तु भवेद्भद्रे त्रैलोक्ये च नपुंसकम् ।भावुकं कुशले क्लीबमुपालम्भे तु भाषणी ॥ ३९९८ ॥
40.3998 · p. 297
अनुष्टुप्
भाषा गिर्यभियोगोक्तौ लौकिकोक्तौ च भाषणे ।भाष्यं तु क्ली विवरणग्रन्थजात्यन्तरे यथा ॥ ३९९९ ॥
40.3999 · p. 297
अनुष्टुप्
महाभाष्यादि तत्र स्याद्भाषणीये तु भेद्यवत् ।भाः प्रभावे मयूखे च स्त्रियामुक्ता रुचावपि ॥ ४००० ॥
40.4000 · p. 297
अनुष्टुप्
भासो द्वयोः शकुन्ताख्यखगे दीप्तावपि स्मृतः ।सामान्तरे तु भासं तन्नपुंसकमुदीरितम् ॥ ४००१ ॥
40.4001 · p. 297
अनुष्टुप्
भासन्तः सुन्दराकारे त्रिषु ना भासपक्षिणि ।भासयन्तो रवौ ना त्रि भाषयन्ती प्रभाकृति ॥ ४००२ ॥
40.4002 · p. 297
अनुष्टुप्
भास्करः पावके सूर्ये क्वचित्पाषणशिल्पिनि ।भास्वान्रवीन्द्वोर्ना स्त्री नद्युषसोस्त्रिस्तु भास्वरे ॥ ४००३ ॥
40.4003 · p. 297
अनुष्टुप्

भिक्षा-भीषणा

भिक्षा तु भिक्षितद्रव्ये देयान्ने ग्रासमात्रके ।याचने सेवने चापि भृतावपि मता स्त्रियाम् ॥ ४००४ ॥
40.4004 · p. 298
अनुष्टुप्
भिक्षुरित्येष पुँल्लिङ्गः परिव्राजि प्रकीर्त्तितः ।चतुर्थकालाशिनि तु भिक्षाशीले च भेद्यवत् ॥ ४००५ ॥
40.4005 · p. 298
अनुष्टुप्
भित्तिः प्रदेशे कुड्ये चाप्यवलम्बे भवेत्स्त्रियाम् ।भित्तिका तु नदीभेदे शरावत्याह्वये स्मृता ॥ ४००६ ॥
40.4006 · p. 298
अनुष्टुप्
तथा भाषादिचूर्णे च वज्रे च परिकीर्त्तिता ।भिदकः परशौ वस्त्रे पुंसि स्याद्वज्रकामयोः ॥ ४००७ ॥
40.4007 · p. 298
अनुष्टुप्
भिदुरं कुलिशे त्रिस्तु भेत्तर्यपि भिदेलिमे ।भिन्द्रं स्याददृढे त्रि क्ली त्वेतद्दरणवज्रयोः ॥ ४००८ ॥
40.4008 · p. 298
अनुष्टुप्
भिन्नं विदारितेऽन्यस्मिन्मिश्रे चाप्यभिधेयवत् ।भिन्नकुम्भस्त्रि योगार्थे तथा स्याद्दास्यमोचिते ॥ ४००९ ॥
40.4009 · p. 298
अनुष्टुप्
भिल्लो द्वयोः स्याच्छबरान्निष्ट्यपूर्वाऽन्धिकासुते ।अथ भिल्लः पुमानेष पक्कणे परिकीर्त्तितः ॥ ४०१० ॥
40.4010 · p. 298
अनुष्टुप्
भीतं भये क्ली भीतस्तु त्रिषु प्रोक्तो भयान्विते ।भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे ॥ ४०११ ॥
40.4011 · p. 298
अनुष्टुप्
दमयन्त्याश्वपितरि क्रूरे लिङ्गन्तु भेद्यवत् ।भीरुः पुंसीङ्गुदतरौ स्त्रियां तूर्वारुयोषितोः ॥ ४०१२ ॥
40.4012 · p. 298
अनुष्टुप्
योषिद्भेदेऽपि भीरुस्तु कातरे त्रिषु कीर्त्तितः ।भीरुचेतास्त्रियोगार्थे मृगे त्वेष द्वयोर्मतः ॥ ४०१३ ॥
40.4013 · p. 298
अनुष्टुप्
भीषणा भापनायां न ना भीमे तु त्रि भीषणम् ।भीषणा तु कवाटे च स्त्रियां स्यात्सल्लकीरसे ॥ ४०१४ ॥
40.4014 · p. 298
अनुष्टुप्

भीष्मः-भूता

भीष्मः शान्तनवे पुंसि भेद्यवत्तु भयानके ।भुजो भूर्जद्रुमे [ऽर्केऽग्नौ] बाहौ भूमानगोचरे ॥ ४०१५ ॥
40.4015 · p. 299
अनुष्टुप्
[गरुडे वस्तुभेदे] च भुजा [स्यान्] नृस्त्रियो [रियम्] ।भुजङ्गस्तु विटे पिङ्गे तथैवान्यतमे भवेत् ॥ ४०१६ ॥
40.4016 · p. 299
अनुष्टुप्
चण्डवृष्टिप्रपातादिदण्डकान्ते द्वयोस्त्वहौ ।भुजिर्भुनक्तिधातौ च पावके भुजतावपि ॥ ४०१७ ॥
40.4017 · p. 299
अनुष्टुप्
भुजिष्यस्तु द्वयोर्दास आचार्ये त्वोदने तथा ।हस्तसूत्रेऽपि ना त्रिस्तु भोक्तर्येष धने तु नप् ॥ ४०१८ ॥
40.4018 · p. 299
अनुष्टुप्
भुरण्यस्तु त्रिषु क्षिप्रे विष्ण्वर्काग्निषु पुंस्ययम् ।भुरिग्बाहौ च कन्दे च वसायां भुवि च स्त्रियाम् ॥ ४०१९ ॥
40.4019 · p. 299
अनुष्टुप्
उक्ताद्युत्कृतिपर्यन्तच्छन्दःस्वेकाक्षराधिके ।छन्दोभेदेऽप्यथ पुमान्भुरिग्राजनि कीर्त्तितः ॥ ४०२० ॥
40.4020 · p. 299
अनुष्टुप्
भुलिङ्गस्त्वृषिभेदे ना नीवृद्भेदे तु भूम्नि च ।स्यात्साल्वावयवे द्वे तु पक्षिजात्यन्तरे मतः ॥ ४०२१ ॥
40.4021 · p. 299
अनुष्टुप्
भुवनोऽस्त्री भवेल्लोके क्लीबं तु गगने जले ।भुवन्युः स्यात्पुमानर्के ज्वलने शशलाञ्छने ॥ ४०२२ ॥
40.4022 · p. 299
अनुष्टुप्
भुवो नपुंसकं सान्तं लोकभेदे रवावपि ।भूर्भूम्यां स्थानमात्रे स्त्री सौराष्ट्रयां व्योमदेहयोः ॥ ४०२३ ॥
40.4023 · p. 299
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भूकं छिद्रे च काले च नपुंसकमुदीरितम् ।भूकेश्यवल्गुजे स्त्री स्याद्भूकेशः शैवले वटे ॥ ४०२४ ॥
40.4024 · p. 299
अनुष्टुप्
भूजम्बुरितिगोधूमे विकङ्कतफले स्त्रियाम् ।भूतं प्राप्तिमहाभूतसत्वे भवनकर्मणि ॥ ४०२५ ॥
40.4025 · p. 299
अनुष्टुप्
त्रि तु प्राणिनि च न्याय्येऽतीतलब्धसमेषु च ।देवयोन्यन्तरे त्वस्त्री भूता तन्मातरि स्त्रियाम् ॥ ४०२६ ॥
40.4026 · p. 299
अनुष्टुप्

भूतः-भृङ्गः

अथ भूतः कुमारेऽयं पुँल्लिङ्गः परिकीर्त्तितः ।भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिषूचिते ॥ ४०२७ ॥
40.4027 · p. 300
अनुष्टुप्
प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरे तु ना ।भूतवृक्षस्तु शाखोटद्रुमे स्योनाकपादपे ॥ ४०२८ ॥
40.4028 · p. 300
अनुष्टुप्
भूतात्मा पुंसि [पवने] दैवे[जीवात्मब्रह्मणोः] ।भूतिर्भस्मनि सम्पत्तिहस्तिशृङ्गारयोः स्त्रियाम् ॥ ४०२९ ॥
40.4029 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्म (wrong syllable)
भूतिकं तु यवान्यां कत्तृणभूनिम्बभूस्तृणे ।छत्रायवान्योर्भूतीकं भूनिम्बे कट्फलेऽपि च ॥ ४०३० ॥
40.4030 · p. 300
अनुष्टुप्
भूतेष्टा स्त्री चतुर्दश्यां तिथौ स्यात्त्रिस्तु यौगिके ।भूभृत्पुमान्नृपे चापि पर्वते च प्रकीर्त्तितः ॥ ४०३१ ॥
40.4031 · p. 300
अनुष्टुप्
भूमिः पृथिव्यां विषये स्थानमात्रे भवेत्स्त्रियाम् ।भूमिका रचनायां स्याद्द्वेषान्तरपरिग्रहे ॥ ४०३२ ॥
40.4032 · p. 300
अनुष्टुप्
भूमिजोऽङ्गारके पुंसि तथैव नरकासुरे ।स्त्रियां तु भूमिजा सीतादेव्यां त्रिषु तु भूद्भवे ॥ ४०३३ ॥
40.4033 · p. 300
अनुष्टुप्
भूमिस्पृक् स्याद्द्वयोर्वैश्यमर्त्ययोस्त्रि तु यौगिके ।भूयोऽव्ययं पुनरर्थे त्रिस्त्वितरे च महत्तरे ॥ ४०३४ ॥
40.4034 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि ।नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः ॥ ४०३५ ॥
40.4035 · p. 300
अनुष्टुप्
स्त्रियां भूरिफलाऽन्यस्मिन्पुष्पवल्लेः प्रकीर्त्तिता ।स्थावरे सप्तलानाम्नि यौगिके तु त्रिषु स्मृता ॥ ४०३६ ॥
40.4036 · p. 300
अनुष्टुप्
भूर्णिर्भ्रमणशीले त्रि स्त्रिया भूमौ धृतावपि ।भूषणाऽलङ्कृतौ च स्यात्स्त्री क्ली त्वाभरणे भवेत् ॥ ४०३७ ॥
40.4037 · p. 300
अनुष्टुप्
भृगुर्गिरितटे ऋष्यन्तरे शुक्रे शिवे पुमान् ।भृङ्गो द्वयोः स्याद्भूम्याटे भ्रमरे च पुमान्पुनः ॥ ४०३८ ॥
40.4038 · p. 300
अनुष्टुप्

भृङ्गराजः-भोगः

भृङ्गराजे लवङ्गे च भृङ्गारे वर्णभिद्यपि ।पिङ्गाख्ये त्रिस्तु तद्युक्ते क्ली तु त्वक्पत्रभेषजे ॥ ४०३९ ॥
40.4039 · p. 301
अनुष्टुप्
भृङ्गराजो मार्कवे स्याद्योदक्षिणपदावलेः ।वास्तुनः सप्तमपदे प्रोक्त आरभ्य तिष्ठति ॥ ४०४० ॥
40.4040 · p. 301
अनुष्टुप्
वास्तुदेवेऽपि ना तस्मिन्द्वे तु भू (धू) म्याटभृङ्गयोः ।भृङ्गारः कनकाल्वां भृङ्गारी झिल्ल्याख्यकीटके ॥ ४०४१ ॥
40.4041 · p. 301
अनुष्टुप्
भृङ्गारी झिल्लिकायां स्यात्कनकालौ पुनः पुमान् ।भृज्जकण्ठस्तु वैश्यायां विप्रेण जनितेऽपि च ॥ ४०४२ ॥
40.4042 · p. 301
अनुष्टुप्
तथा व्रात्येन विप्रायां जनितेऽपि सुते द्वयोः ।भृतिः स्त्री धारणे पोपे भृतकादेश्च वेतने ॥ ४०४३ ॥
40.4043 · p. 301
अनुष्टुप्
अथ तत्र भृतिः स्त्री स्यान्मूल्येऽपि भरणेऽपि च ।भृत्यो दासे द्वयोर्भृत्या तु स्त्रियां वेतने मता ॥ ४०४४ ॥
40.4044 · p. 301
अनुष्टुप्
भृमलः कृमिभेदे द्वे क्ली चक्रे नाऽनिले मतः ।भृमिर्द्वयोर्हस्तिनि स्यात्पुंसि वायौ जलेऽपि च ॥ ४०४५ ॥
40.4045 · p. 301
अनुष्टुप्
भृष्टिः स्याद्भर्जने शून्यवाटिकायामपि स्त्रियाम् ।भेको निषादविप्राजे मण्डूकेपि द्वयोर्मतः ॥ ४०४६ ॥
40.4046 · p. 301
अनुष्टुप्