All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
ह (1/2)
ह पादपूर्त्तिसम्बुद्धिनियोगक्षेपनिग्रहे ।निन्दायां च प्रसिद्धौ चाव्ययं सक्रोधवारणे ॥ ६६६५ ॥
49.6665 · p. 492
अनुष्टुप्
अथ पुंसि शिवे शून्ये व्योम्नि स्वर्गेऽप्सुधारणे ।चन्द्रेऽपि पापहरणे त्रि तु स्याद्रक्तशुष्कयोः ॥ ६६६६ ॥
49.6666 · p. 492
अनुष्टुप्
तथोत्तरपदस्थोऽयं घातके त्याजकेऽपि च ।हा स्त्री वीणासुरतयोर्हं ब्रह्मण्यायुधे मुदि ॥ ६६६७ ॥
49.6667 · p. 492
अनुष्टुप्
रत्नज्योतिषि चाह्वाने भवेद्वीणाध्वनावपि ।हमव्ययं मतं क्रोधे विनयामन्त्रणेऽपि च ॥ ६६६८ ॥
49.6668 · p. 492
अनुष्टुप्
हंसः सितच्छदे द्वे स्यान्महिषेऽप्यश्वभिद्यपि ।पुमांस्तु विष्णौ परमात्मनि सूर्ये शिवे स्मरे ॥ ६६६९ ॥
49.6669 · p. 492
अनुष्टुप्
हंसः-हनुः
स्यान्निर्लोभनृपे देहवायुभेदे गिरौ गुरौ ।यतिभेदे मन्त्रभेदे मत्सरे धूर्वहे वृषे ॥ ६६७० ॥
49.6670 · p. 493
अनुष्टुप्
छन्दोभिदोस्तालभेदे हकारे रजतेऽपि च ।त्रिस्तु श्रेष्ठेऽग्रगे शुद्धे श्वेते हंसः प्रकीर्त्तितः ॥ ६६७१ ॥
49.6671 · p. 493
अनुष्टुप्
हंसकः पादकटके तालभेदे तथा पुमान् ।लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः ॥ ६६७२ ॥
49.6672 · p. 493
अनुष्टुप्
कर्षमाने हंसपदं स्वरभक्त्यन्तरे पुनः ।हंसपदा स्त्रियां हंसपदी छन्दोद्रुभेदयोः ॥ ६६७३ ॥
49.6673 · p. 493
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 हं (wrong syllable); pāda 3, syllable 3 प (wrong syllable)
हंसपादी हंसपद्यां क्ली सिन्दूरेऽपि पारदे ।हंसमालाकृष्णपक्षहंसच्छन्दोभिदोरपि ॥ ६६७४ ॥
49.6674 · p. 493
अनुष्टुप्
हंसवान्स्त्रिः सहंसेऽथ स्त्रियां हंसवती मता ।हंसपद्यां वीरसेनघातिन्यां चक्रगन्तरे ॥ ६६७५ ॥
49.6675 · p. 493
अनुष्टुप्
दुष्यन्तभार्याभेदे च स्वर्णभूमिपुरान्तरे ।हंसाङ्घ्रि पुंसि सिन्दूरे हंसाङ्घ्री स्त्री द्रुमान्तरे ॥ ६६७६ ॥
49.6676 · p. 493
अनुष्टुप्
हक्कः पुंसि गजाह्वाने हक्कोलूकभिदि स्त्रियाम् ।हञ्जिका तु स्त्रियां चेट्यां तथा कञ्ज्यामपीष्यते ॥ ६६७७ ॥
49.6677 · p. 493
अनुष्टुप्
वेश्याहरिद्राञ्जनकेशीषु हट्टविलासिनी ।हठः पार्ष्ण्यां बलात्कारे वारिपर्णीतृणेऽपि च ॥ ६६७८ ॥
49.6678 · p. 493
अनुष्टुप्
हडिर्ना काष्ठनिगडे नीचजातिककिङ्करे ।हतं गते गतवति विषाणे मारिते त्रिषु ॥ ६६७९ ॥
49.6679 · p. 493
अनुष्टुप्
हतस्तु पुंसि मार्गे स्यात्क्लीबं तु गतिहिंसयोः ।स्त्री तु कुत्सितकन्यायां गुणनादौ हतस्त्रिषु ॥ ६६८० ॥
49.6680 · p. 493
अनुष्टुप्
हतको दुर्भगे नीचे कातरे चापि वाच्यवत् ।हतौजा ज्वरभेदे ना हतसत्त्वे पुनस्त्रिषु ॥ ६६८१ ॥
49.6681 · p. 493
अनुष्टुप्
हत्नुर्व्याधावायुधे ना हिंस्रे पुनरयं त्रिषु ।हथः प्रहारेऽपि बधे स्यान्निराशे तु वाच्यवत् ॥ ६६८२ ॥
49.6682 · p. 493
अनुष्टुप्
हनुीर्भीमे च मृत्यौ च महारुज्यायुधे पुमान् ।व्याधिभेषजभिद्वेश्यास्वेषा स्त्रीत्वे हनुः क्वचित् ॥ ६६८३ ॥
49.6683 · p. 493
अनुष्टुप्metre not read in every lineimpossible sign sequence: हनुीर्भीमेnearly अनुष्टुप्
हनुः-हरणं
हनुर्वैदेहशनकीजे गण्डोर्ध्वांशके द्वयोः ।भल्लांशे गण्डसदृशे क्लीबं शतपथे हनु ॥ ६६८४ ॥
49.6684 · p. 494
अनुष्टुप्
हनुषः पुंसि कोपे स्याद्राक्षसे तु द्वयोर्मतः ।हन्त हर्षत्वराशोकामन्त्रणेष्वव्ययं मतम् ॥ ६६८५ ॥
49.6685 · p. 494
अनुष्टुप्
हन्तकारस्तु भिक्षासु षोडशस्वपि योदिता ।ग्रासमात्रौदनं भिक्षा तत्र हन्तकृतावपि ॥ ६६८६ ॥
49.6686 · p. 494
अनुष्टुप्
हयो गतौ धनूराशाविन्द्रे चन्द्राश्वभिद्यपि ।कामशास्त्रीयपुंभेदे चतुर्लघुगणेऽप्यथ ॥ ६६८७ ॥
49.6687 · p. 494
अनुष्टुप्
हयी द्वे चमरेऽप्यश्वेऽश्वगन्धायां स्त्रियां मता ।स्त्रीत्वे हया क्वचिद्दृष्टा हयः प्राजितरि त्रिषु ॥ ६६८८ ॥
49.6688 · p. 494
अनुष्टुप्
हयगन्धा हृद्यगन्धाऽप्यश्वगन्धाजमोदयोः ।हयगन्धं पुनः क्लीबं कृष्णसौवर्चले मतम् ॥ ६६८९ ॥
49.6689 · p. 494
अनुष्टुप्
हयग्रीवोऽवतारेऽपि विष्णोर्दैत्येऽपि तद्धते ।हयग्रीवा पुनः स्त्रीत्वे दुर्गायां परिकीर्त्तिता ॥ ६६९० ॥
49.6690 · p. 494
अनुष्टुप्
हयनं हायने कर्णीरथेऽपि गमने स्मृतम् ।हयप्रियाऽश्वगन्धा स्याद्यवे तु च हयप्रियः ॥ ६६९१ ॥
49.6691 · p. 494
अनुष्टुप्
हयवाहन इत्येष स्याद्रेवन्तकुबेरयोः ।हयग्रीवे हयशिराः क्ली तु स्यादायुधान्तरे ॥ ६६९२ ॥
49.6692 · p. 494
अनुष्टुप्
हयारिः करवीरे ना महिषे तु द्वयोर्मता ।हरोऽग्नौ भाजके शम्भौ हारके त्रिर्द्विगर्दभे ॥ ६६९३ ॥
49.6693 · p. 494
अनुष्टुप्
हरको भाजके दीर्घासौ ना त्रिः शठचौरयोः ।हरणं करणाख्ये चेष्टान्तरे नाट्यविश्रुते ॥ ६६९४ ॥
49.6694 · p. 494
अनुष्टुप्
दृढदुष्करचित्रेषु योधानामपि कर्मसु ।अश्वानां देयभेदे च क्वचिद्देशे हि दीयते ॥ ६६९५ ॥
49.6695 · p. 494
अनुष्टुप्
योग्याशनादिकं तेषां शरीरपरिपुष्टये ।पश्चाद्बीजनिषेकस्य तथा हरतिकर्मणि ॥ ६६९६ ॥
49.6696 · p. 494
अनुष्टुप्
यौतकोष्णाम्बुशुक्रेषु सुवर्णेऽपि नपुंसकम् ।गणितज्ञश्रुते संख्याताडनेऽपि भुजे तथा ॥ ६६९७ ॥
49.6697 · p. 494
अनुष्टुप्
हरणः-हरिणः
चम्पकप्रसवे चाथ चम्पके हरणः पुमान् ।हरस्य शेखरे नस्त्री गङ्गायां हरशेखरा ॥ ६६९८ ॥
49.6698 · p. 495
अनुष्टुप्
हरः क्रोधे जले लोके ज्योतिषि ज्वलति स्रजि ।ग्रहणे सान्तमग्नेः क्ली सामभित्सु च पञ्चसु ॥ ६६९९ ॥
49.6699 · p. 495
अनुष्टुप्
अग्निसामविशेषेषु सान्तः क्ली पञ्चसु स्मृतः ।हराहरस्तु निश्वासे मरणाऽवसरोत्थिते ॥ ६७०० ॥
49.6700 · p. 495
अनुष्टुप्
योग्याचारेऽपि च तथा दानवौ तु हराहरौ ।हरिरर्काग्निवातेन्दुयमेन्द्रभगविष्णुषु ॥ ६७०१ ॥
49.6701 · p. 495
अनुष्टुप्
सिंहराशौ भर्त्तृहरौ सुपर्णे ब्रह्मशुक्रयोः ।गिरिभिद्वर्षभिच्छन्दोभेदेषु हरयो जनाः ॥ ६७०२ ॥
49.6702 · p. 495
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable)
बौद्धसंख्याविशेषेऽथ हरी स्त्री कपिमातरि ।अंशौ शक्रहये मुद्गे रुक्मे रुक्माभवर्णके ॥ ६७०३ ॥
49.6703 · p. 495
अनुष्टुप्
श्वेतवर्णे हरिद्वर्णे कपिले त्रि तु तैर्युते ।शूद्रानिषादजे त्वश्वकपिभेकशुकाहिषु ॥ ६७०४ ॥
49.6704 · p. 495
अनुष्टुप्
मयूरे कोकिले हंसे शृगालेऽपि प्रकीर्त्तितः ।सिंहेऽश्वभेदे हरितपीतवर्णे हरिर्द्वयोः ॥ ६७०५ ॥
49.6705 · p. 495
अनुष्टुप्
हरिकेशः पाण्डुकेशे त्रिर्ना सवितरीश्वरे ।क्वचिच्छिवस्य प्रमथे यः क्षेत्रोद्याननायकः ॥ ६७०६ ॥
49.6706 · p. 495
अनुष्टुप्
हरिचन्दनमस्त्री स्याद्देवानां पादपान्तरे ।चन्दने ताम्रवर्णे च पीतचन्दनसञ्जवे ॥ ६७०७ ॥
49.6707 · p. 495
अनुष्टुप्
क्लीबं तु कुङ्कुमे पद्मकेसरेऽपि प्रियाङ्गके ।चन्द्रातपेऽपि च प्रोक्तं हरिचन्दनमित्यदः ॥ ६७०८ ॥
49.6708 · p. 495
अनुष्टुप्
हरिणो द्वे ताम्रमृगे हंसेऽपि नकुलेऽथ ना ।शिवे विष्णौ प्रमथभिन्नागभिद्द्वीपभित्स्वपि ॥ ६७०९ ॥
49.6709 · p. 495
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
मञ्जिष्ठायां पीतयूथीस्वर्णप्रतिमयोरपि ।चारुनार्यन्तरेऽत्यष्टवृत्तभेदे हरिण्यसौ ॥ ६७१० ॥
49.6710 · p. 495
अनुष्टुप्
हरिणः पाण्डुरे वर्णे पुमांस्तद्वति तु त्रिषु ।स्वरभक्त्यन्तरे देववनितायक्षिणीभिदोः ॥ ६७११ ॥
49.6711 · p. 495
अनुष्टुप्
हरिणाक्षी-हरिप्रियम्
हरिणाक्षी गन्धवस्तुभिन्नार्योर्ना निशाकरे ।हरिणिस्तु स्त्रियां मृत्यौ कुल्यायां च प्रकीर्त्तिता ॥ ६७१२ ॥
49.6712 · p. 496
अनुष्टुप्
हरिन्मरकते सूर्ये सूर्याश्वे हरितेऽपि च ।पिङ्गे वर्णे तद्वति तु वाच्यवत्स्यान्नृनप्तृणे ॥ ६७१३ ॥
49.6713 · p. 496
अनुष्टुप्
स्त्री तु नद्यङ्गुलीदिक्षु हरिदेषा प्रकीर्त्तिता ।हरितो मुद्गऋषिभेदयोः पालाशवर्णके ॥ ६७१४ ॥
49.6714 · p. 496
अनुष्टुप्
अथर्वमन्त्रभेदेऽथ हरिद्रानीलदूर्वयोः ।पिङ्गद्राक्षाविशेषेऽपि स्वरभक्त्यन्तरेऽपि च ॥ ६७१५ ॥
49.6715 · p. 496
अनुष्टुप्
हरितं क्ली सुवर्णेऽपि शाके स्थौणेयकेऽपि च ।त्रि तु तद्वर्णयुक्ते स्त्री हरिता हरणीति च ॥ ६७१६ ॥
49.6716 · p. 496
अनुष्टुप्
द्वे तु सिंहेऽथ हरिता हरेः स्याद्भावकर्मणोः ।अस्त्री हरितकः शाके तृणे तु क्लीबमिष्यते ॥ ६७१७ ॥
49.6717 · p. 496
अनुष्टुप्
केचित्पेठुर्हरीतक्या अर्थे हरितकीं स्त्रियाम् ।हरितालं धातुभेदे दूर्वायां हरिताल्यसौ ॥ ६७१८ ॥
49.6718 · p. 496
अनुष्टुप्
भाद्रशुक्लतृतीयायामपि खड्गदले स्त्रियाम् ।वायौ च व्योमरेखायां हरिताली क्वचिन्मता ॥ ६७१९ ॥
49.6719 · p. 496
अनुष्टुप्
हरिताश्मं मरकते तुत्थेऽपि च नपुंसकम् ।हरिद्रस्तु कलाप्यन्तेवासिनि प्रथमे पुमान् ॥ ६७२० ॥
49.6720 · p. 496
अनुष्टुप्
तथा दारुहरिद्रायां वृक्षमात्रेऽपि कीर्त्तितः ।हरिद्रवस्तु सोमेऽपि नागकेसरचूर्णके ॥ ६७२१ ॥
49.6721 · p. 496
अनुष्टुप्
हरिद्रा काञ्चनी प्रोक्ता हरिद्रो हरिचन्दनः ।हरिनामा तु मुद्गे ना क्लीबे स्याद्विष्णुनामनि ॥ ६७२२ ॥
49.6722 · p. 496
अनुष्टुप्
हरिनेत्र उलूके द्वे क्ली पद्मे त्रि तु यौगिके ।अथ मूढोन्मत्तयोस्तु वाच्यवत्स्याद्धरिप्रियः ॥ ६७२३ ॥
49.6723 · p. 496
अनुष्टुप्
हरिप्रियः कदम्बेऽपि बन्धूककरवीरयोः ।विष्णुकन्दे तथा शङ्खे शिवे स्त्री तु हरिप्रिया ॥ ६७२४ ॥
49.6724 · p. 496
अनुष्टुप्
लक्ष्म्यां सुरायामेकादश्यां तुलस्यां तथा क्षितौ ।हरिप्रियं क्ली मूले वीरणस्य हरिचन्दने ॥ ६७२५ ॥
49.6725 · p. 496
अनुष्टुप्
हरिमन्थः-हलिनी
हरिमन्थः पीतमुद्गेऽग्निमन्थे चणके पुमान् ।हरिमन्थज इत्येष ना धान्ये चणकाह्वये ॥ ६७२६ ॥
49.6726 · p. 497
अनुष्टुप्
पठितोऽमरसिंहेन वैजयन्त्यां त्वपाठि सः ।कृष्णमुद्गेऽथ स त्रिः स्याद्धरिमन्थसमुद्भवे ॥ ६७२७ ॥
49.6727 · p. 497
अनुष्टुप्
हरिरोमा विरिञ्चेऽपि तथा शके पुमान्मतः ।हरिलोचन इत्येष उलूके कर्कटे द्वयोः ॥ ६७२८ ॥
49.6728 · p. 497
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
जयायां च तुलस्यां च लक्ष्म्यां च हरिवल्लभा ।हरिवाहन इन्द्रेऽपि सूर्येऽपि गरुडेऽपि च ॥ ६७२९ ॥
49.6729 · p. 497
अनुष्टुप्
त्रिः स्वर्णस्थे हरिशयो यातेऽग्रे यजुषि स्त्रियाम् ।हरिश्रीः पिङ्गशोभेऽपि सोमाश्वादिमति त्रिषु ॥ ६७३० ॥
49.6730 · p. 497
अनुष्टुप्
इन्द्रे हरिहयः स्कन्दगणेशरविषु क्वचित् ।गरुडेऽपि वृषे शम्भोर्दक्षे हरिहरात्मकः ॥ ६७३१ ॥
49.6731 · p. 497
अनुष्टुप्
क्लीबं हरिहरक्षेत्रे मतं हरिहरात्मकम् ।हरिहेतिस्तु चक्रेऽपि तथैवेन्द्रायुधे द्वयोः ॥ ६७३२ ॥
49.6732 · p. 497
अनुष्टुप्
हरेणुर्भेषजे कौन्तीसंज्ञे स्त्री परिकीर्त्तिता ।कलायधान्यभेदे तु रङ्कटीसंज्ञके पुमान् ॥ ६७३३ ॥
49.6733 · p. 497
अनुष्टुप्
हर्त्ता नेतरि चोरे च ऋदन्तो वाच्यवन्मतः ।हर्म्यः प्रासादपृष्ठेऽपि गृहभेदे गृहेऽपि च ॥ ६७३४ ॥
49.6734 · p. 497
अनुष्टुप्
हर्यक्षो ना कुबेरे द्वे सिंहे त्रिः कपिलाक्षके ।हर्यश्वस्तु भवेत्पूर्वराजभेदे पुरन्दरे ॥ ६७३५ ॥
49.6735 · p. 497
अनुष्टुप्
हर्षयित्नु सुवर्णे क्ली हर्षयित्नुस्त्वयं त्रिषु ।प्रियंवदे तथा रङ्गोपजीविन्यनुवर्त्तके ॥ ६७३६ ॥
49.6736 · p. 497
अनुष्टुप्
हर्षुलः शिल्पिमृगयोर्द्वे पुंसि तु बुधग्रहे ।भेद्यलिङ्गो हासशीले हर्षशीले च कामिनि ॥ ६७३७ ॥
49.6737 · p. 497
अनुष्टुप्
हलिजः शाकवृक्षेऽपि कदम्बे केतकीद्रुमे ।हलिजं प्रसवे तेषां नपुंसकमुदीरितम् ॥ ६७३८ ॥
49.6738 · p. 497
अनुष्टुप्
हली तु बलभद्रे ना हलवत्यभिधेयवत् ।शक्रपुष्पाह्वयस्तम्बे हलिनीति स्त्रियां मता ॥ ६७३९ ॥
49.6739 · p. 497
अनुष्टुप्
हलिप्रिया-हारी
हलिप्रिया सुरायां स्त्री कदम्बद्रौ हलिप्रियः ।हवस्तु यज्ञ आज्ञायामाह्वाने वह्निहोमयोः ॥ ६७४० ॥
49.6740 · p. 498
अनुष्टुप्
हवनी स्रुचि ना त्वग्नौ होमे क्ली हवनं मतम् ।हविर्घृते जले हव्ये सान्तं क्लीबं प्रकीर्त्तितम् ॥ ६७४१ ॥
49.6741 · p. 498
अनुष्टुप्
हविष्यस्त्रिर्हविःसाधौ तिले पुंसि प्रकीर्त्तितः ।अग्नावाहवनीयाग्नौ देवाग्नौ हव्यवाहनः ॥ ६७४२ ॥
49.6742 · p. 498
अनुष्टुप्
हसन्त्यङ्गारशकटौ त्रिस्तु हासिविकासिनोः ।हसितं दृष्टदन्ते क्ली हासे स्याद्धासमात्रके ॥ ६७४३ ॥
49.6743 · p. 498
अनुष्टुप्
अथो हसितवत्येतत्फुल्लेऽवहसिते त्रिषु ।हस्तोऽस्त्री किष्कुमानेऽपि पाणौ घ्राणे च दन्तिनः ॥ ६७४४ ॥
49.6744 · p. 498
अनुष्टुप्
हस्तं त्रि घातके क्ली तु सन्निपाते बलाहितौ ।केशार्थात्तु परः केशसमूहेऽपि च दृश्यते ॥ ६७४५ ॥
49.6745 · p. 498
अनुष्टुप्
हस्तावापः शरादाने व्यधनार्थेऽपि पाणिना ।आवापे धान्यबीजादेः पुँल्लिङ्गः परिकीर्त्तितः ॥ ६७४६ ॥
49.6746 · p. 498
अनुष्टुप्
हस्तिकर्णो रोचकाख्यकम्बले हस्तिनः श्रुतौ ।निवारणार्थे शस्त्रस्य भटानां फलकान्तरे ॥ ६७४७ ॥
49.6747 · p. 498
अनुष्टुप्
हस्तिचारो गजत्रासहेतौ शरभसन्निभे ।शस्त्रभेदेऽपि योधानां तथा चारेऽपि हस्तिनाम् ॥ ६७४८ ॥
49.6748 · p. 498
अनुष्टुप्
हस्ती द्वयोर्गजे भृङ्गे हस्तिनी तु स्त्रियां मता ।कामशास्त्रप्रसिद्धे स्त्रीविशेषे हस्तिनापुरे ॥ ६७४९ ॥
49.6749 · p. 498
अनुष्टुप्
पुमान्हस्तिनखः पुर्यां द्वारकूटेऽथ यौगिके ।हस्तिमल्लो गणेशेऽप्यैरावतेऽपि पुमान्मतः ॥ ६७५० ॥
49.6750 · p. 498
अनुष्टुप्
हाटको हेमनि मतः क्लीबपुँल्लिङ्गयोरयम् ।हाटकं क्ली कुन्तभेदे स्यात्त्रिकण्टकसंस्थितौ ॥ ६७५१ ॥
49.6751 · p. 498
अनुष्टुप्
हान्त्रो द्वे राक्षसे क्लीबं हान्त्रं स्यान्मरणे रणे ।हायनः शालिभिच्छित्र्वोर्ना न स्त्री वत्सरेऽर्चिषि ॥ ६७५२ ॥
49.6752 · p. 498
अनुष्टुप्
हारो मुक्तावलौ देवालयकक्ष्यासु तु स्त्रियाम् ।हारा हारी तु नाम्नैव दुष्टा कन्या प्रकीर्त्तिता ॥ ६७५३ ॥
49.6753 · p. 498
अनुष्टुप्
हारकः-हिरण्मय
हरस्य तु हरेश्चापि सम्बन्धिन्यभिधेयवत् ।हारको हर्त्तरि त्रिर्ना यष्टिसंज्ञायुधान्तरे ॥ ६७५४ ॥
49.6754 · p. 499
अनुष्टुप्
हारणा हारयत्यर्थे न ना ना चम्पकद्रुमे ।हारिता त्वविवाह्या या पतितोत्पन्नकन्यका ॥ ६७५५ ॥
49.6755 · p. 499
अनुष्टुप्
तस्यां हारयतेस्तु स्यादीक्षिते हारितस्त्रिषु ।हालो विलेखने पुंसि हलसम्बन्धिनि त्रिषु ॥ ६७५६ ॥
49.6756 · p. 499
अनुष्टुप्
हाली पत्न्याः कनीयस्यां हाला मद्ये भवेत्स्त्रियाम् ।हिंसनस्तु पुमाञ्ज्ञातौ हिंसायां तु नपुंसकम् ॥ ६७५७ ॥
49.6757 · p. 499
अनुष्टुप्
हिंसा घाते तथा चौर्यादिकेऽपि स्त्रीत्व इष्यते ।हिंसीरस्तु द्वयोर्व्याघ्रे तस्करे त्वभिधेयवत् ॥ ६७५८ ॥
49.6758 · p. 499
अनुष्टुप्
हिंस्रा गृध्रनखी क्रोष्टुकोल्योस्त्रिषु तु घातके ।हिक्का स्त्री पिङ्गलाख्ये पक्ष्यन्तरे रोगभिद्यपि ॥ ६७५९ ॥
49.6759 · p. 499
अनुष्टुप्
द्वयोस्तु हिक्कने त्रिस्तु हिक्कके परिकीर्त्तिता ।हिङ्गुनिर्यास इत्युक्तो निम्बे हिङ्गुरसेऽपि च ॥ ६७६० ॥
49.6760 · p. 499
अनुष्टुप्
हिङ्गुलस्तु पुमान्रागद्रव्यधात्वन्तरे स्मृतः ।दारदाख्येऽथ भण्टाक्यां स्त्री वातिङ्गिननामनि ॥ ६७६१ ॥
49.6761 · p. 499
अनुष्टुप्
हिडिम्बस्तु पुमान्भीमसेनेन निहतेऽसुरे ।हिडिम्बा तु स्त्रियां तस्य भगिन्यां परिकीर्त्तिता ॥ ६७६२ ॥
49.6762 · p. 499
अनुष्टुप्
हिता तु स्त्री हरीतक्यां क्ली तु धारणदानयोः ।हितं तु धारिते पथ्ये दत्ते चापि त्रिषु स्मृतम् ॥ ६७६३ ॥
49.6763 · p. 499
अनुष्टुप्
हिमस्तु पुंसि कर्पूरे शीते च त्रि तु तद्वति ।हिमा निशायां वर्षे च चन्दने तुहिने हिमम् ॥ ६७६४ ॥
49.6764 · p. 499
अनुष्टुप्
हिमजा तु शटीसंज्ञगन्धमूलौषधौ स्त्रियाम् ।पार्वत्यां च हिमोत्थे तु त्रिर्ना मैनाकपर्वते ॥ ६७६५ ॥
49.6765 · p. 499
अनुष्टुप्
हिमारातिस्तु विज्ञेयः पावके भास्करेऽपि च ।हिमारिस्तु रवौ पुंसि तथा वह्नौ प्रकीर्त्तितः ॥ ६७६६ ॥
49.6766 · p. 499
अनुष्टुप्
हिरणं तु वराटेऽपि हेम्नि रेतस्यपीष्यते ।हिरण्मयं क्ली श्वेताख्याद्वर्षे स्यादुत्तरे गिरेः ॥ ६७६७ ॥
49.6767 · p. 499
अनुष्टुप्
हिरण्मयम्-हृष्टम्
अथ च त्रिषु सौवर्णे हिमरयमुदीरितम् ।हिरण्यं मानभेदे च धने स्वर्णे कपर्दके ॥ ६७६८ ॥
49.6768 · p. 500
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 म (wrong syllable)
अक्षये चाप्यकुप्ये च रेतस्यपि नपुंसकम् ।हिरण्यकशिपुः पुंसि प्रह्लादपितरि स्मृतः ॥ ६७६९ ॥
49.6769 · p. 500
अनुष्टुप्
हिरण्यचित्रितकुथे पुनः स्यात्पुंनपुंसकम् ।हिरण्मयकशिप्वर्थेऽपि तथैव प्रकीर्त्तितम् ॥ ६७७० ॥
49.6770 · p. 500
अनुष्टुप्
हिरण्यबाहुः शोणाख्यनदे विषमलोचने ।हिरण्यवर्णा नद्यां च श्रियां योगे यथायथम् ॥ ६७७१ ॥
49.6771 · p. 500
अनुष्टुप्
हीनस्त्रिरूने गर्ह्ये च ना तु केसरपादपे ।हीरः शिवे ना द्वे सर्पसिंहयोः क्ली तु हीरके ॥ ६७७२ ॥
49.6772 · p. 500
अनुष्टुप्
हुहुको ना हुडुक्के द्वे मत्तदात्यूहपक्षिणि ।हृच्छयो मन्मथेऽपि स्यात्कुक्ष्यग्नौ च तथा पुमान् ॥ ६७७३ ॥
49.6773 · p. 500
अनुष्टुप्
हृणिः स्त्रियां क्रुधि प्रोक्ता हृणिस्तु ज्वलति त्रिषु ।हृत् क्लीबं चैव चित्ते स्याद्वक्षस्यपि तथा मतम् ॥ ६७७४ ॥
49.6774 · p. 500
अनुष्टुप्
हृदयं तूरसि स्वान्ते वृकेऽपि परिकीर्त्तितम् ।हृद्यस्तु ना वशीकारमन्त्रे स्याद्वैदिके द्रुमे ॥ ६७७५ ॥
49.6775 · p. 500
अनुष्टुप्
कपित्थाख्ये तत्फले तु क्ली दधत्यनुलेपनम् ।मधुमद्ये च मध्वीकसंज्ञे त्रिषु तु हृद्भवे ॥ ६७७६ ॥
49.6776 · p. 500
अनुष्टुप्
हृत्प्रिये हृद्धिते हृज्जे चारौ हृद्या त्वियं स्त्रियाम् ।मनःशिलायां छाग्यामप्यृद्धिसंज्ञौषधान्तरे ॥ ६७७७ ॥
49.6777 · p. 500
अनुष्टुप्
हृद्यगन्धः पुमानेष सूक्ष्मजीरक इष्यते ।हृल्लेखस्तु पुमाञ्ज्ञेय औत्कण्ट्य हृद्रुजान्तरे ॥ ६७७८ ॥
49.6778 · p. 500
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्ट्य (wrong syllable)
हृल्लेखा तु स्त्रियां मन्त्रभेदे तान्त्रिकविश्रुते ।हृषिः स्त्री दीप्तितुष्ट्योर्ना हर्षतौ हृष्यतावपि ॥ ६७७९ ॥
49.6779 · p. 500
अनुष्टुप्
द्वयोर्धात्वोरथालीकवादिन्येष हृषिस्त्रिषु ।हृषितस्तु सरोमाञ्चे विस्मिते च मनोहरे ॥ ६७८० ॥
49.6780 · p. 500
अनुष्टुप्
हृष्टे प्रतिहते स्तब्धे रोमादावपि च त्रिषु ।हृष्टं हर्षे त्रिस्तु रम्ये विस्मिते हर्षवत्यपि ॥ ६७८१ ॥
49.6781 · p. 500
अनुष्टुप्
हेठा-ह्रादिनी
सरोमाञ्चे प्रतिहते स्तब्धे मेढ्रेऽपि रोम्णि च ।हेठा हेलाऽनादरे द्वे हेठस्तु क्रुधि पुंस्ययम् ॥ ६७८२ ॥
49.6782 · p. 501
अनुष्टुप्
हेतिः शस्त्रे द्वयोर्नाग्निज्वाले चार्कार्चिषि स्मृतः ।हेतुः प्रयोजके कर्त्तुः स्वतन्त्रस्य तथा पुमान् ॥ ६७८३ ॥
49.6783 · p. 501
अनुष्टुप्
उत्पत्तौ कारणे वादे निमित्ते बीजकर्मणि ।हेमा पुमान्स्याद्धेमन्ते हेम क्ली कनके जले ॥ ६७८४ ॥
49.6784 · p. 501
अनुष्टुप्