कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

भ (2/2)

भेदो विशेषे व्यावृत्तावुपजापे विदारणे ।भेनस्तु चन्द्रे सूर्ये च पुँल्लिङ्गः परिकीर्त्तितः ॥ ४०४७ ॥
40.4047 · p. 301
अनुष्टुप्
भेरस्तु कातरे त्रि स्याद्भेरी स्त्री दुन्दुभौ मता ।भेरुण्डा देवताभेदयक्षिण्यन्तरयोः स्त्रियाम् ॥ ४०४८ ॥
40.4048 · p. 301
अनुष्टुप्
भयानके तु भेरुण्डो वाच्यवत्परिकीर्त्तितः ।भेलः स्यादुडुपे पुंसि चिकित्साग्रन्थकृन्मुनौ ॥ ४०४९ ॥
40.4049 · p. 301
अनुष्टुप्
पूज्यप्राज्यप्रहीणेषु तु त्रिः स्यात्कातरेऽपि च ।भेषजं स्यात्सुखे तोये भेषजी त्वौषधे नना ॥ ४०५० ॥
40.4050 · p. 301
अनुष्टुप्
भैरवी मातृभेदे स्त्री ना शिवे त्रिस्तु भीषणे ।भोगो धने सुखे राज्ये सर्पस्य फणकाययोः ॥ ४०५१ ॥
40.4051 · p. 301
अनुष्टुप्

भोगवत्-भ्रामकः

कौटिल्ये भोजने त्राणे वेश्यादीनां भृतावपि ।भोगवद्भोगयुक्ते त्रिर्भुजगे भोगवान्द्वयोः ॥ ४०५२ ॥
40.4052 · p. 302
अनुष्टुप्
स्त्री तु भोगवती नागपुरी पातालगङ्गयोः ।भोगी तु सर्पे द्वे स्त्री तु भोगिनी नृपयोषिति ॥ ४०५३ ॥
40.4053 · p. 302
अनुष्टुप्
कृताभिषेकाया अन्यस्यां भोगी त्वेष च वाच्यवत् ।वैयावृत्यकरे चापि भूपाले भोगवत्यपि ॥ ४०५४ ॥
40.4054 · p. 302
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भोजो राजन्यमात्रेऽपि नीवृद्भेदेऽस्य राजनि ।मर्त्त्यजात्यन्तरे चापि द्वयोः क्षत्रियगोलके ॥ ४०५५ ॥
40.4055 · p. 302
अनुष्टुप्
पुंभूमनि तु विन्ध्याद्रिपार्श्वस्थे नीवृदन्तरे ।भोजनं धनमुक्त्योः क्ली न ना भोजयतेर्युचि ॥ ४०५६ ॥
40.4056 · p. 302
अनुष्टुप्
भोजनीयं त्रि भोक्तव्ये सामुद्रलवणे तु नप् ।भोलो द्वयोर्द्वीपिनामशार्दूलान्तर इष्यते ॥ ४०५७ ॥
40.4057 · p. 302
अनुष्टुप्
उदीच्यनीवृद्भेदे तु भोलाः पुंभूमनि स्मृताः ।भोलो मीनान्तरे पुंसि त्रिषु कामादिविह्वले ॥ ४०५८ ॥
40.4058 · p. 302
अनुष्टुप्
भोस्तु सम्बोधने चैव विषादेऽप्यव्ययं मतम् ।भौतो देवलके पुंसि भौती रात्रौ स्त्रियां मता ॥ ४०५९ ॥
40.4059 · p. 302
अनुष्टुप्
भौतं भूतसमूहे क्ली भूतसम्बन्धिनि त्रिषु ।भौतिकं भूतसम्बद्धे त्रिषु ना भौतिकः शिवे ॥ ४०६० ॥
40.4060 · p. 302
अनुष्टुप्
भौमोऽभिधेयवद्भूमिभवेऽथ नरकासुरे ।कुजग्रहे रक्तपुनर्नवायामम्बरेऽपि ना ॥ ४०६१ ॥
40.4061 · p. 302
अनुष्टुप्
भौरिकः कनकाध्यक्षे त्रिः पुंभूम्नि तु भौरिकाः ।प्राग्देशावस्थिते नीवृद्भेदे समतटाह्वये ॥ ४०६२ ॥
40.4062 · p. 302
अनुष्टुप्
भ्रंशस्तु व्यसने पाते नाशे चैव पुमान्मतः ।भ्रमस्तु मिथ्याज्ञाने च भ्रमणे विचिकित्सने ॥ ४०६३ ॥
40.4063 · p. 302
अनुष्टुप्
शस्त्रमार्जनयन्त्रे च गृहाच्च निर्गमाध्वनि ।भ्रमको भ्रामकः क्रोष्टौ द्वे सूर्यावर्त्तके पुमान् ॥ ४०६४ ॥
40.4064 · p. 302
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable)

भ्रमणं-मः

अयस्कान्तविशेषे च लोहभ्रमणकारिणि ।भ्रमणं तु नपि भ्रान्तौ स्त्रीनपुंसकयोः पुनः ॥ ४०६५ ॥
40.4065 · p. 303
अनुष्टुप्
भ्रमणा भ्रमयत्यर्थे स्त्रियां तु परिकीर्त्तिता ।कारुण्डिकायां भ्रमणी क्रियाद्यायामधीशितुः ॥ ४०६६ ॥
40.4066 · p. 303
अनुष्टुप्
भ्रमरोऽलौ द्वयोर्ना तु गिरिके कामुके बटौ ।हस्तमुद्रान्तरे पुत्रदात्रीजतुकयोः पुनः ॥ ४०६७ ॥
40.4067 · p. 303
अनुष्टुप्
भ्रमरी भ्रमरच्छल्ल्यां तु स्त्रियां भ्रमरा मता ।अथ भ्रमरको भृङ्गे गिरिके चाऽलकान्तरे ॥ ४०६८ ॥
40.4068 · p. 303
अनुष्टुप्
भ्रमरेष्टस्तु पुंस्याम्रे नीपे जम्बूटपादपे ।भ्रमिः स्त्री भ्रमणे धात्वोर्भ्रमतौ भ्राम्यतौ च ना ॥ ४०६९ ॥
40.4069 · p. 303
अनुष्टुप्
भ्राजो दीप्ते त्रिष्वथ ना दीप्तावादित्यभिद्यपि ।भ्राजास्तु श्लोकभेदे स्युर्भ्राजं सामान्तरे नपि ॥ ४०७० ॥
40.4070 · p. 303
अनुष्टुप्
भ्रातृव्यस्तु पुमाञ्शत्रौ भ्रात्रपत्ये द्वयोर्मतः ।भ्रान्तो ना राजधुस्तूरे मत्तेभे त्रिस्तु सम्भ्रमे ॥ ४०७१ ॥
40.4071 · p. 303
अनुष्टुप्
भ्रान्तिर्मिथ्यामतौ चापि भ्रमणे च स्त्रियां मता ।भ्रान्तिमान्भ्रान्तियुक्ते स्यादलङ्कारान्तरेऽपि च ॥ ४०७२ ॥
40.4072 · p. 303
अनुष्टुप्
भ्रामरं मधुभेदे स्यात्क्लीबं भ्रमरनिर्मिते ।दुर्गायां भ्रामरी स्त्री स्याद्भ्रामरः प्रस्तरान्तरे ॥ ४०७३ ॥
40.4073 · p. 303
अनुष्टुप्
भ्रामाको जम्बुके धूर्ते सूर्यावर्त्ताऽश्मभेदयोः ।भ्रुकुटीमुख इत्युक्तो यौगिके सर्पभिद्यपि ॥ ४०७४ ॥
40.4074 · p. 303
अनुष्टुप्
भ्रूणोऽर्भके च भूपे च ब्राह्मण्यां श्रोत्रियद्विजे ।गर्भिण्यां स्त्रैणगर्भे च विप्रे चार्ये मतावपि ॥ ४०७५ ॥
40.4075 · p. 303
अनुष्टुप्