All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
अ (2/4)
अधिष्ठानं तु नगरे रथचक्रप्रभावयोः ।अध्यासने च काश्मीरप्रसिद्धनगरान्तरे ॥ १२१ ॥
3.121 · p. 11
अनुष्टुप्
अधीरः-अनयः
कश्चित्त्वारोपणेऽप्याह व्यवस्थापन एव च ।अधीरो वाच्यवद्भीरौ चञ्चलेऽपि प्रकीर्त्तितः ॥ १२२ ॥
3.122 · p. 12
अनुष्टुप्
अधृष्या तटिनीभेदे प्रगल्भेऽप्यभिधेयवत् ।अध्यक्षोऽधिकृते चैव प्रत्यक्षे चाभिधेयवत् ॥ १२३ ॥
3.123 · p. 12
अनुष्टुप्
अध्यण्डा त्वात्मगुप्तायामामलक्यामपि स्त्रियाम् ।पुमानध्यवसायः स्यादुत्साहे निश्चयेपि च ॥ १२४ ॥
3.124 · p. 12
अनुष्टुप्
अध्यायोऽध्ययनेपि स्याद्ग्रन्थावच्छेदभिद्यपि ।अध्यातरि तथा ध्यायहीने वाच्यवदिष्यते ॥ १२५ ॥
3.125 · p. 12
अनुष्टुप्
अध्यारूढं समारूढेऽभ्यधिके चाभिधेयवत् ।अध्यूढा कृतसापत्न्यनार्यामध्यूढ ईश्वरे ॥ १२६ ॥
3.126 · p. 12
अनुष्टुप्
अध्वा ना पथि संस्थाने स्यादवस्कन्दकालयोः ।अध्वरस्त्रिः सावधाने वसुभिद्यज्ञयोस्तु ना ॥ १२७ ॥
3.127 · p. 12
अनुष्टुप्
आकाशे त्वध्वरमिति नपुंसकमुदीरितम् ।अनघो निर्मलापापमनोज्ञेष्वभिधेयवत् ॥ १२८ ॥
3.128 · p. 12
अनुष्टुप्
अङ्गहीने त्वनङ्गस्त्रिरङ्गभिन्ने नपुंसकम् ।अनञ्जनं तु क्ली व्योम्नि त्रि तु स्याद्विगताञ्जने ॥ १३० ॥
3.130 · p. 12
अनुष्टुप्
अनड्वान्नावृषेऽघ्न्यायामनड्वाह्यनडुह्यपि ।अनन्तः केशवे शेषे बलदेवे च वासुकौ ॥ १३१ ॥
3.131 · p. 12
अनुष्टुप्
विश्वेदेवान्तरे सिन्दुवारेऽर्हन्नृपभेदयोः ।क्ली त्वभ्रके खेऽनन्ता तु पौर्णमास्यां महद्दिशि ॥ १३२ ॥
3.132 · p. 12
अनुष्टुप्
भूगुडूच्योर्विशल्यायां शारिवादूर्वयोरपि ।कणादुरालभापथ्यापार्वत्यामलकीषु च ॥ १३३ ॥
3.133 · p. 12
अनुष्टुप्
लाङ्गल्यामग्निमन्थे च तारादेव्यामपि स्त्रियाम् ।जनमेजयपत्न्यां चाथान्तेनरहिते त्रिषु ॥ १३४ ॥
3.134 · p. 12
अनुष्टुप्
अनपालिस्तु धात्र्यां स्त्री तथा पाल्यां गदद्रुहि ।अनयो व्यसनानीतिदैवाशुभविपत्सु च ॥ १३५ ॥
3.135 · p. 12
अनुष्टुप्
अनलः-अनुद्वेषः
अनलश्चित्रके वह्नौ पुमान्वस्वन्तरेपि च ।अनोऽन्ने शकटे सान्तं क्लीबमम्बुनि चौदने ॥ १३६ ॥
3.136 · p. 13
अनुष्टुप्
भवेदनिमिषो देवे मत्स्ये चाप्यनिमेषवत् ।द्वयं तु तत्त्रिलिङ्गं स्यान्निमिषेण विवर्जिते ॥ १३७ ॥
3.137 · p. 13
अनुष्टुप्
अनिरुद्धः पुमान्पत्यावुषायास्त्रित्ववारिते ।अनिलः पुंसि पवने स्मृतो वस्वन्तरेपि च ॥ १३८ ॥
3.138 · p. 13
अनुष्टुप्
अनीकोऽस्त्री रणे सैन्ये वृन्दे बाणाङ्गभिद्यपि ।अनीकस्थो रणगते हस्तिशिक्षाविचक्षणे ॥ १३९ ॥
3.139 · p. 13
अनुष्टुप्
राजरक्षिणि चिह्ने च वीरमर्दनकेपि च ।अनीकिनी सैन्यमात्रेऽक्षौहिण्या दशमेंशके ॥ १४० ॥
3.140 · p. 13
अनुष्टुप्
अनु हीने सहार्थे च पश्चात्सादृश्ययोरपि ।लक्षणेत्थंभूतभाषाभागवीप्सास्वनुक्रमे ॥ १४१ ॥
3.141 · p. 13
अनुष्टुप्
आयामे च समीपे च समुदाहृतमव्ययम् ।अनुः प्राणे पुमानुक्तो मनुष्ये तु द्वयोर्मतः ॥ १४२ ॥
3.142 · p. 13
अनुष्टुप्
अनुकर्षो रथाधःस्थदारुण्यप्यनुकर्षणे ।अनुक्रोशः कृपायां ना स्यादनुक्रोशनेपि च ॥ १४३ ॥
3.143 · p. 13
अनुष्टुप्
सामान्तरे त्वनुक्रोशं नपुंसकमुदाहृतम् ।अनुगो वाच्यवत्प्रोक्तोऽनुगामिनि च सेवके ॥ १४४ ॥
3.144 · p. 13
अनुष्टुप्
अनुतर्षस्तु चषके मद्ये तृष्णाऽभिलाषयोः ।उपर्युदीच्यश्रेष्ठानां विपरीते त्र्यनुत्तरः ॥ १४६ ॥
3.146 · p. 13
अनुष्टुप्
श्रेष्ठे च विपरीते तु प्रतिवाचो नपुंसकम् ।बहुव्रीहावीदृशानां प्रयोगस्त्रिषु सम्मतः ॥ १४७ ॥
3.147 · p. 13
अनुष्टुप्
अनुदात्तो निघाताख्यस्वरे तद्वति तु त्रिषु ।भिन्नेप्युदात्तादेतस्य प्रयोगस्त्रिषु सम्मतः ॥ १४८ ॥
3.148 · p. 13
अनुष्टुप्
अनुद्वेषो द्वेषमात्रे दीर्घद्वेषानुबन्धयोः ।पश्चात्तापे तथा देशभेदेपि च पुमान्मतः ॥ १४९ ॥
3.149 · p. 13
अनुष्टुप्
अनुपमा-अन्तः
याच्ञोपतापैश्वर्याशीःष्वनुनाथनमिष्यते ।भवेदनुपमा सुप्रतीकिन्यां त्रिषु तूत्तमे ॥ १५० ॥
3.150 · p. 14
अनुष्टुप्
अनुबन्धस्तु बन्धे स्याद्दोषोत्पादे विनश्वरे ।मुख्यानुयायिनि शिशौ प्रकृतस्यानिवर्त्तने ॥ १५१ ॥
3.151 · p. 14
अनुष्टुप्
अनुबन्धी तु हिक्कायां तृष्णायामपि योषिति ।अनुभावः प्रभावे स्यान्निश्चये भावबोधके ॥ १५२ ॥
3.152 · p. 14
अनुष्टुप्
अथानुमतिराम्ले स्यादनुज्ञायामपि स्त्रियाम् ।पूर्णिमायां कलाहीनचन्द्रायामपि सोच्यते ॥ १५३ ॥
3.153 · p. 14
अनुष्टुप्
अनुरूपस्तु सदृशे भेद्यवत्परिकीर्त्तितः ।स्याद्बहिष्यवमानस्य द्वितीये सतृचे पुमान् ॥ १५४ ॥
3.154 · p. 14
अनुष्टुप्
अनुवत्सर इत्युक्तो वत्सरे वत्सरान्तरे ।अथानुवासनं स्नेहबस्तिधूपनयोर्मतम् ॥ १५५ ॥
3.155 · p. 14
अनुष्टुप्
भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः ।अनुषङ्गस्तु कारुण्ये प्रकृतस्यानुवर्त्तने ॥ १५६ ॥
3.156 · p. 14
अनुष्टुप्
अनुष्टुप् छन्दसि द्वात्रिंशद्वर्णे वाचि च स्त्रियाम् ।अनूकं तु कुले शीले कण्ठाभ्यर्णाङ्गभिद्यपि ॥ १५७ ॥
3.157 · p. 14
अनुष्टुप्
अनूकस्तु गते जन्मन्येष पुंसि प्रकीर्त्तितः ।अनूचानो विनीते च साङ्गवेदपटौ त्रिषु ॥ १५८ ॥
3.158 · p. 14
अनुष्टुप्
अनूपो महिषे द्वे स्यात्त्रिस्त्वम्बुप्रायदेशके ।अनृतं तु कृषौ क्लीबमसत्ये च त्रिषु त्वदः ॥ १५९ ॥
3.159 · p. 14
अनुष्टुप्
असत्ययुक्तेप्यनृतेप्यपुंसत्वेप्यनृता स्त्रियाम् ।अनेडमूकः स्यादन्धे वक्तुं श्रोतुमशिक्षिते ॥ १६० ॥
3.160 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रिलिङ्ग एष कथितः शठे च श्रुतिवर्जिते ।अनेधास्तु पुमानग्नौ वाते च त्रिस्त्वनिन्धने ॥ १६१ ॥
3.161 · p. 14
अनुष्टुप्
अनेहा काल इन्द्रे च पुमान्सान्तादनेहसः ।अन्तोऽवसाने मरणे स्वरूपे निश्चयेऽन्तिके ॥ १६२ ॥
3.162 · p. 14
अनुष्टुप्
धर्मे प्रधाने च पुमान्केषांचित्पुंनपुंसकम् ।कोटेरारभ्य दशमे स्थाने दशगुणोत्तरे ॥ १६३ ॥
3.163 · p. 14
अनुष्टुप्
अन्ता-अन्तावसायी
संख्याभेदे समुद्राख्यसंख्यायां त्वपरे विदुः ।सा च संख्याष्टमं स्थानं कोटेरारभ्य कीर्त्तिता ॥ १६४ ॥
3.164 · p. 15
अनुष्टुप्
एतयोः पूर्वसंख्यायां विकल्पेनाभ्यधुस्त्रिषु ।छान्दोग्योपनिषद्युक्तं सर्वेष्वन्तेष्वितीदृशम् ॥ १६५ ॥
3.165 · p. 15
अनुष्टुप्
तत्रार्थश्चिन्तनीयोऽन्यः पदार्थो मन्वते परे ।अन्ता तु नृस्त्रियोर्बन्धे घञ्याकारेपि चान्ततेः ॥ १६६ ॥
3.166 · p. 15
अनुष्टुप्
अन्तनायां तु पुँल्लिङ्गो भेद्यवत्तु पचाद्यचि ।अन्तख्ययमेतच्च स्वीकारे मध्य उच्यते ॥ १६७ ॥
3.167 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 अ (syllables merged)
अन्तरं तु मतं प्रत्यासत्तौ मध्यावकाशयोः ।तादर्थ्येऽवसरे कालभेदे मन्वन्तराह्वये ॥ १६८ ॥
3.168 · p. 15
अनुष्टुप्
विशेषविवरान्तर्धिष्ववसानविनार्थयोः ।अवधौ च त्रिषु पुनस्तुल्येऽल्पपरिधानयोः ॥ १६९ ॥
3.169 · p. 15
अनुष्टुप्
बाह्ये स्वीये प्रतिभुवि नृनपोस्त्वन्तरात्मनि ।अन्तरिक्षं तु गगने क्ली साम्नोरुभयोरपि ॥ १७० ॥
3.170 · p. 15
अनुष्टुप्
वैरूपाष्टकवर्गस्य ये साम्नी उपरिस्थिते ।वास्तुदेवविशेषे तु पुंसि स्यात्सर्वदक्षिणे ॥ १७१ ॥
3.171 · p. 15
अनुष्टुप्
कोष्ठे यो वर्त्तते प्राच्य कोष्ठपङ्क्तेर्हि वास्तुनः ।अन्तरीपं भवेद्द्वीपे तथान्तर्वारिणस्तटे ॥ १७२ ॥
3.172 · p. 15
अनुष्टुप्
अन्तरेणाव्ययं विद्याद्विनामध्यार्थयोरपि ।अन्तर्गतं विस्मृतेऽन्तः प्रविष्टेऽपि च वाच्यवत् ॥ १७३ ॥
3.173 · p. 15
अनुष्टुप्
अन्तशय्या मृतौ भूमिशय्यायां पितृकानने ।अन्तरस्था तु स्त्रियां प्रोक्ता यरयोर्लवयुक्तयोः ॥ १७४ ॥
3.174 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 यर (syllable split)
तथाच्छन्दो विचित्यां च द्व्यक्षरप्रभृतिष्वपि ।षड्विंशतौ च छन्दःसु चतुर्वृद्धेषु दृश्यते ॥ १७५ ॥
3.175 · p. 15
अनुष्टुप्
प्रयोगे ब्राह्मणोपस्थानीयाजीयके तथा ।त्रिष्वन्तावस्थिते चापि तथैवान्तरवस्थिते ॥ १७६ ॥
3.176 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्तावसायिन्यन्तावसायी द्वे नापिते तथा ।चाण्डालेपि चाण्डालान्निषादी भुवि संकरे ॥ १७७ ॥
3.177 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 चा (syllables merged)
अन्तावसायी-अपकारः
मुनिभेदे तु पुँल्लिङ्गोऽन्तावसायी प्रकीर्त्तितः ।अन्तिकं निकटे त्रिष्वन्तिका स्त्री शीतलौषधौ ॥ १७८ ॥
3.178 · p. 16
अनुष्टुप्
चुल्यां ज्येष्ठभगिन्यां तु नाट्योक्त्या कथ्यतेऽन्तिका ।अन्तेवासी त्रि शिष्ये चण्डालेऽन्तेवासिनी द्वयोः ॥ १७९ ॥
3.179 · p. 16
अनुष्टुप्
अन्त्यस्तु पुंसि मुस्तायां त्र्यन्तोद्भूतेऽधमेऽपि च ।अन्दूः पद्भूषणभिदि करिणो निगडे स्त्रियाम् ॥ १८० ॥
3.180 · p. 16
अनुष्टुप्
अन्धं स्यात्तिमिरे क्लीबं चक्षुर्हीने तु भेद्यवत् ।अन्धको दैत्यभेदे ना नृभूम्नि क्षत्रभिद्यपि ॥ १८१ ॥
3.181 · p. 16
अनुष्टुप्
अन्धकीति स्त्रियां रूपं नैर्ऋत्यां प्रोच्यते दिशि ।अन्धिका द्यूतभेदे स्त्री रजन्यामपि कीर्त्तिता ॥ १८२ ॥
3.182 · p. 16
अनुष्टुप्
अन्धुरूधसि कूपेपि व्रणेपि च पुमान्मतः ।अन्ध्रस्रयनन्यपूर्वायां निषाद्यां जनिते द्वयोः ॥ १८३ ॥
3.183 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वैदेहनाथे पुंभूम्नि नीवृद्भेदेथ तन्नृपे ।ना तद्देशनिवासे तु जनेन्ध्रोऽन्ध्री भवेद्द्वयोः ॥ १८४ ॥
3.184 · p. 16
अनुष्टुप्
अन्नं भोज्ये जले भक्ते भुक्ते त्वन्नं त्रिषु स्मृतम् ।अन्नादो ना व्रतान्ताग्नावन्नस्यात्तरि तु त्रिषु ॥ १८५ ॥
3.185 · p. 16
अनुष्टुप्
मनुष्ये तु द्वयोरन्नादाऽन्नादीति प्रकीर्त्तितम् ।अन्यस्त्वसदृशे भिन्नेऽन्यान्यच्च त्रिषु स्मृतम् ॥ १८६ ॥
3.186 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्यथा वितथेपि स्यात्परार्थेप्यव्ययं मतम् ।अन्वयस्त्वन्ववाये स्यात्सम्बन्धेऽनुगमे तथा ॥ १८७ ॥
3.187 · p. 16
अनुष्टुप्
अन्वासनं स्नेहबस्तावुपास्तावनुशोचने ।अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ॥ १८८ ॥
3.188 · p. 16
अनुष्टुप्
अथ स्त्रियां बहुष्वापः सलिलेच्छन्दसोरपि ।शताक्षरेऽष्टनवति स्वरे ह्नीबेर एव च ॥ १८९ ॥
3.189 · p. 16
अनुष्टुप्
भूमेरधस्ताल्लोकेषु मुस्ते व्योमनि च क्वचित् ।अप स्यादपकृष्टार्थे वर्जनार्थवियोगयोः ॥ १९० ॥
3.190 · p. 16
अनुष्टुप्
विपर्यये च विकृतौ चौर्ये निर्देशहर्षयोः ।अपकारोऽन्यपीडायां तथा स्यादन्यतः कृतौ ॥ १९१ ॥
3.191 · p. 16
अनुष्टुप्
अपकृष्टः-अपवादः
अपकृष्टोऽधमेपि स्यात्त्रिषु चैव पृथक्कृते ।अपक्रमः कुक्रमे त्रिर्नाऽपगत्यां पलायने ॥ १९२ ॥
3.192 · p. 17
अनुष्टुप्
स्त्रियामपचितिः पूजानिष्कृत्योश्च व्यये क्षये ।एकाहयज्ञयोरप्यपचितिः संप्रयुज्यते ॥ १९३ ॥
3.193 · p. 17
अनुष्टुप्
अपटी स्त्री काण्डपटे निष्पटे त्वपटा त्रिषु ।अपत्यं तु भवेत्तोके सामगानां च विश्रुते ॥ १९४ ॥
3.194 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
आरण्यके सामभेदे…उच्चतेजेत्यृचि ।अपदानं कर्मणि स्यादितिवृत्तेऽवखण्डने ॥ १९५ ॥
3.195 · p. 17
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 सा (syllables merged); pāda 2, syllable 4 ते (syllables merged)
अपदेशः पुमांल्लक्षे निमित्तव्याजयोरपि ।अपध्वस्तं धिक्कृते चाप्युज्झितेप्यवचूर्णिते ॥ १९६ ॥
3.196 · p. 17
अनुष्टुप्
निन्दिते कैश्चिदेतच्च वाच्यलिङ्गं प्रकीर्त्तितम् ।अपभ्रंशस्तु पतने भाषाभेदापशब्दयोः ॥ १९७ ॥
3.197 · p. 17
अनुष्टुप्
अपरं गजपश्चार्द्धे सिद्धान्तेऽथापरा स्त्रियाम् ।जरायामितरस्मिंस्तु त्रिः पूर्वप्रतियोगिनि ॥ १९८ ॥
3.198 · p. 17
अनुष्टुप्
अथापराजितः पुंसि हरे विष्णौ स्त्रियां पुनः ।छान्दोग्यकीर्त्तितब्रह्मपुरि योक्ताऽपराजिता ॥ १९९ ॥
3.199 · p. 17
अनुष्टुप्
तथैवासनपर्ण्याख्यक्षुद्रवृक्षे जये द्वयोः ।गिरिकर्णी लतायां चाप्यैशान्यां दिशि च त्रि तु ॥ २०० ॥
3.200 · p. 17
अनुष्टुप्
अजिते राजितं यस्मादपेतं तत्र यस्य च ।गर्हितं राजितं तत्र राजिते गर्हितेऽप्यथ ॥ २०१ ॥
3.201 · p. 17
अनुष्टुप्
गर्हिते राजने क्लीबमपराजितमुच्यते ।अपर्णा गिरिजायां स्यात्पर्णहीने तु भेद्यवत् ॥ २०२ ॥
3.202 · p. 17
अनुष्टुप्
अपलापः प्रेमणि स्यात्तथैवायमपह्नवे ।अपवर्गः क्रियासाध्यफलाप्तौ त्यागमोक्षयोः ॥ २०३ ॥
3.203 · p. 17
अनुष्टुप्
अपवर्जनमित्युक्तं क्ली दानत्यागमुक्तिषु ।अपवादस्तु निन्दायामाज्ञाविस्रम्भयोरपि ॥ २०४ ॥
3.204 · p. 17
अनुष्टुप्
अपवारणः-अपूपः
उत्सर्गस्य निषेधेऽपि पुँल्लिङ्गः परिकीर्त्तितः ।ननाऽपवारणाऽन्तर्धौ त्रिषु निर्वारणे मता ॥ २०५ ॥
3.205 · p. 18
अनुष्टुप्
त्रिषु त्वपशदो नीचेऽथ स्यादपशदो द्वयोः ।वर्णानामानुलोम्येन षट्सु जातासु जातिषु ॥ २०६ ॥
3.206 · p. 18
अनुष्टुप्
अपष्ठो नाङ्कुशाग्रे स्यात्पष्ठहीने तु वाच्यवत् ।अपष्ठुः पुंसि कालेऽथ वामे स्यादन्यलिङ्गकः ॥ २०७ ॥
3.207 · p. 18
अनुष्टुप्
अपसर्जनमाख्यातं परिवर्जनदानयोः ।अपसर्पश्चारभेदे कीर्त्तितोऽप्यपसर्पणः ॥ २०८ ॥
3.208 · p. 18
अनुष्टुप्
अपेतसर्पके त्वेष वाच्यलिङ्गः प्रकीर्त्तितः ।अपसव्यः सूतकाग्नौ पुँल्लिङ्गः परिकीर्त्तितः ॥ २०९ ॥
3.209 · p. 18
अनुष्टुप्
प्रतिकूले दक्षिणे च तनोरेष त्रिलिङ्गकः ।अपस्नानं मृतस्नाने तथा तत्स्नानवारिणि ॥ २१० ॥
3.210 · p. 18
अनुष्टुप्
अपह्नवस्तु पुँल्लिङ्गः स्मृतः स्नेहापलापयोः ।अपागर्भस्तु पुँल्लिङ्गो वह्नौ वाते च कीर्त्तितः ॥ २११ ॥
3.211 · p. 18
अनुष्टुप्
अपाङ्गस्त्र्यङ्गहीनेऽथ नेत्रान्ते तिलके च ना ।अपादानं तु विश्लेषावधावपहृतौ तथा ॥ २१२ ॥
3.212 · p. 18
अनुष्टुप्
अपानं तु गुदे क्लीबं वृषणेपि पुमान्पुनः ।आरण्यके सामभेदे शारीरपवनान्तरे ॥ २१३ ॥
3.213 · p. 18
अनुष्टुप्
अपायस्त्रिर्गताभे ना विश्लेषे विद्रवे व्यये ।अपारस्तु समुद्रे ना त्रिषु पारविवर्जिते ॥ २१४ ॥
3.214 · p. 18
अनुष्टुप्
अपावृतस्तु पिहिते स्वतन्त्रेपि च वाच्यवत् ।अपाश्रयस्तु ना मत्तवारणेऽपाश्रितावपि ॥ २१५ ॥
3.215 · p. 18
अनुष्टुप्
अपेताश्रयके त्वेष त्रिलिङ्गः परिकीर्त्तितः ।अपासनं निरसने वधे क्ली त्रिर्गतासने ॥ २१६ ॥
3.216 · p. 18
अनुष्टुप्
अपिः संभावनाप्रश्नशङ्कागर्हासमुच्यये ।तथायुक्तपदार्थेऽपि कामचारकृतावपि ॥ २१७ ॥
3.217 · p. 18
अनुष्टुप्
अपुषः स्यात्पुमानग्नौ ना सा रुज्यपुषा त्रिषु ।अपूपः पिष्टकभिदि मधुच्छत्रे तथा पुमान् ॥ २१८ ॥
3.218 · p. 18
अनुष्टुप्
अप्नः-अभक्तः
अपोगण्डस्तु बलिभे विकलाङ्गे शिशावपि ।अप्नः सान्तं क्ली क्रियायां रूपेऽपत्ये च कीर्त्तितम् ॥ २१९ ॥
3.219 · p. 19
अनुष्टुप्
अप्नुः पुमान्याचके च कालेऽपि परिकीर्त्तितः ।अप्पतिर्वरुणे चैव समुद्रे च प्रकीर्त्तितः ॥ २२० ॥
3.220 · p. 19
अनुष्टुप्
त्रिष्वप्रतिरथो योगे ऋषिभेदे तु पुंस्ययम् ।आशुःशिशान इत्यादि सूक्तेऽप्रतिरथं मतम् ॥ २२१ ॥
3.221 · p. 19
अनुष्टुप्
अप्रहृष्टस्तु काके द्वे त्रित्वप्रमुदिते भवेत् ।अप्वा नद्यां भये रोगे स्त्रियामेषा प्रकीर्त्तिता ॥ २२२ ॥
3.222 · p. 19
अनुष्टुप्
अबद्धं बन्धनाभावे नपुंसकमुदीरितम् ।अनन्यबन्धे तु भवेत्त्रिर्निरर्थकवाचि च ॥ २२३ ॥
3.223 · p. 19
अनुष्टुप्
अबलो बलहीने त्रिर्ना तु भार्याग्रजन्मनि ।स्त्री तु चर्वितताम्बूलरसे योषिति चाबला ॥ २२४ ॥
3.224 · p. 19
अनुष्टुप्
अबलोर्णं तु चूर्णे क्ली ताम्बूलस्यापि चर्विते ।अबलोर्णः पुमान्वाच्यस्फुटायां परिकीर्त्तितः ॥ २२५ ॥
3.225 · p. 19
अनुष्टुप्
अबालो वाच्यवत्प्रौढे नालिकेरद्रुमे पुमान् ।अब्जं क्ली लवणे पद्मे ना तु शङ्खशशाङ्कयोः ॥ २२६ ॥
3.226 · p. 19
अनुष्टुप्
धन्वन्तरौ च निचुले त्रिस्त्वब्जो जलसम्भवे ।अब्जः सान्तं भवेत्क्लीबं रूपे चैव सरोरुहे ॥ २२७ ॥
3.227 · p. 19
अनुष्टुप्
अब्दः पुमान्वारिदे स्याद्वत्सरे मुस्तके तथा ।ऋषिभेदे पुरोडाशभेदे चावयवे तरोः ॥ २२८ ॥
3.228 · p. 19
अनुष्टुप्
अब्धः कूपे पुमानब्धा स्त्रियां सरिति कीर्त्तिता ।अब्धिः समुद्रेपि पुमांस्तथा सरसि कीर्त्तितः ॥ २२९ ॥
3.229 · p. 19
अनुष्टुप्
कोटेस्तथाष्टमे स्थाने संख्या स्यादब्धिनामिका ।अब्धिजा तु स्त्रियां लक्ष्म्यां भेद्यवत्तु समुद्रजे ॥ २३० ॥
3.230 · p. 19
अनुष्टुप्
अब्धिमण्डूक्यब्धिजायां शुक्तौ द्वे त्वब्धिदर्दुरे ।अब्रह्मण्यमवध्योक्तौ ब्रह्मण्यात्त्वितरे त्रिषु ॥ २३१ ॥
3.231 · p. 19
अनुष्टुप्
अभक्तो भक्तहीनेपि निर्विभागेपि वाच्यवत् ।अभक्तस्त्र्यविभक्तासंबद्धभक्तोज्झितेष्वपि ॥ २३२ ॥
3.232 · p. 19
अनुष्टुप्
अभक्ष्यं-अभिघाती
अभक्ष्यं तु कुभोज्येप्यशक्यभक्ष्येपि वाच्यवत् ।अभङ्गुरत्वविषमभङ्गशीलान्ययोस्त्रिषु ॥ २३३ ॥
3.233 · p. 20
अनुष्टुप्
अभया तु हरीतक्यां पार्वत्यां च शिवेऽभयः ।धर्मपुत्रे बिम्बिसारे पारस्त्रैणेयकेपि च ॥ २३४ ॥
3.234 · p. 20
अनुष्टुप्
उशीरे त्वभयं क्लीबं भयहीने तु वाच्यवत् ।स्यादभावस्त्वसत्तायां विष्णोर्भावे तथामृतौ ॥ २३५ ॥
3.235 · p. 20
अनुष्टुप्
अभीत्थम्भूतकथने चाभिमुख्याभिलाषयोः ।अभिक्रमोऽभिक्रमणे पुमानारोहणेपि च ॥ २३६ ॥
3.236 · p. 20
अनुष्टुप्
शताक्षरच्छन्दसि चाभिकारे भिद्यतिः स्त्रियाम् ।अभिक्रमोऽभिगमनास्कन्दारम्भेषु कीर्त्तितः ॥ २३७ ॥
3.237 · p. 20
अनुष्टुप्
अभिक्रोशोभिशापेपि विलोपेपि प्रकीर्त्तितः ।अभिक्षेपः स्यादभिप्रेरणेऽप्यभिभवेपि च ॥ २३८ ॥
3.238 · p. 20
अनुष्टुप्
अभिख्याकीर्त्तिविख्यातिप्रज्ञासंज्ञाद्युतिष्वियम् ।ज्ञानेप्यभिगमो ग्राम्यधर्मपैशुन्ययोरपि ॥ २३९ ॥
3.239 · p. 20
अनुष्टुप्
गोमयेनोपलेपाख्योपासनाङ्गाभियानयोः ।अथाभिगमनं देवमूर्त्त्युपासनवर्त्मनि ॥ २४० ॥
3.240 · p. 20
अनुष्टुप्